तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 184, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १६७ साधारणस्य किं लक्षणम् ?— तत्र साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः । यथा-पर्वतो वह्निमान् प्रमेयत्वादिति । (अत्र) प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । असाधारणस्य किं लक्षणम् ?— सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा-शब्दो नित्यः शब्दत्वादिति । (अत्र) शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । अनुपसंहारिणः किं लक्षणम् ?— अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा-सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति । विरुद्धस्य किं लक्षणम् ?— साध्याभावव्याप्तो हेतुविरुद्धः । यथा-शब्दो नित्यः कृतकत्वात् पदकृत्यम् तत्रेति । साधारणादित्रितयमध्य इत्यर्थः । अथ 'विरुद्धेऽतिप्रसक्तिरिति मा स्म दृप्यः, सपक्षवृत्तित्वस्यापि निवेशात् । अथैवमपि स्वरूपासिद्धे दूषणं जागर्तीति मा वह गर्वम्, पक्षवृत्तित्वस्यापि तथात्वात् । पक्षमात्रेति । सर्वे ये सपक्षा विपक्षास्तेभ्यो व्यावर्तत इति सपक्षविपक्ष- व्यावृत्तः । केवलव्यतिरेकिवारणाय तद्भिन्न इत्यपि देयम् । अन्वयेति । केवलान्वयिन्यतिव्याप्तिवारणाय अन्वयेति । केवलव्यतिरे- किण्यतिव्याप्तिवारणाय व्यतिरेकेति । अत्रेति । उपदर्शितानुमान इत्यर्थः । विरुद्धं लक्षयति—साध्येति । सद्धेतुवारणाय साध्याभावव्याप्त इति । ²सत्प्रतिपक्षवारणाय सत्प्रतिपक्षभिन्न इत्यपि बोध्यम् । कृतकत्वादिति । हिन्दी १. साध्याभाववद्वृत्तित्व विरुद्धहेतुमें भी रहता है, अतः उसमें साधारणानैका- न्तिककी अतिप्रसक्ति रोकनेके लिये सपक्षवृत्तित्वका निवेश कर देना चाहिये ; एवं स्वरूपासिद्धमें अतिव्याप्तिवारणके लिये पक्षवृत्तित्वका भी निवेश कर देना चाहिये । तब यों लक्षण बन गया—सपक्षवृत्तित्वे सति पक्षवृत्तित्वे सति साध्याभाववद्वृत्तित्वम् साधारणानैकान्तिकत्वम् इति । २. सत्प्रतिपक्ष हेतु भी साध्याभावसे व्याप्त होता है, अतः उसमें विरुद्धलक्षणकी अतिव्याप्तिके वारणार्थ 'सत्प्रतिपक्षभिन्न' ऐसा विशेषण देना चाहिये ।