तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 185, कुल 199 में से
संदर्भ में पढ़ें१६८ तर्कसंग्रहः [ अनुमानपरिच्छेदः घटवदिति । (अत्र) कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् । सत्प्रतिपक्षस्य किं लक्षणम् ? — साध्याभावसाधकं हेत्वन्तरं यस्य, स सत्प्रतिपक्षः । यथा- शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत्, शब्दोऽनित्यः कार्यत्वाद् घटवत् । असिद्धः कतिविधः ? — असिद्धस्त्रिविधः—आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासि- सिद्धश्चेति । आश्रयासिद्धः कः ? — आश्रयासिद्धो यथा-गगनारविन्दं सुरभि, अरविन्दत्वात्, सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः, स नास्त्येव । स्वरूपासिद्धस्य किं रूपम् ? — स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वाद् । पदकृत्यम् कार्यत्वादित्यर्थः । कृतकत्वमिति । अनित्यत्वेन व्याप्तमिति । यद्यत्कृतकं तत्तदनित्यमिति व्याप्तिर्भवत्येव तथेति भावः । सत्प्रतिपक्षं लक्षयति — साध्येति । यस्य हेतोः साध्याभावसाधकं = साध्या- भावस्यानुमापकं हेत्वन्तरं = प्रतिपक्षो हेतुः विद्यते, स हेतुः सत्प्रतिपक्ष इत्यर्थः । अयमेव प्रकरणसम इत्युच्यते । विरुद्धवारणाय हेत्वन्तरं यस्येति । वह्न्यादिवारणाय साध्याभावेति । असिद्धं विभजते — असिद्ध इति । आश्रयासिद्ध्याद्यन्यतमत्वमसिद्धत्वम् । आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम् । भवति हि अर- विन्दत्वे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्, अरविन्दरूपपक्षे गगनीयत्वविरहात् । ननु कथमरविन्दे गगनीयत्वविरहोऽत आह-अत्रेति । उपदर्शितानुमान इत्यर्थः । पक्षे हेत्वभावः स्वरूपासिद्धिः । सद्धेत्वभावेऽतिव्याप्तिवारणाय पक्षे इति । घटाद्यभाववारणाय हेत्विति । सोऽयं स्वरूपासिद्धः शुद्धासिद्धभागा- सिद्धविशेषणासिद्धविशेष्यासिद्धभेदेन चतुर्विधः । तत्राद्यस्तूपदर्शित एव ।