उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 115, कुल 439 में से
संदर्भ में पढ़ेंउत्तररामचरितं [४.-१७ ९६ जनकः-हा प्रियसख महाराज दशरथ एवमसि सर्वप्रकारहृदयङ्गमः। कथं विस्मर्यसे । कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं त्वं कालत तथाविधोऽस्यपहृतः सम्बन्धबीजं च तत्- घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥१७॥ कौसल्या-जादे जाणइ किं करोमि । दिढवज्जलेवपडिवद्धनिश्चलं हद- जीविदं मं मन्दभाइणीं ण परिच्चयदि । जाते जानकि किं करोमि । दृढवज्र- लेपप्रतिबद्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति । अरुन्धती-आश्वसिहि राजपुत्रि बाष्पविश्रामोऽप्यन्तरे कर्तव्य एव । अन्यच्च किं न स्मरसि यदृष्यशृङ्गाश्रमे युष्माकं वैशसगुरुर्भवितव्यं सर्व्वे- षूपजातमेव किं तु कल्याणोदर्कं भविष्यतीति । कौसल्या-कुँदो अदिकन्दमणोरहाए मह एदं । कुतोऽतिक्रान्तमनोर- भाया ममैतत् । अरुन्धती-यत्किं मन्यसे राजपुत्रि मृषैषां तदिति । न हीदं सुक्षत्रि- येऽन्यथा मन्तव्यम् । भवितव्यमेव तेन । सीता । पद्मप्रसूतेरित्यत्र पद्मशब्दार्थद्वयवमत्शारेण पद्धतिक्ष्यासदानेन च प्रिया दुहितेवेति भावः । अत्र पद्ये बहवो भ्रमन्ति, शिष्यगुणग्राहिणः प्रमाणम् ॥१६॥ कन्यायाः किल पूजयन्तीति ॥ १७ ॥ सम्बन्धे आवयोरिति शेषः । तत् पूजनम् । विपरीतं व्यस्तमेव । कथमित्यत आह-अभूदिति । आराधनं त्वत्कर्तृकं पूजनम् । मयि अभूत् । बीजं कारणं च व्यपहतम- तार्थे । तत् प्रसिद्धं सीतेत्यर्थः । बीजमिति ध्वनिः । तत् तस्मात् । घोरे इति चतुर्थचरणेनान्वयो योज्यः । जीवलोक एव नरकः ॥ १७ ॥ जाते जानकि किं करोमि । दृढवज्रलेपपरिवद्धमिव निश्चलं हतजीवितं मां मन्दभागिनीं ( न ) परित्यजति । विश्रामः विरतिः । अन्तरा मध्ये। कल्याणं उदर्कः यस्मिन् तत् । भवितव्यमित्यस्यानुषङ्गः । 'उदर्कं फलमुत्तरम्' इत्यमरः । कुतोऽतिका- १ 'विधोऽप्यपहृतः' ग-घ. २ 'लेपपडिमन्धनिश्चलं' क-घ-व. ३ 'कुलगुरुस्तदुपजातमेव' घ-घ. ४ 'भगवदि अदिकन्तो मणोरहो' (भगवति, अतिक्रान्तो मनोरथः) घ-घ. ५ इदं नास्ति न-क-पुस्तकयोः.