उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 54, कुल 86 में से
संदर्भ में पढ़ेंद्वितीयोऽध्यायः । ४५ तादृशः परमात्मा वायुवत् वायुर्यथा चक्षुरादिविषयो न, तद्वद् अन्तरात्मा जीवोऽपि न दृश्यते, तत्स्वरूपमपीन्द्रिय- विषयं न भवतीत्यर्थः, मनसोऽप्रमाणत्वसाधनादिति भावः । तर्हि तयोः अपरोक्षतत्त्वज्ञानं केनेत्यत आह— स बाह्यम- भ्यन्तरनिश्चलात्मा यः बाह्यविषयेषु अभ्यन्तरविषयेषु च निश्चलात्मा विषयविक्षिप्तचित्तो न भवति, सः ज्ञानोल्कया वेदान्तजन्यतत्त्वापरोक्षवृत्तिरूपज्ञानदीपेन अन्तरात्मा अन्त- र्मुखचित्तः पश्यति तदुभयैक्यं जानातीत्यर्थः ॥ इह केषांचिद्दर्शनं अर्चिरादिमार्गेण लोकान्तरप्राप्तिः मुक्तिः इति, तन्निराकर्तुम् 'अत्र ब्रह्म समश्नुते' इत्यादि- श्रुत्या पूर्वोक्तज्ञानिनो मुक्तिस्वरूपमाह— यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८ ॥ सर्वगतं सर्ववस्त्ववच्छेदकं व्योम आकाशं यथा अव- च्छेदकवस्तुनाशे तत्रैव महाव्योम्नि लयम् ऐक्यं प्राप्नोति, तथा सर्वगतः ज्ञानी सर्वत्र परिपूर्णब्रह्माभिन्नः शरीराद्युपा- U. 4