तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 195, कुल 199 में से
संदर्भ में पढ़ें१७८ तर्कसंग्रहः [ अवशिष्टपरिच्छेदः धर्मस्य अधर्मस्य च किं लक्षणम् ?— विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः । आत्ममात्रविशेषगुणाः के ?— बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धिच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य, अनित्या जीवस्य । संस्कारः कतिविधः, तद्भेदाश्च किंस्वरूपाः ?— संस्कारस्त्रिविधः—वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना, पदकृत्यम् यागादिः । द्वेषं निरूपयति-क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेषः । प्रयत्नम् निरूपयति-कृतिरिति । प्रयत्नत्वजातिमान् प्रयत्नः । स त्रिविधः-प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रवृत्तिः । द्वेषजन्यो गुणो निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसंचारकारणम् । धर्ममाह - विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहितेति । यागादिक्रियावारणाय कर्मजन्य इति । कर्मनाशाजलस्पर्शांकीर्तनभोग- तत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह निषिद्धेति । वेदेनेत्यर्थः । धर्मवार- णाय वेदनिषिद्धेति ! वेदनिषिद्धक्रियावारणाय कर्मजन्य इति । स च भोग- प्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते वासनाजन्यो च । वासना च विलक्षणसंस्कारः । संस्कारं विभजते—संस्कार इति । २सामान्यगुणात्मविशेषगुणोभयवृत्ति- गुणत्वव्याप्यजातिमान् संस्कारः । ३घटादिवारणाय गुणत्वव्याप्येति । ४संयो- हि०दी १. किसी वस्तुके सम्बन्धमें “इदं द्विष्टसाधनम्” इस ज्ञानसे उत्पन्न होने वाला जो गुण वह द्वेष है । २. सामान्यगुण वेग और स्थितिस्थापक तथा आत्माका विशेषगुण संस्कार, इनमें रहने वाली गुणत्वव्याप्या जाति संस्कारत्वजाति जिसमें रहे, वह संस्कार है । ३. केवल जातिमान् लक्षण करनेपर घटत्वजातिमान् घटमें अतिव्याप्ति होगी, उसका वारण करनेके लिये गुणत्वव्याप्यपर्यन्त निवेश किया । ४. “सामान्यगुणवृत्तिगुणत्वव्याप्यजातिमान् संस्कारः” ऐसा लक्षण करनेपर संयोगत्वजातिको लेकर संयोगमें अतिव्याप्ति हो जायगी । इसके वारणार्थ ‘आत्म- विशेषगुणोभयवृत्ति’ पद दिया ।