भारतकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 59, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 59

५० उत्तरगीतायां तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । तस्य ब्रह्माण्डस्याख्याश्वः अन्ते अग्रे सूक्ष्मं सुषिरं रन्ध्रं वर्तेत इति शेषः, तद्गता नाडी सूरिभिः विवेकिभिः ब्रह्म- नाडीति ब्रह्मैक्यप्रतिपादिका नाडीति कथ्यत इति शेषः ॥ तामेव नाडीं निरूपयति— इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मि- न्सर्वगं सर्वतोमुखम् ॥ १४ ॥ इडापिङ्गळनाड्योर्मध्ये सूक्ष्मरूपिणी अतिसूक्ष्मबिस- तन्तुरूपिणी मूलाधारादारभ्य स्वाधिष्ठानादिचक्रद्वारा सह- स्रारपर्यन्तं गता कुण्डलिनी शक्तिरिति प्रसिद्धा या सुषुम्ना नाडी, तस्याः अग्रे उपरि सर्वं सर्वात्मकं विश्वतोमुखं सर्वद्रष्टृ सर्वगं सर्वव्याप्तं यत्तेजः ब्रह्मज्योतिः, तत् प्रतिष्ठितं विद्यत इत्यर्थः, ‘तस्याः शिखाया मध्ये’ इति श्रुतेः । ‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमाय- न्नमृतत्वमेति—’ इत्यादिश्रुतेः ॥