उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 56, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ४७ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह-- मुहूर्तमपि यो गच्छे- न्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त- मात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् ' यस्य ब्रह्मविचा- रणे क्षणमपि प्राप्नोति धैर्यं मनः' 'कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि-- मुक्तिः द्विविधा--सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम- श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्,