भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 113, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 113

९४ उत्तररामचरित [ ४-१५

कथमियमेव सा कौसल्या । यदस्याः पत्युर्वा रहसि परमं दूपितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः । प्रसादे कोपे वा तदनु मदधीनो विधिरभू- दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य हृदयम् ॥ १४ ॥ अरुन्धती—हा कष्टम् । अतिचिरनिरुद्धनिःश्वासनिश्चन्दं हृदयमस्याः । जनकः—हा प्रियसखि । ( इति कमण्डलूदकेन सिञ्चति । ) कञ्चुकी—सुहृदिव प्रकटय्य सुसम्पदः - प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणो विधि- विधिंरहो विशिनष्टि मनोरजम् ॥ १५ ॥ कौसल्या—( आश्वस्य ) हा वच्छे जाणइ कहिं सि । सुमरामि दे णव- विवाहलच्छीपरिग्गहेक्कमण्डनं पप्फुरन्तमुद्धविहसिदं मुद्धमुहपुण्डरीअं ।

ध्यासीदेवेत्यर्थ ॥ १३ ॥ यदस्याः पत्युर्वेति ॥ १४ ॥ यस्याः पत्युर्वाति ज्ञेयम् । परमं अधिकम् दूपितं प्रणयकलह । उपालम्भस्य गर्हणाया । विधिः समाधानप्रकार मदधीनः ममायत्त तत् चरितमिति शेष । य- च्चरितं कर्तृ, अवस्कन्द्य अभिनिपत्य ॥ १४ ॥ हा कष्टमिति खेदातिशये । 'हा कष्टमस्मिन् जने' इत्यसद्व्याख्यातभोजचमी। चिरनिरुद्धः निःश्वासस्य निष्पन्दः निर्गम यस्मिन् ॥ सुहृदिव प्रकटय्येति ॥ १५ ॥ प्रथमं आदौ । एकः मुख्य रसः अभिनिवेश प्रीतिर्वा यस्याम् । अनुकूलतां सर्वेशुभानुकूल्यम् । प्रकटय्य प्रकटीकृत्य । पुनः पश्चात् । अकाण्डे अकाले अनुकूलताया निवर्तने प्रतिकूलापादनविषये दारुणः । विशिनष्टि परिशिष्टा करोतीति यावत् । विधिर्दैवम् । 'पुन पश्चात्' इति समासनि- घण्डु ॥ १५ ॥ वत्से जानकि कासि कासि । स्मरामि ते नवविवाहलक्ष्मी- परिग्रहैकमङ्गलं चदुलमुग्धपुण्डरीकम् । अङ्गैर्गोमुदीचन्द्रचन्द्रिकामुन्दरैरङ्गैः पुनरप्युद्द्योतयोत्सङ्गम् । सर्वथा महाराज एवं भणति, एषा रघुकुलमहत्तराणा वधूरस्माकं पुनर्तनय ( सुता ) दुहितेव । पुण्डरीकमिति कथन पुत्रेच्छायोग्य- वयस्सूचकम् । 'यौवने पुत्रेच्छायां विरहे चाहपाण्डिमा' इति सार्वभौमः । अत एव 'पाण्डि( म ? ) निमग्रं वपु' इति असद्व्याख्यातमविद्धसालभञ्जिका-

१ 'निःश्वासनिरुद्ध' य-प. २ 'सुसम्पदाम्' न. ३ 'परिशिनष्टि विधिर्मनमदे- रुदम्' न.

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 113, कुल 439 में से · BharatKosha