भारतकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

उत्तररामचरितं [४.-१७ ९६ जनकः-हा प्रियसख महाराज दशरथ एवमसि सर्वप्रकारहृदयङ्गमः। कथं विस्मर्यसे । कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं त्वं कालत तथाविधोऽस्यपहृतः सम्बन्धबीजं च तत्- घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥१७॥ कौसल्या-जादे जाणइ किं करोमि । दिढवज्जलेवपडिवद्धनिश्चलं हद- जीविदं मं मन्दभाइणीं ण परिच्चयदि । जाते जानकि किं करोमि । दृढवज्र- लेपप्रतिबद्धनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति । अरुन्धती-आश्वसिहि राजपुत्रि बाष्पविश्रामोऽप्यन्तरे कर्तव्य एव । अन्यच्च किं न स्मरसि यदृष्यशृङ्गाश्रमे युष्माकं वैशसगुरुर्भवितव्यं सर्व्वे- षूपजातमेव किं तु कल्याणोदर्कं भविष्यतीति । कौसल्या-कुँदो अदिकन्दमणोरहाए मह एदं । कुतोऽतिक्रान्तमनोर- भाया ममैतत् । अरुन्धती-यत्किं मन्यसे राजपुत्रि मृषैषां तदिति । न हीदं सुक्षत्रि- येऽन्यथा मन्तव्यम् । भवितव्यमेव तेन । सीता । पद्मप्रसूतेरित्यत्र पद्मशब्दार्थद्वयवमत्शारेण पद्धतिक्ष्यासदानेन च प्रिया दुहितेवेति भावः । अत्र पद्ये बहवो भ्रमन्ति, शिष्यगुणग्राहिणः प्रमाणम् ॥१६॥ कन्यायाः किल पूजयन्तीति ॥ १७ ॥ सम्बन्धे आवयोरिति शेषः । तत् पूजनम् । विपरीतं व्यस्तमेव । कथमित्यत आह-अभूदिति । आराधनं त्वत्कर्तृकं पूजनम् । मयि अभूत् । बीजं कारणं च व्यपहतम- तार्थे । तत् प्रसिद्धं सीतेत्यर्थः । बीजमिति ध्वनिः । तत् तस्मात् । घोरे इति चतुर्थचरणेनान्वयो योज्यः । जीवलोक एव नरकः ॥ १७ ॥ जाते जानकि किं करोमि । दृढवज्रलेपपरिवद्धमिव निश्चलं हतजीवितं मां मन्दभागिनीं ( न ) परित्यजति । विश्रामः विरतिः । अन्तरा मध्ये। कल्याणं उदर्कः यस्मिन् तत् । भवितव्यमित्यस्यानुषङ्गः । 'उदर्कं फलमुत्तरम्' इत्यमरः । कुतोऽतिका- १ 'विधोऽप्यपहृतः' ग-घ. २ 'लेपपडिमन्धनिश्चलं' क-घ-व. ३ 'कुलगुरुस्तदुपजातमेव' घ-घ. ४ 'भगवदि अदिकन्तो मणोरहो' (भगवति, अतिक्रान्तो मनोरथः) घ-घ. ५ इदं नास्ति न-क-पुस्तकयोः.

