भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 194, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 194

सहिन्दीपदकृत्यसहितः १७७ स्मृतिः कतिविधा ?— स्मृतिरपि द्विविधा—यथार्था अयथार्था च । प्रमाजन्या यथार्था, अप्रमाजन्या अयथार्था । सुखस्य किं लक्षणम् ?— सर्वेषामनुकूलवेदनीयं सुखम् । दुःखस्य किं लक्षणम् ?— प्रतिकूलवेदनीयं दुःखम् । इच्छाद्वेषप्रयत्नानां कानि लक्षणानि ? इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । पदकृत्यम् १पुनरसम्भववारणाय व्यापकारोप इति । अत्र बह्न्यभावो व्याप्यः धूमा- भावो व्यापकः । २यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीतद्बहिर्दे- शान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते । स च मानसविपर्ययान्तर्गतः । सुखं निरूपयति-सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत्तत्सुख- मित्यर्थः । अहम् सुखीत्यनुभवसिद्धसुखत्वजातिमत्, ३धर्ममात्रासाधारणकारणो गुणो वा सुखम् । शत्रुदुःखवारणाय सर्वेषामिति । प्रतिकूलेति । दुःखत्वजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा दुःखम् पदकृत्यं पूर्ववत् । इच्छां निरूपयति-इच्छेति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विविधा-फलेच्छा उपायेच्छा च । फलं सुखादिकं । उपायो हिन्दी १. व्याप्यारोपसे व्यापकारोपके सिवा और कुछ होता ही नहीं, अतः किसी अन्यके अभिप्रायसे किया गया लक्षण असंभवदोषग्रस्त होगा, इसके वारणके लिये व्यापकारोपपद दिया । २. यद्यपि तर्क भी अवास्तव होनेसे विपर्यय ही है, अतः इसका पृथग् विभाग करना अनुचित है, तथापि अन्य विपर्यय प्रमाणके अनुग्राहक नहीं होते किन्तु तर्क तो प्रमाणका पोषक होता है । इसी विशेषताके कारण इसे पृथक् कहा । ३. धर्ममात्र है असाधारण कारण जिसका ऐसा बहुव्रीहि समास हैं । १२