उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 66, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ५७ ज्ञेयः; मूर्ध्नि शिरसि ब्रह्मपुरी ब्रह्मलोकः ज्ञेयः; एवं ब्रह्मा- ण्डं सर्वजगज्जातं देहमाश्रितं देह एव वर्तत इत्यर्थः ॥ देहे एव लोकादिकल्पनामाह-- पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६ ॥ पादादधः पादाधःप्रदेशे अनन्तः महाशेषः वर्तते, स तु कीदृशः ? शिवः रुद्रात्मकः ; पुनः कीदृशः ? कालाग्निप्रलया- त्मकः प्रलयकालाग्न्यात्मक इत्यर्थः ; 'त्रिलोक्यां दह्यमानायां संकर्षणमुखाग्निना' इति स्मृतेरिति भावः । तदधः किमि- त्याशङ्क्याह--अधश्चोर्ध्वमिति अधोदेशे ऊर्ध्वदेशे मध्यदेशे बहिर्देशे च सर्वत्र अनामयं निरञ्जनं शिवं मङ्गलात्मकं ब्रह्मैव वर्तत इत्यर्थः ॥ शेषोपरि अतलादिलोककल्पनामाह-- अधः पदोऽतलं विद्या- त्पादं च वितलं विदुः ।