उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 111, कुल 439 में से
संदर्भ में पढ़ेंयया पूतंमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः । त्रिलोकीमङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवींमुपसृत्य वन्दे भगवतीम् ॥ १० ॥ अरुन्धती-अक्षरं ते ज्योतिः प्रकाशताम् । स त्वां पुनातु देवः परो रजसो य एष तपति । जनकः-आर्ये गृष्टे अप्यनामयमस्याः प्रजापालकस्य मातुः । कञ्चुकी-( स्वगतम् ) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । ( प्रका- शम् ) राजर्षे अनेनैव मन्युना चिरपरिखन्नरामभद्रमुखचन्द्रदर्शनं नार्हसि दुःखयितुमतिदुःखितां देवीम् । रामभद्रस्यापि दैवदुर्योगात् कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिवदन्तीकाः पौरजानपदा नाग्निशुद्धिमप्यैक्ष्वा- प्रतियन्तीति दारुणमनुष्ठितं देवेन । जनकः-( सरोषम् ) आः कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने । कष्ट- मेवंवादिना जनेन रामभद्रपरिभूता अपि वयं पुनः परिभूयामहे । अरुन्धती-( निश्वस्य ।) एवमेतत् । अग्निरिति वत्सां प्रति परिस्फू- र्त्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धेरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति । भवत्या उपसृत्य च । आत्मानं पूतं मन्यते पूतंमन्यः । महसः प्रभाववतस्तस्य दीप्तेश्च । ते तव पतिः वसिष्ठः । अतिशयेन विशेषेण गुरुः गुरुतमः । त्रि- लोक्याः मङ्गले साधुः मङ्गल्या तां भगवतीं स्वामित्यर्थः । 'स्त्रीनपुंसकयो- रुप' इति लिङ्गनिर्णयः । श्लोकोऽयं यथाकथञ्चिदुप पद्येऽप्युद्धेय ॥ १० ॥ अक्षरं क्षराद्विपन्नम्, ज्योतिः सूर्यः । भङ्गयन्तरेणाह स इति । रजसां रजो- गुणानाम् परः शत्रु उपलक्षणमेतत् । तमसा चेति भावः । तथा च दूरतरः परिक्षोपात् सत्वैकदिष्ट इति फलितोऽर्थः । प्रजापालकस्य मातुरस्या इत्य- न्वयः । गृष्टापवादस्त्वल्पप्रजापाल इति परिहासोक्तिः । निरवशेषं निःशेषं अतिनिष्ठुरं च यथा तथा । मन्युना कोपेन । दैवदुर्योगात् महपीडा । अत एव 'तदा तु दैवं लिप्येरन्नलरामयुधिष्ठिरा' इति पौराणिकाः । प्रतीतिं विश्वास- विषयां कुर्वन्तीत्यर्थः । दारुणं कर्म इति शेषः । परित्याग इति यावत् । परि- १ 'माङ्गल्याम्' ग-क. २ 'लोनेन' ग-घ. ३ 'पर' ख-घ ४ 'परोरजा.' ग-घ ५ 'अपि कुशलम्' ग-घ. ६ 'अक्षपरा' ग-घ. ७ 'जनपति' घ-घ.