४-१८ ] उत्तररामचरितं ९७ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् । भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतांर्थां वदन्ति ॥ १८ ॥ (नेपथ्ये कलकलः । सर्वे आकर्णयन्ति ।) जनकः—अये अथ खलु शिशूनामध्ययन इहास्खलितं खेल्तां बहूनां कलकलः । कौसल्या—सुलहसोम्मं दाव बालत्तणं होदि । (निरूप्य ।) अम्महे पदाणं मज्झे को एसो रामभद्दस्स कोमारलच्छीसरिसेहिं सावत्थम्भेहिं मुद्ध- ललिदेहिं अङ्गेहिं अम्हाणं लोअणाईं सीतलावेदि । [सुलभसौम्यं तावद् बा- लत्वं भवति । अहो एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः साव- ष्टम्भैर्मुग्धललितैरङ्गैरस्माकं लोचनानि शीतलयति । अरुन्धती—(अपवार्य सहर्षबाष्पम् ।) इदं नाम तद्भागीरथींनिवेदित- रहस्यं कणमृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति । (प्रकाशम् ।) न्तमनोरथाया ममैतत् । 'क्षत्रिया क्षत्रियाण्यपि' इत्यमरः ॥ आविर्भूत- ज्योतिषामिति ॥ १८ ॥ आविर्भूतं ज्योतिः परं ब्रह्म येषु येभ्यो वा । व्याहाराः उक्तयः । भद्रा शुभा । लक्ष्मीर्मङ्गलदेवतेत्युपलक्षणम् । सर्व- देवता इति सिद्धान्तः । 'अपि वा जीवितं जह्याम्' इति रामः । 'विप्रप्रसादा- द्धरणीधरोऽहम्' इति, 'विजितेयं मही कृत्स्ना ब्राह्मणानां प्रसादतः ।' इति च कृष्णः । 'मूलं कृष्णो ब्रह्मगो ब्राह्मणाश्च' इति महाभारते । 'स नग्नो ब्राह्म- णाधीनः' इत्यागमेषु । 'एता एव देवता' इति श्रुतिश्च । इति दिक् ॥ निषिक्ता नियतं यथा तथा क्षिप्तेत्यर्थः । अनेन सत्यसिद्धेति विभाव्यते । विप्लुतः निरस्तः शब्दस्यार्थः फलपरिणामः यस्याम् ॥ १७ ॥ न विद्यते अध्ययनं यस्मिन् । अस्खलितं अकुण्ठितं यथा तथा । सुलभसौम्यमीदृशानीं बालत्वं भवति । अम्महे एतेषा मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः सावष्टम्भैः मुग्धललितैरङ्गैरंदारकोऽस्माकं लोचनानि शीतलयति ॥ 'अवष्टम्भस्तु संस्थानवि- – १ 'विप्लुता व्याहरन्ति' घ-घ. २ 'शिशुनन्द्याप.' क-प. ३ 'इदन्तं' क-घ-च. ४ 'निवेदितं रहस्यकर्णामृतम्' न. ९ उ०

९८ उत्तररामचरितं [ ४-२१ कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपारषदं पुण्यश्लोकः धियैयं सभाजयन् । पुनरपि शिशुभूतो' वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ १९ ॥ कञ्चुकी—नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये । जनकः—एवमेतत् । तथा हि चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् । मौर्व्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥ भगवत्यरुन्धति किमुत्प्रेक्षसे कुतस्त्योऽयमिति । अरुन्धती—अद्यैवागता वयम् । जनकः—आर्य गृष्टे अतीव मे कौतुक वर्तते तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ । इमं च बालकं ब्रूहि । वास केप्येते प्रर्वयेसस्वा दिदृक्षव इति । कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । ) कौसल्या—कि मण्णेध एय्वं भणिदो आगमिस्सदित्ति । [ किं मन्यध्वे एवं भणित आगमिष्यतीति । जनकः—भिद्येत वा सद्वृत्तमीदृशस्य निर्माणस्य । शेषे गर्वतोपयो ' इति समासः । मुग्धललितैः मनोज्ञविलासैः । सहर्षेति— लावण्यदर्शनेन हर्षं प्राप्त ( १ ) कपोलश्च इत्युत्कण्ठा ॥ कुवलयदलस्निग्ध इति ॥ १९ ॥ स्निग्धः मसृणः। धिया शोभया। सभाजयन् आनन्दयन्। अमृतमयाञ्जनम् ॥ १९ ॥ चूडाचुम्बितकङ्कपत्रमिति ॥२०॥ चूडा मौलिः चुम्बितः स्पृष्ट यैस्ते चूडाचुम्बिताः तादृशः कङ्कपत्राः यासां यस्मिन्। 'अभितः पार्श्वयो ' इति नन्दी। भस्म भक्षितं स्तोकः अल्पधासां पवित्रः व्याघ्रनखः ताभ्यां लाञ्छितं 'उभयं वटुरक्षाकम्' इत्यनुभवसिद्धम् । 'पवित्रं स्यात्पुंसि व्याघ्रनखे' इति धनञ्जयः । रुरुः कृष्णसारः तत्सम्बन्धिनीं रौरवीं उत्तरीयार्थमिति भावः । मेखलया च 'शङ्खिनी च मेखला' इति पद्ममाला। 'पीतमाञ्जिष्ठौ' इति कपिरः । पैप्पलः पिप्पलसम्बन्धी 'क्षत्रियाणां तु पैप्पल' १ 'मियेव' म. २ 'भूत्वा' न. ३ 'रतोम' घ. ४ 'भिद्यते' न.

