उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 38, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । २९ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य- पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक- रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा- वृत्तिप्रकारं पृच्छति— अर्जुन उवाच— भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि- तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर- माह— श्रीभगवानुवाच— धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । U 3.