उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 16, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ७
विद्यया संहरति इति न्यायात् । मकारस्य जीवत्वाकारस्य लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपो- ऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसंधानवान् संप्रति- पद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारा- न्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः । धकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्यालोपवतो ब्र- ह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्य- स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति शेषः । तथा च श्रुतिः 'आप्लवस्व प्रप्लवस्व, आण्डी भव ज मा मुहुः, सुखादीं दुःखानिधनाम्, प्रतिमुञ्चस्व स्वां पुरम्' इति । अस्यार्थः—हे ज जननमरणयुक्तजीवत्वमाप्लवस्व जी- वन्मुक्तो भव प्रप्लवस्व प्रारब्धान्मुक्तो भव, आण्डी ब्रह्मा- ण्डान्तर्वर्ती संसारी मुहुर्मा भव मा भूः । संसारी चेत् किमप- राध इत्याशङ्क्याह—सुखादीम वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेह- द्वयं प्रतिमुञ्चस्व त्यज ॥
एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्त- रीयकफलमप्याह—