कौसल्या—( निरूप्य ।) कहं सविणअणिसामिदगिट्ठिवअणो णिसेज्जि- दद्दसिदारओ इतोऽहिमुहं पत्थरिदो जेव्व सो वच्छो। [कथं सविनयनिशामित- गृष्टिवचनो निर्गजिताशेषद्वारक इतोभिमुखं प्रवृत्त एव स वत्सः।] जनकः—( चिरं निर्वण्र्य्य ।) भोः किमप्येतत् । महिम्नामेतस्मिन्विनय शिशुतामौग्धममृणो विदग्धैर्निर्ग्राह्यो न पुनरविद्ग्धैरतिशयः । मनो मे संमोहस्थिरमपि हरत्येष बलया- दयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥ २१ ॥ लवः—( प्रविश्य ।) अज्ञातानामस्मद्विधैर्वाग्वन्द्यानपि न. स्वतः कथमभिवादयिष्ये । ( विमृश्य ।) अयं पुनरविरुद्धः प्रकार इति वृद्धेभ्यः श्रूयते । ( सविनयमुपसृत्य ।) एष वो लवस्य शिरसा प्रणामपर्यायः । अरुन्धतीजनकौ—कल्याणिनू आयुष्माम्भूया । कौसल्या—जाद चिरं जीव । जात चिरं जीव । अरुन्धती—एहि वत्स । ( त्सवमुत्सङ्गे गृहीत्वात्मगतम् ।) दिष्ट्या न केवलमुत्सङ्गाभिराम्मनोरथोऽपि मे सम्पूर्णः । कौसल्या—जाद इदो वि दाव एहि । ( उत्सङ्गे गृहीत्वा । ) अम्महे ण केवलं दुरभिभवन्तनीलुप्पलसामलुणालेन देहबन्धेन कलविदरविन्दकेसर- कसायकण्ठकलहंसणिणाददीहरदीहरेण सरेण अ रामभद्दं अणुहरदि। [अं बडो- नि स्मृतौ ॥ २० ॥ प्रवयसः वृद्धा । किमप्यै । एवं भनित आगमि- ष्यतीति । वृत्तं चारित्रम् । कथं सविनयविशामितरुगृष्टिवचन विसर्जिताशेष- रिगरदारकः इतोमुखं प्रवृत्त एव वत्स । दारकाः पटव । प्रवृत्तः प्र- वर्त्तितः । निर्वण्र्य दृष्ट्वा । भो इति मनः प्रति सवोधनम् ॥ महिम्नामेत- स्मिन्निति ॥ २१ ॥ एतस्मिन् वटे ( यटौ ? ) शिशिरे सुराकर इति यावत् । प्रौग्ध्येन सौन्दर्येण । मसृणः स्निग्धः । विदग्धैः चतुरैः । नितरां ग्राह्यः निर्माह्यः देय । अविदग्धैः अचतुरैः, न वेद्य इत्यर्थ । महिम्नामति- शयः । किं तत ग्राह—मन इति कर्म । 'प्रेमावेशे च समोहः' इति ध- र्मि । अयोधातुं लोहधातुम् । परिलघुः सूक्ष्म । शकलः खण्डः । 'यद्वत्सदृशया तथा' इति निशण्डशेषः । 'अयस्कान्तमणिशलारिरेव लोह- धातुम्' इति शाण्डपरिवचनच्छायानुसारणमेतत् ॥ २१ ॥ अज्ञातानि नाम- १ 'निस्सज्जिदासेसदिसराओ' ग. २ 'शिशिर.' न. ३ 'संमोह स्थिर' घ-घ.

