भारतकोश
उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)

Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary

आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा

DevanagariSanskritpublished86 पृष्ठ

पृष्ठ 27, कुल 86 में से

संदर्भ में पढ़ें
पृष्ठ 27

१८ उत्तरगीतायां किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य शरीरसंबन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि, पिण्ड- वर्जितः शरीरसंबन्धाध्यासरहितः; तत्र हेतुः -- विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयंप्रकाशश्च । एवं ध्यायेदिति पूर्वेण संबन्धः ॥ किंच, देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिक- मात्मनो नास्ति इत्याह -- कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८ ॥ देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्थः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादियुक्तशरीर- स्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । काय- स्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोग- रहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः ॥ किंच--