उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
प्रथमोऽध्यायः । ११ एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आन- न्दैकरसं यत् ब्रह्म, तद्ध्यानं समाधिः । तस्य तस्मिन् स्थि- तस्य किं लक्षणमित्याशङ्कयाह—त्रिशून्यं पूर्वोक्तप्रभादि- शून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्थात्रय- शून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभि- धानात् । तादृशं ब्रह्म यो विजानीयात्, स समाधिस्थः बन्धनात् संसारबन्धनात् मुच्येत मुक्तो भवति ॥ एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह— स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्च- लसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते— अमात्त्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥
१२ उत्तरगीतायां अमात्रं ह्रस्वदीर्घप्लुतादिरहितं शब्दरहितं शब्दातीतम्, स्वरव्यञ्जनवर्जितम् अक्षरसमूहात्मकपदानाभिधेयम् बिन्दु- नादकलातीतम् — अनुस्वारो बिन्दुः संवृते गळविवरे यद्दी- र्घघण्टानिर्ह्रादवदनुरणनं स नादः, कला नादैकदेशः तैरती- तम्, न यथाकथंचिच्छब्दवाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद, स वेदवित् सकलवेदान्ततात्पर्यज्ञः नान्य इत्यर्थः ॥ एवं प्राप्तआत्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादि- निवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह— प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके, यद्वा, ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति, ज्ञेये सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते ह्यपरोक्षतया भासमाने सति, देहे देहोपाधिमति जीवे ल- ब्धशान्तिपदे संप्राप्तब्रह्मभावे सति, तदा, योगोऽपि नास्ति धारणा च नास्ति; सिद्धे फले साधनेन प्रयोजनाभावादिति भावः ॥ एवमात्मतत्त्वापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते इति तस्य स्वरूपमाह —
प्रथमोऽध्यायः । १३ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय वि- धीयमानः वेदान्ते च सर्ववेदानामान्ते च उपर्युक्तक्रमणपरि- हाराय प्रतिष्ठितः संस्थापितः, चकारात् सर्ववेदरक्षणाय वे- दमध्ये च निपातितः यः स्वरः प्रणवात्मकः, तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बो- धकः, उपलक्षणं चैतत् सर्वप्राणेन्द्रियकरणवर्गप्रबोधकः सर्व- नियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव आत्मतत्त्वज्ञानी, नान्य इत्यर्थः ॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधनप्रयासः कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टा- न्तमाह — नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न संप्रा- प्नोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरणसाधनप्लवनार्थी भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया U 2.
१४ उत्तरगीतायां नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्व- दत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति भावः ॥ तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह— ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २० ॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा, ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः— धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः । किंच— उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा उल्काहस्तो भवति, पश्चाद्द्रव्यमालोक्य तदनन्तरं तामु- ल्कां यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परि- त्यजेत् इत्यर्थः ॥
प्रथमोऽध्यायः । १५ जाते चापरोक्षज्ञाने, तेन प्रयोजनाभावात् साधनं परि- त्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह— यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ यथा अमृतेन सागरमथनोद्भूतेन अमृतेन तृप्तस्य संतु- ष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति, एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्तशास्त्रादिभिः किं प्रयो- जनम् , न किमपीत्यर्थः ॥ किंच, तत्त्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्ती- त्याह— ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्यं नास्ति, तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसं- ग्रहार्थमेव, यद्यभिनिवेशेन कर्मासक्तिरस्ति, तर्हि स तत्त्व- विन्न भवति, आरूढो न भवतीत्यर्थः ॥
१६ उत्तरगीतायां अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति, किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह— तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ तैलधारामिवाविच्छिन्नं संततधारावत् विच्छेदरहितं दीर्घ- घण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितम् अवाच्यम् अवाज्ञानसगोचरं प्रणवस्य अकारोकारमकार- बिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद, स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः ॥ तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह— आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥ आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या- सात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगू- ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत् ; नान्य इत्यर्थः ॥
प्रथमोऽध्यायः । १७ यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणाम् आह— तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदत्यन्तनिर्मलम् ॥ २६ ॥ हे पार्थ, विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्मस्वरूपम् , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत् ब्रह्मधारणं कुर्यादित्यर्थः ॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति— दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७ ॥ देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;
१८ उत्तरगीतायां किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य शरीरसंबन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि, पिण्ड- वर्जितः शरीरसंबन्धाध्यासरहितः; तत्र हेतुः -- विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयंप्रकाशश्च । एवं ध्यायेदिति पूर्वेण संबन्धः ॥ किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिक- मात्मनो नास्ति इत्याह -- कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८ ॥ देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्थः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादियुक्तशरीर- स्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । काय- स्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोग- रहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः ॥ किंच--
प्रथमोऽध्यायः । १९ कायस्थोऽपि न लिप्तः स्या- त्कायस्थोऽपि न बाध्यते । कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण- धर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥ यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तस्यैव देहा- न्तःकरणादावात्मा विचारणीय इत्याह— तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९ ॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३० ॥ आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रा- दिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते, क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदको-
