उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 26, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । १७ यावदपरोक्षानुभवपर्यन्तं स्वयंप्रकाशब्रह्मधारणाम् आह— तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदत्यन्तनिर्मलम् ॥ २६ ॥ हे पार्थ, विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयंप्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्मस्वरूपम् , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत् ब्रह्मधारणं कुर्यादित्यर्थः ॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति— दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७ ॥ देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ;