तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 194, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १७७ स्मृतिः कतिविधा ?— स्मृतिरपि द्विविधा—यथार्था अयथार्था च । प्रमाजन्या यथार्था, अप्रमाजन्या अयथार्था । सुखस्य किं लक्षणम् ?— सर्वेषामनुकूलवेदनीयं सुखम् । दुःखस्य किं लक्षणम् ?— प्रतिकूलवेदनीयं दुःखम् । इच्छाद्वेषप्रयत्नानां कानि लक्षणानि ? इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । पदकृत्यम् १पुनरसम्भववारणाय व्यापकारोप इति । अत्र बह्न्यभावो व्याप्यः धूमा- भावो व्यापकः । २यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितः, तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीतद्बहिर्दे- शान्तर्देशयोः सन्धौ इडानाड्यां वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते । स च मानसविपर्ययान्तर्गतः । सुखं निरूपयति-सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत्तत्सुख- मित्यर्थः । अहम् सुखीत्यनुभवसिद्धसुखत्वजातिमत्, ३धर्ममात्रासाधारणकारणो गुणो वा सुखम् । शत्रुदुःखवारणाय सर्वेषामिति । प्रतिकूलेति । दुःखत्वजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा दुःखम् पदकृत्यं पूर्ववत् । इच्छां निरूपयति-इच्छेति । काम इति पर्यायः । इच्छात्वजातिमती इच्छा । सा द्विविधा-फलेच्छा उपायेच्छा च । फलं सुखादिकं । उपायो हिन्दी १. व्याप्यारोपसे व्यापकारोपके सिवा और कुछ होता ही नहीं, अतः किसी अन्यके अभिप्रायसे किया गया लक्षण असंभवदोषग्रस्त होगा, इसके वारणके लिये व्यापकारोपपद दिया । २. यद्यपि तर्क भी अवास्तव होनेसे विपर्यय ही है, अतः इसका पृथग् विभाग करना अनुचित है, तथापि अन्य विपर्यय प्रमाणके अनुग्राहक नहीं होते किन्तु तर्क तो प्रमाणका पोषक होता है । इसी विशेषताके कारण इसे पृथक् कहा । ३. धर्ममात्र है असाधारण कारण जिसका ऐसा बहुव्रीहि समास हैं । १२