भारतकोश
संग्रह पर लौटें

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

१. प्रथम अध्याय: ब्रह्म-साक्षात्कार, नाड़ी-चक्र व पिण्ड-ब्रह्माण्ड विवेक

२ उत्तरगीतायां तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव । हे केशव यज्ज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्ष- णादेव ज्ञानोत्तरक्षणादेव मुच्येत अविद्यानिवृत्तिद्वारा आन- न्दावाप्तिर्भवेत्, तत् ब्रह्म ब्रूहि स्वरूपतटस्थलक्षणाभ्यां प्रतिपादय इत्यर्थः । एतदेव लक्षणैर्दर्शयति—यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितम्, निष्कलम् अवय- वरहितम्, व्योमातीतम्, आकाशादिचतुर्विंशतितत्त्वाती- तम्, निरञ्जनं स्वयंप्रकाशम्, अप्रतर्क्यम्, अमनोगोचरम्— ‘यन्मनसा न मनुते’ इति श्रुतेः, अविज्ञेयम् प्रमाणाविषयम् — ‘यद्वाचानिरुक्तम्’ ‘यतो वाचो निवर्तन्ते’ इति श्रुतेः, विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम्, कारणम् सर्वोत्पत्ति- निमित्तोपादानरूपम्, योगनिर्मुक्तं वस्त्वन्तरसंबन्धरहितम्, हेतुसाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितम् इत्यर्थः, स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा, हृद्याम्बुज- मध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयकमलमध्य- स्थम्, ज्ञानज्ञेयस्वरूपकं ज्ञानं स्वविषयप्रकाशः ज्ञेयं विषयः तदुभयस्वरूपं तदुभयसत्तात्मकम्, यत् ब्रह्म, तत् कीदृश- मिति प्रश्नार्थः ॥ एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन् उत्तरमाह—

प्रथमोऽध्यायः । श्रीभगवानुवाच- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥ यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् । हे महाबाहो इति संबोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । शत्रवो रागादयश्च । हे पाण्डवेति सत्कुल- प्रसूतिं द्योतयति । बुद्धिमानसीति स्तुवन् स्वोक्तार्थग्रहणा- वधारणसामर्थ्यं द्योतयति । त्वं मां प्रति यदात्मतत्त्वं पृच्छसि, तदशेषं यथा भवति तथा तुभ्यमहं प्रवदामि ॥ तदेवात्मतत्त्वं सोपायमाह— आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४ ॥ योगेन गतकामानां भावना ब्रह्म चक्षते । आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्याविषयस्य, हंसस्य हन्ति स्वंतत्त्वज्ञानेन ज्ञातृसंसार- मिति हंसः तस्य परमात्मनः, परस्परसमन्वयात् अन्योन्य- प्रतिपाद्यप्रतिपादकभावसंसर्गात् , अनेन सर्ववेदान्ततात्पर्यगो- चरत्वम् ‘तत्तु समन्वयात्’ इति समन्वयाधिकरणोक्तं दर्शितम्; योगेन आत्मतत्त्वविचाराख्येन, गतकामानां नष्टा- रिषड्वर्गाणाम्— अनेन ज्ञानप्रतिबन्धककल्मषनिवृत्तिः दर्शि-

४ उत्तरगीतायां ता; तेषां या भावना 'तत्त्वमसि' इत्यादिवाक्यजन्या चरम- वृत्तिः, तन्निवृत्तिर्वा, तज्जन्याविद्यानिवृत्तिर्वा, तन्निवृत्त्यधिष्ठानं वा, सा ब्रह्मेति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः ॥ तदेव तत्त्वज्ञानं तन्निवर्त्याविद्यानिवृत्तिं च आह— शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५ ॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६ ॥ अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरू- पत्त्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंसः ब्रह्म हंसा- क्षरं च प्रणवं च एतत्कूटस्थं यत्, एतदुभयसाक्षिभूतं यत्, तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत्स्वरूपं विद्वान् विवेकी सन् तदक्षरं वस्तु प्राप्य मरणज- न्मनी जननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत् ॥ सा च मुक्तिः जीवपरमात्मनोरैक्यमिति प्रतिपादयति— अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते— काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ ७ ॥

