उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 55, कुल 86 में से
संदर्भ में पढ़ें४६ उत्तरगीतायां धिना भिन्नत्वेन व्यवह्रियमाणः ब्रह्मापरोक्षज्ञानी येन केन मृत्युना यत्र कुत्रापि वा मृतः अज्ञानोपादानकदेहं ज्ञानेन नाशयति, तत्र तत्रैव ब्रह्मणि लयम् ऐक्यं गतः प्राप्त एवे- त्यर्थः । अनेन तत्त्वज्ञानिनो देशकालाद्यपेक्षा मरणे मा भू- दिति सूचितम् । भृग्वग्न्याद्यपमृत्युनिमित्तकप्रायश्चित्तान्यपि आरुरुक्ष्वधिकृतानि इति वेदितव्यम् ॥ एकस्यापि जीवस्य देहाद्यवच्छेदकभेदेन नानात्वं जीव- स्याणुत्वपक्षे न संभवतीत्याशङ्क्य जीवस्य व्यापित्वं साध- यति— शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९ ॥ शरीरव्यापितं शरीरादिसर्वद्रव्यव्यापितं व्योमं आकाशं यथा भुवनानि चतुर्दश भूर्भुवरादीनि व्यापितं सत् वर्तते, एवं निश्चलः क्रियारहितः निर्मलः परिशुद्धः निरञ्जनः स्वयंप्रकाशो देही जीवः सर्वव्यापी जगद्व्यापीत्यर्थः । जग- न्मात्रस्य अविद्यापरिणामत्वेन जगदुपादानाविद्याप्रतिबिम्ब- स्यैव जीवत्वेन तस्य व्यापित्वमेव, नाणुत्वमिति भावः ॥