उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 14, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ५ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः अविद्याप्रतिबिम्बः, तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म, तत्प्रतिपादकं यत् ककारान्तम्, मुखमित्येतत् का- काक्षिन्यायेन अत्रापि संबध्यते । तथा च शब्दश्लेषः मुख- भूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तम् अन्तिमं यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सर्वं विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियै- रर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एत- त्त्रयम् अकारस्यार्थः । उकारश्चेतनाकृतिः । काकीमुखेत्यत्र मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्मशरी- रमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्यप्रत्ययः स- विषयः स्वप्नः, तदुभयाभिमानी आत्मा तैजसः । एतत्त्रय- मुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेत- नाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वा- चकः । मकारस्य — काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकारः शरीरद्वयकारणमात्माज्ञानं साभासं अव्याकृतमित्यु- च्यते । तच्च न सत्, नासत्, नापि सदसत् ; न भिन्नम्, ना- भिन्नम्, नापि भिन्नाभिन्नं कुतश्चित् ; न निरवयवम्, न