प्रथमोऽध्यायः । ५ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः अविद्याप्रतिबिम्बः, तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म, तत्प्रतिपादकं यत् ककारान्तम्, मुखमित्येतत् का- काक्षिन्यायेन अत्रापि संबध्यते । तथा च शब्दश्लेषः मुख- भूतककारस्य काकीत्यत्र प्राथमिकककारस्य अन्तम् अन्तिमं यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सर्वं विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियै- रर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एत- त्त्रयम् अकारस्यार्थः । उकारश्चेतनाकृतिः । काकीमुखेत्यत्र मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्मशरी- रमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्यप्रत्ययः स- विषयः स्वप्नः, तदुभयाभिमानी आत्मा तैजसः । एतत्त्रय- मुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेत- नाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वा- चकः । मकारस्य — काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकारः शरीरद्वयकारणमात्माज्ञानं साभासं अव्याकृतमित्यु- च्यते । तच्च न सत्, नासत्, नापि सदसत् ; न भिन्नम्, ना- भिन्नम्, नापि भिन्नाभिन्नं कुतश्चित् ; न निरवयवम्, न

६ उत्तरगीतायां सावयवम् , नोभयम् ; केवलब्रह्मात्मकत्वज्ञानापनोद्यम् । सर्व- प्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । त- दुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं तस्य मकारस्यार्थः । लुप्तस्य—अकार उकारे, उकारो मकारे, मकार ओंकारे, एवं लुप्तस्य कोऽर्थः ककारात्परो यः अकारः तस्य योऽर्थः लक्ष्यस्वरूपं मकारात्परम्योंकारस्य अर्थः लक्ष्यस्वरूपम् , उप- लक्षणमेतद्द्वयम् उकारात्पूर्वमकारस्यार्थः लक्ष्यस्वरूपम् ओं- कारात्मा साक्षी केवलचिन्मात्रस्वरूपः नाज्ञानं तत्कार्यं च, किं तु नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव संप्र- तिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । 'अयमात्मा ब्रह्म' 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः' 'तत्त्वमसि' 'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्य इति भावः ॥ यद्वा पाठान्तरे— काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः संप्रतिपद्यते ॥ कं च अकं च काके सुखदुःखे, ते अस्य स्त इति काकी जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तः अकारः ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वा-

प्रथमोऽध्यायः । ७

विद्यया संहरति इति न्यायात् । मकारस्य जीवत्वाकारस्य लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपो- ऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुसंधानवान् संप्रति- पद्यते प्राप्नोति इत्यर्थः । यद्वा, हे काकीमुख ब्रह्म त्वं ककारा- न्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः । धकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्यालोपवतो ब्र- ह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्य- स्वरूपं तत्संप्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति शेषः । तथा च श्रुतिः 'आप्लवस्व प्रप्लवस्व, आण्डी भव ज मा मुहुः, सुखादीं दुःखानिधनाम्, प्रतिमुञ्चस्व स्वां पुरम्' इति । अस्यार्थः—हे ज जननमरणयुक्तजीवत्वमाप्लवस्व जी- वन्मुक्तो भव प्रप्लवस्व प्रारब्धान्मुक्तो भव, आण्डी ब्रह्मा- ण्डान्तर्वर्ती संसारी मुहुर्मा भव मा भूः । संसारी चेत् किमप- राध इत्याशङ्क्याह—सुखादीम वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते, यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेह- द्वयं प्रतिमुञ्चस्व त्यज ॥

एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्त- रीयकफलमप्याह—

८ उत्तरगीतायां गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८ ॥ नरः 'शतायुः पुरुषः शतेन्द्रियः' इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदा कालं सर्व- स्मिन्काले शयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायामं कुर्वन् तेन सार्वकालप्रयोगेन सार्वकालिकवायु- धारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः ॥ ननु परमफलं कदा भवतीत्यत आह— यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खगाकारं हंसस्वरूपं यावत्पश्येत् यावत्पर्यन्तं साक्षात्कु- र्यात्, तावत्पर्यन्तं तदाकारं परब्रह्मस्वरूपं पूर्वोक्तधारणया प्रवृद्धायुः पुरुषः विचिन्तयेत् ध्यायेदित्यर्थः ॥ तादृशात्मसाक्षात्कारार्थं नैरन्तर्येण आत्मजगतोरभेदध्या- नमाह— खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतद्-

प्रथमोऽध्यायः । ९ भिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च पर- मात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् । आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचि- दपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा, ख-शब्देन जीवोऽभिधीयते, 'आकाशशरीरं ब्रह्म' इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं बुद्ध्वा न किंचिदपि चिन्तयेदिति ॥ एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात् इत्याह— स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्च- लज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः, तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाश- स्थितं च निष्कलं कलातीतं तं ब्रह्म विजानीयात् बुध्येत् ॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह—

१० उत्तरगीतायां पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ हे पार्थ पुटद्वयविनिर्मुक्तः नासारन्ध्रद्वयविनिर्गतः वायुः यत्र विलीयते लयं गच्छति, तस्मिन्मार्गे सम्यक् स्थितं मनः कृत्वा तम् ईश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत् ।। तमेव प्रकारमाह— निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । निर्मलं निष्कृष्टाहंकारचैतन्यात्मकम्, अत एव षडूर्मि- रहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानी- यात् ध्यायेदित्यर्थः किं च, प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम्, तत्र हेतुः मनःशून्यं मनोरहितम्, अत एव बुद्धिशून्यम् आसक्तिरहितं निरा- मयं निर्व्याजम्, अत एव निराभासं भ्रमरहितम्, अत

प्रथमोऽध्यायः । ११ एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आन- न्दैकरसं यत् ब्रह्म, तद्ध्यानं समाधिः । तस्य तस्मिन् स्थि- तस्य किं लक्षणमित्याशङ्कयाह—त्रिशून्यं पूर्वोक्तप्रभादि- शून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्थात्रय- शून्यत्वं दर्शितम् । प्रभामनोबुद्धिशब्दैः क्रमेण तासामभि- धानात् । तादृशं ब्रह्म यो विजानीयात्, स समाधिस्थः बन्धनात् संसारबन्धनात् मुच्येत मुक्तो भवति ॥ एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह— स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्च- लसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य आत्मयोगस्थितस्य लक्षणमित्युच्यते ॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते— अमात्त्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥

१२ उत्तरगीतायां अमात्रं ह्रस्वदीर्घप्लुतादिरहितं शब्दरहितं शब्दातीतम्, स्वरव्यञ्जनवर्जितम् अक्षरसमूहात्मकपदानाभिधेयम् बिन्दु- नादकलातीतम् — अनुस्वारो बिन्दुः संवृते गळविवरे यद्दी- र्घघण्टानिर्ह्रादवदनुरणनं स नादः, कला नादैकदेशः तैरती- तम्, न यथाकथंचिच्छब्दवाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद, स वेदवित् सकलवेदान्ततात्पर्यज्ञः नान्य इत्यर्थः ॥ एवं प्राप्तआत्मतत्त्वज्ञानस्य असंभावनाविपरीतभावनादि- निवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह— प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके, यद्वा, ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति, ज्ञेये सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते ह्यपरोक्षतया भासमाने सति, देहे देहोपाधिमति जीवे ल- ब्धशान्तिपदे संप्राप्तब्रह्मभावे सति, तदा, योगोऽपि नास्ति धारणा च नास्ति; सिद्धे फले साधनेन प्रयोजनाभावादिति भावः ॥ एवमात्मतत्त्वापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते इति तस्य स्वरूपमाह —

प्रथमोऽध्यायः । १३ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय वि- धीयमानः वेदान्ते च सर्ववेदानामान्ते च उपर्युक्तक्रमणपरि- हाराय प्रतिष्ठितः संस्थापितः, चकारात् सर्ववेदरक्षणाय वे- दमध्ये च निपातितः यः स्वरः प्रणवात्मकः, तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बो- धकः, उपलक्षणं चैतत् सर्वप्राणेन्द्रियकरणवर्गप्रबोधकः सर्व- नियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव आत्मतत्त्वज्ञानी, नान्य इत्यर्थः ॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधनप्रयासः कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टा- न्तमाह — नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न संप्रा- प्नोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरणसाधनप्लवनार्थी भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया U 2.

