उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 25, कुल 86 में से
संदर्भ में पढ़ें१६ उत्तरगीतायां अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति, किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह— तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ तैलधारामिवाविच्छिन्नं संततधारावत् विच्छेदरहितं दीर्घ- घण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितम् अवाच्यम् अवाज्ञानसगोचरं प्रणवस्य अकारोकारमकार- बिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद, स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः ॥ तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह— आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५ ॥ आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवम् अरणिं कृत्वा अधरारणिं भावयित्वा, प्रणवं परमात्मप्रतिपादकं शब्दम् उत्तरारणिं कृत्वा भावयित्वा, ध्याननिर्मथनाभ्या- सात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगू- ढवत् पाण्डित्याप्रकटनेन यो वर्तते, स एवं परमात्मानं पश्येत् ; नान्य इत्यर्थः ॥