उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 23, कुल 86 में से
संदर्भ में पढ़ें१४ उत्तरगीतायां नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्व- दत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति भावः ॥ तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह— ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २० ॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा, ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः— धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीकारानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः । किंच— उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा उल्काहस्तो भवति, पश्चाद्द्रव्यमालोक्य तदनन्तरं तामु- ल्कां यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परि- त्यजेत् इत्यर्थः ॥