१४ उत्तरगीतायां नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्व- दत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति भावः ॥ तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह— ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २० ॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा, ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः— धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः । किंच— उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा उल्काहस्तो भवति, पश्चाद्द्रव्यमालोक्य तदनन्तरं तामु- ल्कां यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परि- त्यजेत् इत्यर्थः ॥

प्रथमोऽध्यायः । १५ जाते चापरोक्षज्ञाने, तेन प्रयोजनाभावात् साधनं परि- त्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह— यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ यथा अमृतेन सागरमथनोद्भूतेन अमृतेन तृप्तस्य संतु- ष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति, एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्तशास्त्रादिभिः किं प्रयो- जनम् , न किमपीत्यर्थः ॥ किंच, तत्त्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्ती- त्याह— ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृतकृत्यस्य कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्यं नास्ति, तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसं- ग्रहार्थमेव, यद्यभिनिवेशेन कर्मासक्तिरस्ति, तर्हि स तत्त्व- विन्न भवति, आरूढो न भवतीत्यर्थः ॥

१६ उत्तरगीतायां अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति, किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह— तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ तैलधारामिवाविच्छिन्नं संततधारावत् विच्छेदरहितं दीर्घ- घण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितम् अवाच्यम् अवाज्ञानसगोचरं प्रणवस्य अकारोकारमकार- बिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद, स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः ॥ तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह— आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥ आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या- सात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगू- ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत् ; नान्य इत्यर्थः ॥

प्रथमोऽध्यायः । १७ यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणाम् आह— तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदत्यन्तनिर्मलम् ॥ २६ ॥ हे पार्थ, विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्मस्वरूपम् , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत् ब्रह्मधारणं कुर्यादित्यर्थः ॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति— दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७ ॥ देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;

१८ उत्तरगीतायां किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य शरीरसंबन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि, पिण्ड- वर्जितः शरीरसंबन्धाध्यासरहितः; तत्र हेतुः -- विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयंप्रकाशश्च । एवं ध्यायेदिति पूर्वेण संबन्धः ॥ किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिक- मात्मनो नास्ति इत्याह -- कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८ ॥ देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्थः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादियुक्तशरीर- स्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । काय- स्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोग- रहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः ॥ किंच--

प्रथमोऽध्यायः । १९ कायस्थोऽपि न लिप्तः स्या- त्कायस्थोऽपि न बाध्यते । कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसंबन्धोऽपि न लिप्तः स्यात् सुखदुःखादिसंबन्धरहित इत्यर्थः । कायस्थोऽपि मरण- धर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम् ॥ यदध्यासेन आत्ममोहात्संसृतिः, तदपवादेन तस्यैव देहा- न्तःकरणादावात्मा विचारणीय इत्याह— तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९ ॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३० ॥ आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रा- दिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते, क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदको-

२० उत्तरगीतायां पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम- द्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या- गेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन् वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते, तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयां- शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत इत्यर्थः ॥ एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति — तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१ ॥ तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः दे - हमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्न - तिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः

प्रथमोऽध्यायः । २१ मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः ॥ तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह— मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२ ॥ मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षिभूतं मध्य- स्थं सर्वसाक्षिभूतम् मनवर्जितं संकल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सि- ध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः ॥ तेषां लक्षणमाह— आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीया- त्समाधिस्थस्य लक्षणम् ॥ ३३ ॥ 61606