तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 190, कुल 199 में से
संदर्भ में पढ़ेंअथ शब्दपरिच्छेदः शब्दप्रमाणस्य किं स्वरूपम् ?— आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः, यथा-गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः । पदकृत्यम् अवसरसङ्गतिमाभप्रेत्योपमानान्तरं शब्दं निरूपयति—आप्तेति । शब्द इति । शब्दप्रमाणमित्यर्थः । भ्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाणत्व- वारणाय आप्तेति । ननु कोऽयमाप्त इत्यत आह—आप्तस्त्विति । यथार्थ- वक्ता = यथाभूताबाधितार्थोपदेष्टा । वाक्यं लक्षयति—वाक्यमिति । घटादि- समूहवारणाय पदेति । शक्तमिति । निरूपक^१तासम्बन्धेन शक्तिविशिष्ट- मित्यर्थः । अस्मादिति । घटपदाद्घटरूपोऽर्थो बोद्धव्य इतीश्वरेच्छैव शक्ति- रित्यर्थः । ^२अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वं तल्लक्षणम् । शक्तिरिव लक्षणापि पदवृत्तिः । अथ केयं लक्षणा ? शक्यसम्बन्धो लक्षणा । सा च त्रिधा— ^३जहत्-अजहत्-जहदजहद्भेदात् । वर्तते च गङ्गायां घोष इत्यत्र गङ्गापद- हिन्दी १. “अस्मात् पदादयमर्थो बोद्धव्यः” इस सङ्केतके अनुसार ईश्वरेच्छानिरूपित- पदजन्यबोधविषयतारूपा शक्ति स्वरूपसम्बन्धसे अर्थमें रहती है, किन्तु वही शक्ति (उक्त विषयता) परम्पराया निरूपकतासम्बन्धसे पदमें रहती है। इसी अभिप्रायसे “शक्तम्” का अर्थ निरूपकतासम्बन्धसे ‘शक्तिविशिष्टम्’ ऐसा किया । २. शाब्दबोधमें उपयोगी पदार्थस्मृति होती है और पदार्थस्मृतिके अनुकूल जो पद और अर्थका सम्बन्ध है, वही शक्ति और लक्षणारूप पदवृत्ति है । क्योंकि शक्तिके समान लक्षणा भी पदवृत्ति है। ३. जहल्लक्षणाका उदाहरण-“गङ्गायां घोषः” है। क्योंकि यहाँ पूर्णरूपसे शक्यार्थ-प्रवाहका परित्याग हो जाता है और तीरका बोध होता है । अजहल्लक्षणाका उदाहरण है—“छत्राणि यान्ति”। क्योंकि छत्रशब्दसे छत्रसहित छत्रधारी व्यक्तियोंका बोध होता है । जहदजहल्लक्षणाका उदाहरण है—“सोऽयमश्वः”। यहाँ “सः” पदका शक्यार्थ है—तद्देशवृत्तित्वविशिष्ट अश्वव्यक्ति । इसमें तद्देशवृत्तित्वांशका परित्याग कर तथा व्यक्त्यंशका अपरित्योग कर एतद्देशवृत्ति अश्वका बोध होता है । “तत्त्वमसि” यह यह महावाक्य भी इसका उदाहरण है ।