उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
प्रथमोऽध्यायः । २९ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्य- पापे विधूय ब्रह्मसायुज्येऽभिहिते, आरुरुक्षोरपरिशुद्धान्तःक- रणत्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणान्तिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरा- वृत्तिप्रकारं पृच्छति— अर्जुन उवाच— भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४ ॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति, पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्याकारेण स्थि- तेषु सत्सु, देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति, धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः ॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तर- माह— श्रीभगवानुवाच— धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । U 3.
३० उत्तरगीतायां इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५ ॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः। जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६ ॥ धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभू- तानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षुरादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः प- ञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः, तदुक्तम्—दिग्वातार्क- प्रचेताश्विवह्निप्राप्यप्रलीयकाः इति, ता देवताः, एते सर्व- भूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमा- नतः ममताहंकारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्ष- ब्रह्मानुभवं न प्राप्नोति, तावज्जीवेन सह जीवोपाधिना लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः ॥ एवं स्थूलदेहप्रलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य ति- ष्ठत इत्युक्ते, लिङ्गशरीरभङ्गः कदेति पृच्छति—
प्रथमोऽध्यायः । ३१ अर्जुन उवाच— स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७ ॥ स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैज- सेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसा- भिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः ॥ एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति, प्राज्ञस्तुरीयेणे- त्येवं क्रमेण सिध्यतीत्युत्तरमाह— श्रीभगवानुवाच— मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८ ॥
३२ उत्तरगीतायां मुखनासिकयोर्मध्ये मुखनासिकाभ्यतः सदा सर्वदा यावदहष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसंख्यया संचरति, तावत्प- र्यन्तमंदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्म- ज्ञानानन्तरं जीवस्यादृष्टनिवृत्तिः, तदा आकाशः जीवत्वनि- मित्तं प्राणं पिबते, तदा जीवः केन जीवति जीवत्वापादका- विद्यानिवृत्त्या निरञ्जनब्रह्मभावे जाते जीवत्वमेव नास्ती- त्यर्थः ॥ ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं निरञ्जनत्वमिति पृच्छति— अर्जुन उवाच— ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९ ॥ हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डाव- च्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते, एवं
प्रथमोऽध्यायः । ३३ सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथ- मित्यर्थः । निःसङ्गो वा कथमिति प्रश्नार्थः ॥ आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं छेत्स्यतीत्यभि- प्रायेणाह— श्रीभगवानुवाच— आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५० ॥ आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभ- यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादानकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादा- नस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह— आकाशस्य गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्याभू- ताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते । तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह संबन्धासंभ- वात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥
१४ उत्तरगीतायां एवं भगवतोक्ते, अक्षरशब्दस्य भगवदभिमतार्थं अजा- नानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न संभवतीत्यभिप्रायेण पृच्छति— अर्जुन उवाच— दन्तोष्ठतालुजिह्वाना- मास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१ ॥ हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालुजिह्वानाम्, उपलक्षणमेतत् कण्ठादीनामष्टानां स्थानानाम्, आस्पदम् आ- स्पदत्वं दृश्यते प्रत्यक्षमभूयते । 'अकुहविसर्जनीयानां कण्ठः' इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश- रहितत्वं कुतः, उत्पत्तिमतो नाशावश्यंभावात्? सदा सर्व- कालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम्, नाशरहितत्वं कुत इति प्रश्नार्थः ॥ एवमभिप्रायमजानानेन अर्जुनेन पृष्टे स्वाभिप्रेतमक्षरश- ब्दार्थं स्फुटयन् भगवानुवाच— श्रीभगवानुवाच—
