तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 131, कुल 199 में से
संदर्भ में पढ़ें११४ तर्कसंग्रहे [ अनुमानपरिच्छेदः च व्याप्तिविशिष्टमित्यस्य व्याप्तिप्रकारकमित्यर्थः । अत्र व्याप्तिः प्रकारो यत्र ज्ञाने तद् व्याप्तिप्रकारकम् । एवञ्च व्याप्तिप्रकारकत्वं पक्षधर्मताज्ञानेऽस्त्येवेति नोक्तदोषः । पक्षधर्मतायाः ज्ञानमिति षष्ठीसमासात् पक्षधर्मताज्ञानशब्दो निष्पद्यते । अत्र षष्ठ्याः विषयत्वमर्थः । धर्मतापवस्य च सम्बन्धोऽर्थः । तथा च पक्षसम्बन्धि- विषयकं ज्ञानमिति लभ्यते । एतदेवाह — पक्षधर्मताज्ञानमित्यत आरभ्य सम्बन्धार्थकत्वादित्यन्तेन ग्रन्थेन । कर्मधारयसमासेन इति । तथा च यत्र यत्र कर्मधारयसमासो भवति तत्र सर्वत्रैव समस्यमानपदार्थयोरभेद एव संसर्गो भासते, यथा नीलश्चासौ घटश्चेति विग्रहेण कर्मधारयसमासे य एव नीलपदार्थो भवति स एव घटपदार्थो भवतीति नीलाभिन्नो घट इति तत्र बोध्यते, तद्वद् अत्रापि व्याप्तिप्रकारकाभिन्नं यत् पक्षसम्बन्धिविषयकं ज्ञानं, तत् परामर्श इति तात्पर्यम् । पक्षसम्बन्धिपदेन ( पक्षधर्मपदेन ) हेतुर्गृह्यते इत्यवधारणीयम् । उदाहरणमाह मूले—वह्निव्याप्यधूमवान् पर्वत इति ज्ञानं परामर्श इति । अत्र ज्ञाने प्रकारीभूतायाः ( विशेषणीभूतायाः ) व्याप्तेः पर्वतरूपपक्षसम्बन्धिनो धूमस्य च भानात् इदं ज्ञानं व्याप्तिप्रकारकपक्षसम्बन्धिविषयकं जातमत् एवंविधं ज्ञानमेव परामर्श इति सिद्धम् । न्या.बो. ननु धूमो वह्निव्याप्यः, आलोकवान् पर्वतं इत्याकारकसमुहालम्बनज्ञानेऽ- पृ.४१. परामर्शभूते उक्तलक्षणस्यातिव्याप्तिः, अत्रापि प्रकारविधया व्याप्तेः, पर्वनरूप- पक्षसम्बन्धिन आलोकस्य च भानेन व्याप्तिप्रकारकपक्षसम्बन्धिविषयकत्वादिति पूर्वपक्षमाह एवं सतीति । निष्कर्षेणोत्तरयति — पक्षनिष्ठविशेष्यतेति । प्रकारताविशेष्यतयोः मिथो निरूप्यनिरूपकभावो भवतीति बहुशः पूर्वमुक्तम् । तथा च पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता, तन्निरूपिता या व्याप्तिनिष्ठाप्रकारता, तच्छाालिज्ञानत्वमिति परामर्शस्य निष्कृष्टं लक्षणम् । अनेन वह्निव्याप्यधूमवान् पर्वतं इति ज्ञानं परामर्शो भविष्यति । यतस्तत्र विशेष्यः पर्वतः, विशेष्यता पर्वतनिष्ठा, तन्निरूपिता प्रकारता हेतुभूते धूमे, तन्निरूपिता प्रकारता व्याप्ताविति तच्छाालिज्ञानत्वस्य तत्र सत्त्वात् । वह्निव्याप्यो धूमः आलोकवान् पर्वत इति समूहालम्बनज्ञाने तु नातिव्याप्तिः । यतस्तत्र पर्वतनिष्ठ- विशेष्यतानिरूपिता प्रकारता आलोके विद्यते किन्तु तन्निरूपिता प्रकारता व्याप्तौ नास्ति, आलोके व्याप्तेरविशेषणत्वात् । धूमिनरूपिता प्रकारता तु व्याप्तौ वर्तते, किन्तु तस्मिन् धूमे पर्वननिष्ठविशेष्यतानिरूपिता प्रकारतैव नास्ति, पर्वतरूपे विशेष्ये आलोकस्यैव विशेषणत्वेन धूमस्य विशेषणत्वाभावात् । तथा च तत्र पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारताशालिज्ञान- त्वाभावान्नातिव्याप्तिरिति भावः ।