उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 15, कुल 86 में से
संदर्भ में पढ़ें६ उत्तरगीतायां सावयवम् , नोभयम् ; केवलब्रह्मात्मकत्वज्ञानापनोद्यम् । सर्व- प्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । त- दुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं तस्य मकारस्यार्थः । लुप्तस्य—अकार उकारे, उकारो मकारे, मकार ओंकारे, एवं लुप्तस्य कोऽर्थः ककारात्परो यः अकारः तस्य योऽर्थः लक्ष्यस्वरूपं मकारात्परम्योंकारस्य अर्थः लक्ष्यस्वरूपम् , उप- लक्षणमेतद्द्वयम् उकारात्पूर्वमकारस्यार्थः लक्ष्यस्वरूपम् ओं- कारात्मा साक्षी केवलचिन्मात्रस्वरूपः नाज्ञानं तत्कार्यं च, किं तु नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव संप्र- तिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । 'अयमात्मा ब्रह्म' 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्य इति भावः ॥ यद्वा पाठान्तरे— काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तः अकारः ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वा-