प्रथमोऽध्यायः । १५ अघोषमव्यञ्जनमस्वरं चा- प्यतालूकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथंचित् ॥ ५२ ॥ अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्य- ञ्जनातीतम् अस्वरम् अजतीतम्, अतालुकण्ठोष्ठमपि अ- व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम् अनासिकम् अनु- स्वारोत्पत्तिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरे- खासमुहातीतम् ऊष्मवर्जितं शषसहातीतम्, यद्वा, ऊष्मश- ब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम्, परं लोकप्रसि- द्धवर्णलक्षणातीतं यत् ब्रह्म कथंचित् सर्वप्रकारेण सर्व- कालेऽपि न क्षरते, तदेवाक्षरशब्देनोच्यते । न लौकिकान्य- क्षराणीत्यर्थः ॥ एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृ- च्छति— अर्जुन उवाच— ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् ।
३६ उत्तरगीतायां इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३ ॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व- गतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सि- ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥ एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह— श्रीभगवानुवाच— इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धि- र्बुद्धिनाशे कुतो ज्ञाता ॥ ५४ ॥ मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन दे- हे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदाढर्यम् इन्द्रियदार्ढ्यं च ज्ञानोपायं इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह— देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ! बुद्धिनाशे तत्त्वज्ञानाभावे ज्ञाता अपरोक्षज्ञानिता च कुतः ! तस्माद्देहे-
[Header] प्रथमोऽध्यायः । ३७
न्द्रियादिभिः यज्ञानादिश्रवणादिकमेव तत्त्वज्ञाने कारण- मिति भावः ॥ तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अव- धिमाह— तावदेव निरोधः स्या- द्यावसत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५ ॥ यावसत्त्वज्ञानं नास्ति, तावत्पर्यन्तमिन्र्दियनिरोधः स्यात् ; परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति, एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन- रहितं ब्रह्मैवानुपश्यति, नान्यत् ; तदनन्तरं साधनानुष्ठानप्रया- सोऽपि मा भूदिति भावः ॥ तस्माद्यावसत्त्वज्ञानं तावत्साधनमनुष्ठेयम्, तदभावे तन्न सिध्यतीत्याह— नवच्छिद्रकृता देहाः स्रवन्ति गलिका इव ।
३८ उत्तरगीतायां नैव ब्रह्म न शुद्धं स्या- त्पुमान्ब्रह्म न विन्दति ॥ ५६ ॥ देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषय- स्स्राविवृत्तिमद्भावेन्द्रियघटितानि; तत्र दृष्टान्तः गळिका इव छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्र- णवित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वा- विघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वाविघटिते पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति भानन्दानुभवं न प्राप्नोतीत्यर्थः ॥ तस्मात् यावत्तत्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः, जाते च तत्त्वावबोधे विधिनिषेधातीतत्वेन न कोऽपि यत्नः कर्तव्य इत्यभिप्रायवानाह— अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७ ॥ देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः ।
प्रथमोऽध्यायः । १९ देही आत्मा निष्कृष्टाहंकारः सन् अत्यन्तनिर्मलः अहंकारो- पाधिकसंसाररहितः इत्येवमुभयोर्देहात्मनोः अन्तरं कल्पित- त्वसत्यत्वे ज्ञात्वा यो वर्तते, तं प्रति कस्य शौचं विधीयते देहस्य वा आत्मनो वा ? देहस्य चेत् , जडस्य जडेन जला- दिना न शुद्धिः; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना प्रयोजनमिति भावः ॥ इति श्रीगौडपादाचार्यविरचितायां उत्तरगीताव्याख्यायां प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥ अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥ अर्जुन उवाच— ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १ ॥ हे भगवन् ब्रह्म बिम्बभूतं चैतन्यं सर्वगतं सर्वत्र परिपूर्णं सर्वज्ञं सर्वसाक्षिभूतं परमेश्वरं सर्वनियामकमिति ज्ञात्वा तत्त्वमसीत्यादिवाक्यतो विबुध्य अहं ब्रह्मेति, प्रतिबिम्बात्मा जीवः ब्रह्मेति निर्देष्टुं वक्तुं तत्र तद्बिम्बैक्ये किं प्रमाणं किमुपपादकमित्यर्थः ॥ एवं पृष्टो भगवान् क्षीरजलादिदृष्टान्तेन उपाधिनिवृत्ता- वात्मैक्यं संभवतीत्याह—
द्वितीयोऽध्यायः । ४१ श्रीभगवानुवाच— यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्व- ज्जीवात्मपरमात्मनोः ॥ २ ॥ जले नद्यादौ जलं तदेव पात्रादुद्धृतं पात्रोपाधितः पृथ- क्भूतं तत्रैव क्षिप्ते पात्रोपाधिनिवृत्तौ महाजलैक्यं प्राप्नोति, एवं क्षीरे क्षीरं घृते घृतं क्षिप्तं सत् तत्तदैक्यं प्राप्नोति, तद्वत् जीवात्मपरमात्मनोः अविद्याद्युपाधितो भेदेऽपि तन्नि- वृत्तावविशेषः संभवतीति भावः ॥ एवमैक्यज्ञानं गुरुमुखादेव संभावितमविद्यानिवर्तकम् , न तु स्वतन्त्रविचारसंभावितमिति वदन् तत्त्वज्ञानार्थं गुरु- मेव अभिगच्छेदिति गुरुशासनमाह— जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३ ॥
४२ उत्तरगीतायां स्वयमधिकारी एकाग्रवेदिना ब्रह्मनिष्ठेन गुरुणा प्रमाण- लक्षणैः 'तत्त्वमसि' 'यतो वा इमानि भूतानि' 'यः सर्व- ज्ञः सर्ववित्' इत्यादिभिः जीवे परेण परमात्मना तादात्म्यम् ऐक्यं बोधिते सति, तदनन्तरं स्वयमेव सर्वगं सर्वव्यापिन- मीश्वरं सर्वनियन्तारं ज्योतिः स्वयंप्रकाशात्मा इति विज्ञेयं ज्ञातुं योग्यमित्यर्थः ॥ एवं गुरूपदेशानन्तरभाविज्ञानेनैवोपपत्तौ किं कर्मयोगे- नेति पृच्छति— अर्जुन उवाच— ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४ ॥ हे भगवन् ज्ञेयं विचार्य ब्रह्मैक्यं ज्ञानादेव गुरूपदिष्टा- देव भवेत्; तथा च विदित्वा गुरूपदेशानन्तरं तत्त्वं ज्ञात्वा तत्क्षणेन तु वेदान्तवाक्यजन्यचरमवृत्त्युत्तरक्षणमेव मुच्येत मुक्तो भवेत्; एवं ज्ञानमात्रेण मुक्त्युपपत्तौ योगधारणा कर्म- योगाभ्यासः किं पुनः किंप्रयोजनम् व्यर्थत्वादित्यभिप्रायः ॥
