उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 116, कुल 439 में से
संदर्भ में पढ़ें४-१८ ] उत्तररामचरितं ९७ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् । भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतांर्थां वदन्ति ॥ १८ ॥ (नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।) जनकः—अये अथ खलु शिशूनामध्ययन इहास्खलितं खेल्तां बहूनां कलकलः । कौसल्या—सुलहसोम्मं दाव बालत्तणं होदि । (निरूप्य ।) अम्महे पदाणं मज्झे को एसो रामभद्दस्स कोमारलच्छीसरिसेहिं सावत्थम्भेहिं मुद्ध- ललिदेहिं अङ्गेहिं अम्हाणं लोअणाईं सीतलावेदि । [सुलभसौम्यं तावद् बा- लत्वं भवति । अहो एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः साव- ष्टम्भैर्मुग्धललितैरङ्गैरस्माकं लोचनानि शीतलयति । अरुन्धती—(अपवार्य सहर्षबाष्पम् ।) इदं नाम तद्भागीरथींनिवेदित- रहस्यं कणमृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम् ।) न्तमनोरथाया ममैतत् । 'क्षत्रिया क्षत्रियाण्यपि' इत्यमरः ॥ आविर्भूत- ज्योतिषामिति ॥ १८ ॥ आविर्भूतं ज्योतिः परं ब्रह्म येषु येभ्यो वा । व्याहाराः उक्तयः । भद्रा शुभा । लक्ष्मीर्मङ्गलदेवतेत्युपलक्षणम् । सर्व- देवता इति सिद्धान्तः । 'अपि वा जीवितं जह्याम्' इति रामः । 'विप्रप्रसादा- द्धरणीधरोऽहम्' इति, 'विजितेयं मही कृत्स्ना ब्राह्मणानां प्रसादतः ।' इति च कृष्णः । 'मूलं कृष्णो ब्रह्मगो ब्राह्मणाश्च' इति महाभारते । 'स नग्नो ब्राह्म- णाधीनः' इत्यागमेषु । 'एता एव देवता' इति श्रुतिश्च । इति दिक् ॥ निषिक्ता नियतं यथा तथा क्षिप्तेत्यर्थः । अनेन सत्यसिद्धेति विभाव्यते । विप्लुतः निरस्तः शब्दस्यार्थः फलपरिणामः यस्याम् ॥ १७ ॥ न विद्यते अध्ययनं यस्मिन् । अस्खलितं अकुण्ठितं यथा तथा । सुलभसौम्यमीदृशानीं बालत्वं भवति । अम्महे एतेषा मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः सावष्टम्भैः मुग्धललितैरङ्गैरंदारकोऽस्माकं लोचनानि शीतलयति ॥ 'अवष्टम्भस्तु संस्थानवि- – १ 'विप्लुता व्याहरन्ति' घ-घ. २ 'शिशुनन्द्याप.' क-प. ३ 'इदन्तं' क-घ-च. ४ 'निवेदितं रहस्यकर्णामृतम्' न. ९ उ०