उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 58, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ४९ इलानाडी वामनिश्व्याससोममण्डलगोचरा वामनासापुट- मार्गेण चन्द्रमण्डलं प्राप्ता वाममाश्रित्य तिष्ठति, मूलाधारा- दारभ्य वामभागतः सहस्रारपर्यन्तं गता या नाडी सा पितृयानमिति ज्ञेया पुनरावृत्त्यनुकूलधूममार्ग इति ज्ञेये- त्यर्थः ॥ एवमिलापिङ्गलानाड्योः स्थानं स्वरूपं च अभिधाय सुषुम्नानाडीस्वरूपं निरूपयितुं तत्सम्बन्धिन्याः ब्रह्मदण्ड्याः स्वरूपमाह— गुदस्य पृष्ठभागेऽस्थि- न्वीणादण्डस्य देहभृत् । दीर्घास्थि मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३ ॥ अस्मिन् देहे गुदस्य मूलाधारस्य पृष्ठभागे पश्चिमभागे वीणादण्डस्य देहभृत् वीणायास्तन्त्याधारभूतो यो दण्डः तदाकारभृत तद्रूत्स्थितं मूर्ध्निपर्यन्तं सहस्रारपर्यन्तव्याप्तं य- दीर्घास्थि दीर्घं पृष्ठभागस्थितम् , तत् ब्रह्मनाडीति कथ्यते ब्रह्मैक्यप्रतिपादकसुषुम्नाधारत्वादिति भावः ॥ इतः परं सुषुम्नानाडीस्वरूपमाह—