उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 68, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ५९ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । घोरं भयंकरं कालाग्निनरकं कालाग्निदेशवत् कालाग्न्या- कारा ह्यानरकदेशवत् भोगीन्द्रफणिमण्डलं भोगीन्द्राः सर्प- राजानः फणयः इतरे सर्पाः तेषां मण्डलं समूहवत् यत् पा- तालम्, तत् नाभ्यधोभागे नाभ्यधःप्रदेशे महापातालसंज्ञया ऽभिहितमिति विद्यात्; स जीवसंज्ञकः जीवसंज्ञावान् शेषः सर्वतः सर्वं वेष्टितः सन् बिभ्रन्सन् स्थितः कुण्डलाकारेणा- वृत्य वर्तत इत्यर्थः ॥ भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३० ॥ हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । हृदयं स्वर्गलोकं विद्यात्, तत्र सूर्यादिग्रहाः नक्षत्राणि च तिष्ठन्तीत्यर्थः । शेषं स्पष्टम् ॥ किंच— सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१ ॥