२० उत्तरगीतायां पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम- द्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या- गेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन् वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते, तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयां- शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत इत्यर्थः ॥ एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति — तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१ ॥ तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः दे - हमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्न - तिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः
प्रथमोऽध्यायः । २१ मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः ॥ तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह— मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२ ॥ मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्य- स्थं सर्वसाक्षिभूतम् मनवर्जितं संकल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सि- ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ॥ तेषां लक्षणमाह— आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीया- त्समाधिस्थस्य लक्षणम् ॥ ३३ ॥ 61606
१२ उत्तरगीतायां आकाशवन्मानसं मनो निर्मलं कृत्वा मनः संकल्पविक- ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी- श्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः ॥ आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह— योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४ ॥ योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृ- त्वा तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा- हारः, उपलक्षणमेतत् , हितमितमेध्याशी, सदा सुखी सर्वदा संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा- धिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसं- सारनाशकृदित्यर्थः ॥ तादृशसमाधौ स्थितस्य लक्षणमाह— ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । ६५: ईश्वर
प्रथमोऽध्यायः । २३ सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् । ३५ ॥ ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यं मध्य- शून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकाला- दिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम्, स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः ॥ एतस्यैकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह— शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । शून्यमिति सर्वपरिच्छेदरहितमिति भावितः वासितः भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावित- भावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते मुक्तो भवतीत्यर्थः ॥ एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह— अर्जुन उवाच— अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६ ॥
२४ उत्तरगीतायां अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ; ननु तर्हि दृश्यं भवत्विति चेत्, दृश्यमेतत्सर्वं विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूपरहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः ॥ न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयो- क्तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्या- दिना, वेदान्तजन्यवृत्तिगोचरत्वेन तत्संभवतीत्यभिप्रायेणाह- श्रीभगवानुवाच- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७ ॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं च
प्रथमोऽध्यायः । २५ आत्मेति यो ध्यायति, स समाधिस्थः । तस्य लक्षणमपि तदेवेत्यर्थः ॥ नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा वि- कल्प्य तत्र दोषमाशङ्क्याह -- अर्जुन उवाच— सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८ ॥ उभयोरपि दुष्टत्वा- त्कथं ध्यायन्ति योगिनः । सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्व- म् , निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शशविषा- णायितत्वम् , एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् यो- गिनः कथं ध्यायन्तीति प्रश्नार्थः ॥ यज्ञदानादिना शुद्धान्तःकरणस्य वेदान्तजन्यनिर्विशेष- ब्रह्मगोचरवृत्तिसंभवात् न शून्येत्यभिप्रायेणाह— श्रीभगवानुवाच— हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९ ॥
२६ उत्तरगीतायां अहमेव इदं सर्व- मिति पश्येत्परं सुखम् । हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् परमा- नन्दात्मकः सन् एक एवाहमिदं सर्वं जगज्जालमहमेव न मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्रा- प्नुयात् इत्यर्थः ॥ अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णात्म- कत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मककलात्म- कत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्याये- दिति भगवतोक्तम्, तद्विविच्य ज्ञातुं पृच्छति— अर्जुन उवाच— अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४० ॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते । हे भगवन् समात्राणि अक्षराणि अकारादीनि सर्वे स-
२. द्वितीय अध्याय: प्रणव (ॐ) साधना, कुण्डलिनी व नादानुसन्धान
र्वाणि, लिङ्गव्यत्ययः आर्षः, बिन्दुसमाश्रिताः बिन्दुसन्मात्रा- णीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति, तथापि नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोप- लक्षणम् ॥ एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह- श्रीभगवानुवाच- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१ ॥ ध्वनेरन्तर्गतं ज्योति- र्ज्योतिरान्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२ ॥ अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूप- कलायां नादस्यान्तर्भाव इति तात्पर्यम्। कलान्तर्भावमाह-
२८ उत्तरगीतायां ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कला- याः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चका- रणभूतं मनः यत्र विलयं याति, यत्र ब्रह्मणि वेदान्तजन्य- निर्विकल्पकब्रह्मगोचरमनोवृत्तिः लयं याति, तत् वृत्तिलय- स्थानं वृत्तिलयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूप- मिति । तदुक्तम्—मनः कायाग्निना हन्तीत्यादिना ॥ पुनस्तदेव विशिनष्टि— ओंकारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३ ॥ ओंकारध्वनिनादेन ओंकारध्वन्यात्मकनादेन सह वायोः संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार- पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात् , तत् नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं पदमित्यर्थः ॥
प्रथमोऽध्यायः । २९ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य- पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक- रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा- वृत्तिप्रकारं पृच्छति— अर्जुन उवाच— भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि- तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर- माह— श्रीभगवानुवाच— धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । U 3.
३० उत्तरगीतायां इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५ ॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः। जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६ ॥ धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभू- तानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः प- ञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्—दिग्वातार्क- प्रचेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्व- भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा- नतः ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्ष- ब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥ एवं स्थूलदेहप्रलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य ति- ष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति—