भारतकोश
संग्रह पर लौटें

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

द्वितीयोऽध्यायः । ४७ एवं तत्त्वज्ञानिनो मुक्तिस्वरूपमभिधाय ततः परं तत्त्व- ज्ञानसाधनानुष्ठातुः तदेव सर्वपापप्रायश्चित्तमित्याह-- मुहूर्तमपि यो गच्छे- न्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १० ॥ यः ज्ञानसाधनानुष्ठाता मनसा सह साधनेन सह मुहूर्त- मात्रमपि नासाग्रे गच्छेत् नासाग्रे तत्त्वज्ञानार्थं निश्चलं चक्षुः कुर्यात् , तस्य तादृशहंसमुद्रानिष्ठस्य जन्मशतार्जितं अनेकजन्मसंचितं सर्वं यत्पापमस्ति तत्सर्वं पाप्मानं पापं योगी तरति नाशयतीत्यर्थः । तदुक्तम् ' यस्य ब्रह्मविचा- रणे क्षणमपि प्राप्नोति धैर्यं मनः' 'कुलं पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती च तेन' इत्यादि-- मुक्तिः द्विविधा--सद्यो मुक्तिः क्रममुक्तिरिति, तत्र सद्यो मुक्तिः 'यत्र यत्र मृतो योगी' इत्यादिना, 'अत्र ब्रह्म सम- श्नुते' इत्यादिश्रुत्या च, प्रतिपादिता । 'ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्' इत्यादिभिः प्रतिपादितां क्रममुक्तिं निरूपयितुम्,

४८ उत्तरगीतायां अर्चिरादिमार्ग गन्तुः पुनरावृत्तिराहित्यम्, धूमादिमार्ग गन्तुः पुनरावृत्तिं च, निरूपयितुं योगधारणया तदुभयमा- र्गस्वरूपमाह-- दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११ ॥ दक्षिणे देहस्य दक्षिणे भागे वह्निमण्डलगोचरा वह्नि- मण्डलं संप्राप्ता पुण्यकर्मानुसारिणी पुण्यकर्मभिः प्राप्तुं यो- ग्या पिङ्गलानाम नाडी मूलाधारादारभ्य दक्षिणभागतः सहस्रारपर्यन्तं व्याप्ता या नाडी सा देवयानमिति ज्ञेया पुनरावृत्तिरहितार्चिरादिमार्ग इति ज्ञेयेत्यर्थः ॥ धूमादिमार्गप्रापकेष्ठनाडीस्वरूपमाह— इला च वामनिश्वासः सोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२ ॥

द्वितीयोऽध्यायः । ४९ इलानाडी वामनिश्व्याससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा- दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेये- त्यर्थः ॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्मदण्ड्याः स्वरूपमाह— गुदस्य पृष्ठभागेऽस्थि- न्वीणादण्डस्य देहभृत् । दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३ ॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे वीणादण्डस्य देहभृत् वीणायास्तन्त्याधारभूतो यो दण्डः तदाकारभृत तद्रूत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं य- दीर्घास्थि दीर्घं पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्नाधारत्वादिति भावः ॥ इतः परं सुषुम्नानाडीस्वरूपमाह—

३. तृतीय अध्याय: जीवन्मुक्ति, अद्वैत-स्थिति व उपसंहार

५० उत्तरगीतायां तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । तस्य ब्रह्माण्डस्याख्याश्वः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं वर्तेत इति शेषः, तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्म- नाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥ तामेव नाडीं निरूपयति— इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मि- न्सर्वगं सर्वतोमुखम् ॥ १४ ॥ इडापिङ्गळनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस- तन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सह- स्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना नाडी, तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्वद्रष्टृ सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत इत्यर्थः, ‘तस्याः शिखाया मध्ये’ इति श्रुतेः । ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमाय- न्नमृतत्वमेति—’ इत्यादिश्रुतेः ॥

द्वितीयोऽध्यायः । ५१ सुषुम्नामार्गगतस्य ब्रह्मप्राप्तिं निरूपयितुं तस्याः कुण्डलि- न्याः सकलजगदात्मकत्वं सकलजगदाधारत्वं सर्वदेवात्मकत्वं सर्ववेदाधारकत्वं च आह— तस्य मध्यगताः सूर्य- सोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्र- समुद्राः पर्वताः शिलाः ॥ १५ ॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६ ॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७ ॥ सूर्यसोमाग्निपरमेश्वराः सूर्यमण्डलसोममण्डलवह्निमण्ड- लानि तन्मध्यस्थितेश्वरश्च, भूतलोकाः पञ्चमहाभूतानि व्यो-

५२ उत्तरगीतायां मादीनि, चतुर्दश भुवनानि भूर्भुवःसुवरादीनि, दिशः पूर्वादयः, क्षेत्राणि वाराणस्यादीनि, समुद्राः लवणेक्ष्वादयः, पर्वताश्च मेर्वादयः, शिलाः यज्ञशिलाः वित्तशिलादयः, द्वीपाः जम्ब्वादयः, निम्नगाः जाह्नव्यादयः, वेदाः ऋग्वेदा- दयः, शास्त्राणि मीमांसादीनि, कलाः चतुःषष्टिकलाः, अक्ष- राः ककारादीनि, स्वराः अकारादयः, मन्त्राः गायत्र्यादयः, पुराणानि ब्रह्माण्डादीनि, गुणाः सत्त्वादयः, बीजं प्रधानम्, बीजात्मकाः महदादयः, क्षेत्रं जानन्तीति क्षेत्रज्ञाः जीवाः, प्राणवायवः—प्राणादयः पञ्च नागादयः पञ्च आहत्य दश- वायवः, सर्व एते तस्य सुषुम्नानाडीविशेषस्य मध्यगताः यस्मात्, तस्मात्कारणात् सर्वं जगज्जातं सुषुम्नान्तर्गतं कुण्ड- लिनीशक्त्यन्तर्भूतमित्यर्थः । अत एव तस्मिन् सर्वं प्रतिष्ठिति- रम् इति, 'तस्यान्ते सुषिरं सूक्ष्मं तस्मिन्सर्वं प्रतिष्ठितम्' इति श्रुतेः ॥ तस्मात्सर्वजगदुत्पत्तिकारणमाह— नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८ ॥

द्वितीयोऽध्यायः । ५१ सर्वभूतानां सर्वप्राणिनाम् अन्तरात्मनि देहे नानानाडी- प्रसवकं नानानाड्युत्पत्तिस्थानभूतम् , ऊर्ध्वमूलं ऊर्ध्वं ब्रह्म तदेव मूलं उत्पत्तिस्थानं यस्य तत् , अधःशाखं हिरण्यगर्भा- दिसृष्टिपरंपराख्याधःप्रसृततिर्यगादिशाखम्, वायुमार्गेण प्रा- णापानादिवायुमार्गेण, सर्वगं सर्वव्याप्तं सत् जगदुपादानत- या तिष्ठतीत्यर्थः ॥ ब्रह्मोपासनस्थानतया इतरनाड्याधिक्यमाह-- द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरा- स्तिर्यञ्चः सुषिरात्मकाः ॥ १९ ॥ अधश्चोर्ध्वगतास्तासु नव द्वाराणि शोधयन् । वायुना सह जीवोर्ध्व- ज्ञानी मोक्षमवाप्नुयात् ॥ २० ॥ वायुगोचराः वायुसंचारानुकूलाः नाड्यः सिराः द्विस- प्ततिसहस्राणि द्व्यधिकसप्ततिसहस्राणि कर्ममार्गेण सुषिराः

५४ उत्तरगीतायां पुनरावृत्तिप्रापकसुषिरखयः; अत एव तिर्यञ्चः तिर्यग्भूताः सुषिरात्मकाः रन्ध्रप्रधानाः अधश्चोर्ध्वगताः अधोभागमू- र्ध्वभागं च गताः सर्वत्र व्याप्ताः; तासु नाडीषु मध्ये सुषु- म्नानाड्या नव द्वाराणि शोधयन् प्राणायामेन मुखादिसर्व- द्वाराणि शोधयन्; जीवः वायुना सह सुषुम्नामार्गगतवायु- ना सह ऊर्ध्वज्ञानी ब्रह्मापरोक्षज्ञानी सन् मोक्षमवाप्नुयात् ब्रह्मैक्यं प्राप्नुयादित्यर्थः । 'तयोर्ध्वमायन्नमृतत्वमेति' इत्या- दिश्रुतेरिति भावः ॥ तस्याः कुण्डलिन्याः सकलजगदाधाररूत्वेन च उपासनां कर्तुमस्यामेव सर्वाणीन्द्रादिपुराणि कल्पयति-- अमरावतीन्द्रलोको- ऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेय- श्चक्षुस्तेजोवती पुरी ॥ २१ ॥ अस्मिन्नाडीविशेषे पूर्वतो दिशि पूर्वस्यां दिशि नासाग्रे नासिकाग्रभागे अमरावती अमरावत्याख्यः इन्द्रलोकः इन्द्रा- दिदेवावासभूतो लोकः वर्तत इति शेषः । तथा अनन्तरं चक्षुः दक्षिणं नेत्रं तेजोवती तेजोवती नाम पुरीति प्रसिद्ध;

द्वितीयोऽध्यायः । ५५ हृदि हृदये अग्निलोकः अग्न्यादिदेवावासभूतो लोकः ज्ञेयः वर्तत इति शेषः ॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैर्ऋतो ह्यथ तत्पार्श्वे नैर्ऋतो लोक आश्रितः ॥ २२ ॥ श्रोत्रे दक्षिणे कर्णे याम्या यमसंबन्धिनी संयमिन्याख्यो यमलोकः यमादिदेववासभूतो लोकः प्रतिष्ठितः अस्ती- त्यर्थः । अथ तत्पार्श्वे दक्षिणकर्णभागे नैर्ऋतः निर्ऋति- संबन्धो नैर्ऋत्याख्यो लोकः आश्रितः अस्तीत्यर्थः ॥ किंच -- विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्ण- पार्श्वे लोकः प्रतिष्ठितः ॥ २३ ॥ प्रतीच्यां पश्चिमदिशि पृष्ठे पश्चिमभागे विभावरीसंज्ञका वारुणिका पुरी वरुणसंबन्धिनी पुरी वर्तत इति शेषः ।

५६ उत्तरगीतायां कर्णपार्श्वे वामकर्णसमीपे गन्धवती गन्धवतीपुर्याख्या वायो- र्लोकः प्रतिष्ठितः अस्तीत्यर्थः ॥ किंच-- सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४ ॥ सौम्ये उत्तरदिशि कण्ठतः कण्ठदेशादारभ्य वामकर्णे वामश्रोत्रे सौम्या कुबेरसंबन्धिनी पुष्पवती पुष्पवत्याख्या सोमलोकः एवं देहमाश्रित्य तिष्ठतीति विज्ञेयः ॥ किंच-- वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५ ॥ वामे चक्षुषि वामनेत्रे ऐशानी ईशानसंबन्धिनी मनो- न्मनी मनोन्मनीपुर्याख्यः शिवलोकः शिवावासभूतो लोकः

द्वितीयोऽध्यायः । ५७ ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्मा- ण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥ देहे एव लोकादिकल्पनामाह-- पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६ ॥ पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु कीदृशः ? शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलया- त्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; 'त्रिलोक्यां दह्यमानायां संकर्षणमुखाग्निना' इति स्मृतेरिति भावः । तदधः किमि- त्याशङ्क्याह--अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं ब्रह्मैव वर्तत इत्यर्थः ॥ शेषोपरि अतलादिलोककल्पनामाह-- अधः पदोऽतलं विद्या- त्पादं च वितलं विदुः ।

५८ उत्तरगीतायां नितलं पादसंधिश्च सुतलं जङ्घमुच्यते ॥ २७ ॥ महातलं तु जानु स्या- दूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८ ॥ पदः पादस्याधोदेशे अतललोकं विद्यात्; पादं तु वितलं लोकमिति विदुः योगिन इति शेषः; पादसंधि तु गुल्फ- स्थानं नितलं विद्यात्; जङ्घं सुतलमित्युच्यते; जानुदेशः महातलं स्यात्; ऊरुदेशः रसातलं विद्यात्; कटिदेशः तला- तलं प्रोक्तम्; एवं देहावयवाः सप्त पातालादिलोकसंज्ञया कल्पनीया इत्यर्थः ॥ किंच-- कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९ ॥

द्वितीयोऽध्यायः । ५९ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारा ह्यानरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्प- राजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा- तालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया ऽभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणा- वृत्य वर्तत इत्यर्थः ॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३० ॥ हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥ किंच— सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥

६० उत्तरगीतायां मन्दश्च सप्तमो ह्येष ध्रुवोऽन्तः स्वर्गलोकतः । सूर्यसोमेत्यादि सूर्यादिग्रहनक्षत्रमित्यस्य व्याख्यानम् । ध्रुवोऽन्तः स्वर्गलोकतः स्वर्गलोकस्यान्ते ध्रुवो वर्तत इत्यर्थः ॥ एवं कल्पनाफलमाह हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२ ॥ योगी हृदये एव सूर्यादिग्रहनक्षत्रादीनि कल्पयन् तस्मिन् हृदि कल्पनाविशेषेण सर्वसुखं लभेत्; तत्तल्लोकगतसुखानि प्राप्नोतीत्यर्थः ॥ किंच-- हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३ ॥ हृदयस्योपरीति शेषः । स्पष्टमन्यत् ॥

