उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 13, कुल 86 में से
संदर्भ में पढ़ें४ उत्तरगीतायां ता; तेषां या भावना 'तत्त्वमसि' इत्यादिवाक्यजन्या चरम- वृत्तिः, तन्निवृत्तिर्वा, तज्जन्याविद्यानिवृत्तिर्वा, तन्निवृत्त्यधिष्ठानं वा, सा ब्रह्मेति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः ॥ तदेव तत्त्वज्ञानं तन्निवर्त्याविद्यानिवृत्तिं च आह— शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५ ॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६ ॥ अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरू- पत्त्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंसः ब्रह्म हंसा- क्षरं च प्रणवं च एतत्कूटस्थं यत्, एतदुभयसाक्षिभूतं यत्, तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत्स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणज- न्मनी जननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् ॥ सा च मुक्तिः जीवपरमात्मनोरैक्यमिति प्रतिपादयति— अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते— काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ ७ ॥