उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 20, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ११ एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आन- न्दैकरसं यत् ब्रह्म, तद्ध्यानं समाधिः । तस्य तस्मिन् स्थि- तस्य किं लक्षणमित्याशङ्कयाह—त्रिशून्यं पूर्वोक्तप्रभादि- शून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्थात्रय- शून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभि- धानात् । तादृशं ब्रह्म यो विजानीयात्, स समाधिस्थः बन्धनात् संसारबन्धनात् मुच्येत मुक्तो भवति ॥ एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह— स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्च- लसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते— अमात्त्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