उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 112, कुल 439 में से
संदर्भ में पढ़ें˝-१३ ] · उत्तररामचरितं ९३ शिशुत्वं स्त्रैणं वा भवतु ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ॥ ११ ॥ कौसल्या—अहो उम्मीलॅन्ति वि अ वेअणाओ। अहो उन्मीलन्तीव वेदना. । ( इति मूर्च्छति ) जनकः—हा कष्टं किमेतत् । अरुन्धती—राजर्षे किमन्यत् । स राजा तत्सौख्यं स च शिशुजनस्ते च दिवसाः स्मृतावार्विभूतं त्वयि सुहृदि दृष्टे तदखिलम्। निपाके घोरेऽस्मिन्नथ खलु विमूढा तव सखी पुरंध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥ १२ ॥ जनकः—हन्त हन्त सर्वथा नृशंसोऽस्मि संवृत्तः। यश्चिरस्य दशरथप्रिय- सुहृदः प्रियदारांश्चै स्त्रियं पश्यामि। स सम्बन्धी श्लाघ्यः प्रियसृहदसौ तच्च हृदयं स चानन्दः साक्षादपि च निखिलं जीवितफलम्। शरीरं जीवो वा यदधिकमतोऽप्यप्रियतरं महाराजः श्रीमान्किमिव मम नासीद्दशरथः ॥ १३ ॥ भूताः सहसा परित्यागेनेति भाव ॥ शिशुत्वां शिष्या वेति ॥११॥ तथा दूरे इत्यर्थः । विशुद्धेस्तूत्कर्षः कृतः। त्वयि विषये । 'भविष्य निश्चये' इति णिकान्तौ । स्त्रैणं स्त्रीत्वम् । 'स्त्रैणं स्त्रीद्राववृन्दयो.' इति कपित् । स्थानं आस्पदम् । गुणििन गुणभाजि प्राणिनि। इदं सप्तमी सीता प्रति सम्बोधनं च। लिङ्गं स्त्रीपुंनपुंसकम् । वयः इति 'तेजसा हि न वयस्समीक्ष्यते' इत्यस्य दृष्टा- न्तानुकरणमेतत् ॥ ११ ॥ अहो उन्मीलन्तीव वेदना ॥ स राजा तदिति ॥ १२ ॥ राजा दशरथ. । आविर्भूतं विताष्टमिति यावत् । पुरन्ध्रीणां कुटुम्बिनीनाम् ॥ १२ ॥ 'चिरस्याद्याधिरायेका' इत्यमरः । स सम्बन्धी श्लाघ्य इति ॥ १३ ॥ सुहृदः दशरथस्य असौ कौसल्या । साक्षात् प्र- तक्ष । निखिलनेदमिति शेष । जीवः अनुपायपम् । अत जीवादपी- त्यर्थ.। महाराजः इति प्रथमैकवचनम् । किमिव नासीत् पूर्वोक्तं सर्वम-
- १ 'जगतः' घ. २ 'समुन्मूलअन्तीव' (समुन्मूलयन्तीव) न. ३ 'कलिश्च खलु न विमृश' न, 'अस्मिन्ननु पाठ' छ-घ. ४ 'दारानकिञ्च इव' न. ५ 'प्रियतम.' व-घ.