तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 192, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १७५ हस्तीति न प्रमाणम्—आकाङ्क्षाविरहात् । वह्निना सिञ्चतीति न प्रमाणम्—योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामा- नयेत्यादिपदानि न प्रमाणम्—सान्निध्याभावात् । वाक्यं कतिविधम् ? — वाक्यं द्विविधम्—वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्स- र्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् । शाब्दज्ञानं किम् ? — वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं तु शब्दः । । इति शब्दपरिच्छेदः । पदकृत्यम् नन्वेतावता शाब्दसामग्री प्रपञ्चिता । प्रमाविभाजकवाक्ये शब्दस्याप्यु- द्दिष्टत्वेन तत्कुतो न प्रदर्शितमित्यत आह - वाक्यार्थेति । शाब्दत्वं च शब्दात्प्रत्येमीत्यनुभवसिद्धा जातिः । शाब्दबोधक्रमो यथा—चैत्रो ग्रामं गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्र इति शाब्दबोधः । द्वितीयायाः कर्मत्वमर्थः, धातोर्गमनम् । अनुकूलत्वं च संसर्गमर्यादया भासते । लटो वर्तमानत्वम्, आख्यातस्य कृतिः । तत्सम्बन्धः संसर्गमर्यादया भासते । रथो गच्छतीत्यत्र गमनानुकूलव्यापारवान् रथः इति शाब्दबोधः । स्नात्वा गच्छतीत्यत्र गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकूल- वर्तमानकृतिमानिति शाब्दबोधः । क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वं चार्थः । एवमन्यत्रापि वाक्यार्थो बोध्यः । । इति पदकृत्ये शब्दपरिच्छेदः ।