द्वितीयाऽध्यायः । ४१ एवं कर्मयोगवैयर्थ्ये शङ्किते यावत्तत्त्वज्ञानं न संभवति, तावदन्तःकरणशुद्ध्यर्थमनुष्ठेयं कर्म; सिद्धे च तस्मिन् ज्ञाने, पुनः कर्मानुष्ठानं मा भूत् इत्याह- श्रीभगवानुवाच- ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वा- न्निर्दहेत्कर्मबन्धनम् ॥ ५ ॥ हे अर्जुन विद्वान् विवेकी ज्ञानेन देहे लिङ्गशरीरे दीपिते शुद्धे , ततः बुद्धिः निश्चयात्मिका ब्रह्मसमन्विता चेत् ब्रह्मणि स्थिता असंभावनारहिता चेत्, तदनन्तरं ब्रह्मज्ञा- नाग्निना ब्रह्मज्ञानानलेन कर्मबन्धनं कर्मपाशं निर्दहेत् त्यजे- दित्यर्थः । तदुक्तम्- 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरु- तेऽर्जुन' इति ॥ एवं प्राप्ततत्त्वैक्यस्य ततः परं किमपि न कार्यमित्याह- ततः पवित्रं परमेश्वराख्य- मद्वैतरूपं विमलाम्बराभम् ।
४४ उत्तरगीतायां यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥ ६ ॥ ततः तत्त्वज्ञानानन्तरम् उदके महोदके अनुप्रविष्टम् ऐक्यं गतं तोयं परिच्छिन्नोदकम् , तद्वत् पवित्रं शुद्धम् पर- मेश्वराख्यं परमेश्वरसंज्ञं तथापि विमलाम्बराभं निर्मलाकाश- वदसङ्गमद्वैतरूपं सजातीयविजातीयस्वगतभेदरहितं ब्रह्म परं ब्रह्म अनुप्रविष्टः तदैक्यं गतः अत एव परमात्मरूपः सन् निरुपाधिसंस्थो भवेत् औपाधिककर्तृत्वादिभेदरहितो भवेत् , स्वयं निष्क्रिय आसीतेत्यर्थः; गुणा गुणेषु वर्तन्ते इति न्यायादिति भावः ॥ एवं यथोक्तकर्मानुष्ठानद्वारा तत्त्वज्ञाने जात एव परमा- त्मतत्त्वं ज्ञातुं शक्यम् , न ततः पूर्वमित्याह— आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ आकाशवत् सूक्ष्मशरीरः आकाशं यथातीन्द्रियम् , तद्वत् परमात्मा सूक्ष्मशरीरः, सूक्ष्मत्वमत्र अतीन्द्रियत्वमभिप्रेतम् ,
द्वितीयोऽध्यायः । ४५ तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न, तद्वद् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रिय- विषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वसाधनादिति भावः । तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह— स बाह्यम- भ्यन्तरनिश्चलात्मा यः बाह्यविषयेषु अभ्यन्तरविषयेषु च निश्चलात्मा विषयविक्षिप्तचित्तो न भवति, सः ज्ञानोल्कया वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्त- र्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः ॥ इह केषांचिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति, तन्निराकर्तुम् 'अत्र ब्रह्म समश्नुते' इत्यादि- श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह— यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८ ॥ सर्वगतं सर्ववस्त्ववच्छेदकं व्योम आकाशं यथा अव- च्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति, तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपा- U. 4
४६ उत्तरगीतायां धिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्षज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानकदेहं ज्ञानेन नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवे- त्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भू- दिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तकप्रायश्चित्तान्यपि आरुरुक्ष्वधिकृतानि इति वेदितव्यम् ॥ एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव- स्याणुत्वपक्षे न संभवतीत्याशङ्क्य जीवस्य व्यापित्वं साध- यति— शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९ ॥ शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते, एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः स्वयंप्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जग- न्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्ब- स्यैव जीवत्वेन तस्य व्यापित्वमेव, नाणुत्वमिति भावः ॥
द्वितीयोऽध्यायः । ४७ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह-- मुहूर्तमपि यो गच्छे- न्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त- मात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् ' यस्य ब्रह्मविचा- रणे क्षणमपि प्राप्नोति धैर्यं मनः' 'कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि-- मुक्तिः द्विविधा--सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम- श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्,
४८ उत्तरगीतायां अर्चिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्ग गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमा- र्गस्वरूपमाह-- दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११ ॥ दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि- मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो- ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागतः सहस्रारपर्यन्तं व्याप्ता या नाडी सा देवयानमिति ज्ञेया पुनरावृत्तिरहितार्चिरादिमार्ग इति ज्ञेयेत्यर्थः ॥ धूमादिमार्गप्रापकेष्ठनाडीस्वरूपमाह— इला च वामनिश्वासः सोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२ ॥