द्वितीयोऽध्यायः । ६१ एवं देहे एव सर्वलोककल्पनामुक्त्वा तल्लयप्रकारमाह-- ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४ ॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहंकारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५ ॥ अत्र तामसाहंकारकार्याणां पृथिव्यादीनां सात्त्विकाहंका- रकार्ये मनसि क्रमेण लयकथनं मनोवृत्तिविषयत्वाधीनव्यव- हारगोचरत्वादुपचारात् इति मन्तव्यम् । तच्च मनो बुद्धौ बुद्धिरहंकारे अहंकारं चित्ते चित्तं क्षेत्रज्ञे क्षेत्रज्ञः, परमात्मनि एवं सर्वात्मनि प्रविलापयेदित्यर्थः ॥ एवं योगाभ्यासेन ब्रह्मैक्यानुसंधानवतः सकलदुरितनि- वृत्तिरित्याह-- U, 5

६२ उत्तरगीतायां अहं ब्रह्मेति मां ध्याये- देकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६ ॥ स्पष्टोऽर्थः ॥ जीवस्य मुक्तिस्वरूपमाह-- घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७ ॥ घटे नीयमाने पूर्वदेशादन्यदेशं प्राप्यमाने घटे नष्टे च यथा घटाकाशं महाकाशे ऐक्यं प्राप्नोति, तद्वज्जीवः परमा- त्मनीत्यर्थः ॥ किंच-- घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८ ॥

द्वितीयोऽध्यायः । ६३ यः आत्मानं जीवं घटाकाशमिव परमात्मनि लयं गतं तत्त्वतः यथार्थतया वेत्ति, सः ज्ञानी निरालम्बं निःसंगं ज्ञानालोक्यं ब्रह्मप्रकाशात्मतत्त्वं गच्छति प्राप्नोति, न संशयः संदेहो नास्तीत्यर्थः ॥ एतस्य ज्ञानयोगस्य किमपि न तुल्यमित्याह-- तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९ ॥ आलोच्य चतुरो वेदा- न्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४० ॥ यथा खरश्चन्दनभारवाही ‘ सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ ४१ ॥

६४ उत्तरगीतायां चन्दनभारवाही श्रीचन्दनकाष्ठभारवाही खरः चन्दन- सारवाही न भवति तद्गन्धानुभववान्न भवति, एवं बहूनि शास्त्राण्यधीत्यापि सारं तु अजानन् ब्रह्म न जानन् खरवत् शोच्यः आक्रोश्य इत्यर्थः ॥ ब्रह्मज्ञानपर्यन्तं सर्वमनुष्ठेयम्, ज्ञाते तु सर्वं व्यर्थमित्याह-- अनन्तकर्म शौचं च जपो यज्ञस्तथैव च तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२ ॥ देहे भिन्नेऽप्यात्मैक्यं दृष्टान्तेनाह-- गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३ ॥ अनेकवर्णानां शुक्लादिभिन्नभिन्नवर्णानां गवां क्षीरं यथा एकवर्णम्, मीमांसकमते गुणव्यक्तेरेकत्वादिति भावः; तथा भिन्नभिन्नानां देहिनां ज्ञानं ब्रह्म एकं दृश्यत इत्यर्थः ॥

द्वितीयोऽध्यायः । ६५ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४ ॥ ममेति बध्यते जन्तु- र्न ममेति विमुच्यते ॥ ममेति ममताविषयत्वेन स्वीकृतं सर्वं बन्धाय भवति ; न ममेति ममत्वं विहाय त्यक्तं मोक्षायैवेत्यर्थः । स्पष्टम- न्यत् ॥ अहंकारत्यागकार्यमाह — मनसो ह्युन्मनीभावा- द्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५ ॥ मनसः चित्तस्य उन्मनीभावात् अहंकारत्यागात् द्वैतं नैवो- पलभ्यते, अहंकारोपाधिकत्वाद्भेदस्येति भावः । तथा च यदा उन्मनीभावं मनो याति निष्कृष्टाहंकारचैतन्यं भवति, तदा तदेव परमं पदं मोक्ष इत्याभिधीयते ॥

६८ उत्तरगीतायां

तदुक्तम् ‘आलोड्य सर्वशास्त्राणि’ इत्यादि। उक्तं च हरि- वंशे — ‘असत्कीर्तनकान्तारपरिवर्तनपांसुभिः। वाचं हरि- कथालापगङ्गायैव पुनीमहे’ इति। तत्र दृष्टान्तमाह—हंसो यथा अम्बुमिश्रत्वेऽपि अम्ब्त्वंशं विहाय क्षीरमेवोपादत्ते तद्व- दिति भावः ॥

तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह—

पुराणं भारतं वेद- शास्त्राणि विविधानि च। पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २ ॥

योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य। शेषं स्पष्टम् ॥ किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयि- तव्यानीत्याह--

इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति। अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३ ॥