उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 22, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । १३ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय वि- धीयमानः वेदान्ते च सर्ववेदानामान्ते च उपर्युक्तक्रमणपरि- हाराय प्रतिष्ठितः संस्थापितः, चकारात् सर्ववेदरक्षणाय वे- दमध्ये च निपातितः यः स्वरः प्रणवात्मकः, तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बो- धकः, उपलक्षणं चैतत् सर्वप्राणेन्द्रियकरणवर्गप्रबोधकः सर्व- नियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव आत्मतत्त्वज्ञानी, नान्य इत्यर्थः ॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधनप्रयासः कृतः, जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टा- न्तमाह — नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न संप्रा- प्नोति, तावत् तावत्पर्यन्तं नावार्थी नदीतरणसाधनप्लवनार्थी भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया U 2.