रमकणलगब्भगब्भिलो सरीरप्फंसो वि तारिसो जेव्व वच्छस्स । जाद पेक्खामि दाव दे मुहपुण्डरीअं । ( चिबुकमुन्नमय्य निध्याय सबाष्पाकृतम् । ) राएसि किं ण पेक्खसि णिउणं णिरूवव्वन्तं से मुहं वच्छाए बहुए मुहचन्देण संव- ददि जेव्व । जात इतोऽपि तावदेहि । अहो न केवलं दरविकसन्नीलोत्पलश्या- मलोज्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायकण्ठकलहंसनिनाददीर्घदीर्घेण स्वरेण च रामभद्रमनुहरति । ननु कठोरकमलगर्भपक्ष्मलः शरीरस्पर्शोऽपि तादृश एव वत्सस्य । जात प्रेक्षे तावत्ते मुखपुण्डरीकम् । राजर्षे किं न प्रेक्षसे निपुणं निरूप्यमाणमस्य मुखं वत्साया वध्वा मुखचन्द्रेण संवदतेव । जनकः—पश्यामि सखि पश्यामि । कौसल्या—अम्महे उम्मत्तीभूतं विअ मे हिअअं किंपि एदोमुहं विल- वदि । अहो उन्मत्तीभूतमिव मे हृदयं किमपीतोमुखं विलपति । जनकः— वत्सायाश्च रघूद्वहस्य च शिखावसिञ्चन्निविव्यज्यते सम्पूर्णप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । १ सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा दैवं किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२ ॥ कौसल्या—जाद अत्थि दे मादा सुमरास वा ताइं । जात अस्ति ते माता स्मरसि वा तातम् । लवः—नहि नहि । कौसल्या—तदो कस्स तुमं । ततः कस्य त्वम् । लवः—भगवतो वाल्मीकेः । कौसल्या—अयि जाद कहिदव्वं कहेहि । अयि जात कथितव्यं कथय । क्रमाभिजाल्यानि ये.येषां च परस्परामित्यर्थ । क्रमः परम्परा । 'आभिजात्यं तु वंशो य' इति लिङ्गानुशासनम् । प्रकारः विध्यन्तरम् । 'पर्यायोऽवसरे क्रम.' इत्यमर ॥ जात विरे जीव । जात इतोऽपि तावदेहि । सम्महे न केवलं दरविकसन्नीलोत्पलश्यामलोञ्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायक- ण्ठकलहंसपोषेण धर्षराजुनादनिर्भरदीर्घतरेग स्वरेण रामभद्रमनुहरति । क- १ 'संस्तुतिः प्रति' न. २ 'देवि' न.

४-२२ ] उत्तररामचरितं १०३

: लवः—एतावदेव जानामि। (नेपथ्ये) भो भोः सैनिकाः। एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमपर्यन्तभूमय आक्रमितव्या इति। अरुन्धतीजनकौ—अये मेध्याश्वरक्षाप्रसङ्गादुपगतो वत्सश्चन्द्रकेतुरप्य द्रष्टव्य इत्यहो सुदिवसः। कौसल्या—वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिविन्दुसुन्दराई अक्खराई सुणीअन्ति। वत्स लक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते। लवः—आर्य क एष चन्द्रकेतुर्नाम। जनकः—जानासि रामलक्ष्मणौ दाशरथी। लवः—एतावेव रामायणकथापुरुषौ। जनकः—अथ किम्। लवः—तत्कथं न जानामि। जनकः—तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः। लवः—ऊर्मिलायाः पुनस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः। अरुन्धती—(विहस्य।) आविष्कृतं कथाप्रावीण्यं वत्सेन। जनकः—(विचिन्त्य।) यदि त्वमीदृशः कथायामभिज्ञस्तर्हि तावद्ब्रूह्याचक्ष्वैषां दशरथात्मजानां कियन्ति किंनामधेयान्यपत्यानि केषु केषु दारेषु प्रसूतानीति। लवः—नायं कथाप्रविभागोऽस्माभिरन्येन वा श्रुतपूर्वः। जनकः—किं न प्रणीत एव कविना। लवः—प्रणीतो न प्रकाशितः। तस्यैव कोऽप्येकदेशः सन्दर्भान्तरेण रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य मुनेस्तौर्यत्रिकसूत्रकारस्य। जनकः—किमर्थम्। लवः—स किल भगवांस्तमप्सरोभिः प्रयोजयिष्यतीति। जनकः—सर्वमिदमाकूतेतरमस्माकम्।

१ 'प्रबन्धान्तरेण' न. २ 'आहूतकरम्' घ-घ.

१०२ उत्तररामचरितं [४-२२ लवः—महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्ते- वासिनां हस्तेन तद्युग्मं भरताचार्यं प्रति प्रेषितम् । तेषामनुयात्रिकश्चाप- पाणिः प्रमादापनोदनार्थमस्मद्ध्राता प्रेषितः । कौसल्या—जाद भादावि दे अत्थि । जात भ्रातापि तेऽस्ति । लवः—अस्त्यार्यः कुशो नाम । कौसल्या—जेट्ठोत्ति भणिदं होदि । ज्येष्ठ इति भणितं भवति । लवः—एवमेतत् । प्रसवक्रमेण स किल ज्यायान् । जनकः—किं यमजावायुष्मन्तौ । लवः—अथ किम् । जनकः—वत्स कथय कथाप्रबन्धस्य कीदृशः पर्यन्तः । लवः—अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसं- भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनि- वृत्त इति । कौसल्या—हा वच्छे मुद्धचन्दमुहि को दाणिं दे शरीरकुसुमस्स झत्ति देव्वदुव्विलासपरीणामो एकलिभाए णिवडिदो । हा वत्से मुग्धचन्द्रमुखि क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । टोर कमलगर्भपक्ष्मल शिशिरशौचेऽपि तादृश इति शेषः । तं एकदेशम् । आतङ्कः पीडा । तस्मिन् भरताचार्ये । आस्था अभिनिवेशः प्रीतिर्वा । अभीक्ष्णं दृश्यमानानामिति ध्वनिः । आधमं उद्दिश्येति शेषः । आधमं प्रतीति वा पाठः । अनुयात्रिकः अनुप्रस्थानदक्षः । भ्राताऽपि शेषि । आर्यपदस्वार- स्यादाह—जेट्ठ इति । ज्येष्ठ इति गणितं ( भणितं २) भवति । 'ज्येष्ठस्तु मासभे- देच पूर्वजे च' इति नग्दी । मासभेदे तु ज्येष्ठ एवेति केचित् । तन्न, त्रिण्येष्टमिलन विरोधात् । अत एव ज्येष्ठो ज्येष्टश्चेति द्विरूपेभिधानात् । मासभेदे ज्येष्ठोऽपीति नन्दार्जुनो व्याचखारेति दिक् ॥ 'परिपाटिरनुक्रम' इत्यमरः । प्रसवक्रमात्, 'अनुजः पूर्वजो ज्येष्ठस्तनुजो यमलौ यमौ' इति वस्तुनिर्णयः । कथायाः चरितस्य । प्रबन्धः गु(म्फ)नम् । 'प्रबन्धो गुम्फने ग्रन्थे' इति शब्दमाला । पर्यन्तः पूर्तिः ॥ हा वत्से मुग्धचन्द्रमुखि क इदानीं ते कुसुमभूतस्य शरी- रस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । 'एकलिआ' इति १ 'प्रमादच्छेदनार्थम्' न; 'अप्रमादार्थम्' घ. २ 'प्रशस्त-' न. ३ 'क्रियान्' न. ४ 'पौरपवादोद्विग्नेन' य-प.

४-२५] उत्तररामचरितं १०३ जनकः—हा वत्से नूनं त्वया परिभवं च धैमं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य । क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽस्मि ॥ २३ ॥ लवः—( अरुन्धतीं प्रति ) आर्ये कावेतौ । अरुन्धती—इयं कौशल्या । अयं च जनकः । लवः—( सबहुमानखेदकौतुकं पश्यति ।) जनकः—अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामस्य राज्ञः क्षिप्रकारिता । एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पद्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा । कौसल्या—( सभयकम्पम् ) भयवदि परित्ताहि परित्ताहि । पसादेहि कुविदं राएसिम् । भगवति परित्रायस्व परित्रायस्व । प्रसादय कुपितं रा- जर्षिम् । लवः—ऐतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् । अरुन्धती—राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २५ ॥ देशीयशब्दः । 'एकती' इति महाराष्ट्राः । नूनं त्वया परिभवमिति ॥ २२ ॥ परिभवं परित्यागरूपतिरस्कारम् । क्रव्याद्गणेषु मांसाशनसङ्घेषु । भयमुपस्थितम् । कालेति ध्वनिः ॥ २३ ॥ कथाप्रविष्टविति बहुमानः । कथं दीनाविति खेदः । देवात्पश्यामीति कौतुकम् । क्षिप्रमिति अविचार्य क्षिप्रकारित्वेति यावत् ॥ एतद्वैशसवज्रघोरमिति ॥ २४ ॥ वैशसमेव वज्रं तस्य । घोरपतनं दारुणपातः । 'अपिये द्रोहे त्वपवादे च वैशसम्' इति सारस्वतः । शश्वत् मुहु । उत्पद्यतः उत्प्रेक्षमाणस्य । विचार- यत इति यावत् । मम क्रोधस्य चापेन शापेन वा करणेन झटिति ज्वलितुमवसरः समयः ॥ भगवति परित्रायस्व । प्रसादय कुपितं राज- र्षिम् ॥ एतद्धि परिभूतानामिति ॥ २५ ॥ एतत् प्रदानमित्यर्थः । अपत्यं पुत्रः । यथा दशरथस्य सीता दुहिता तथा तव रामः पुत्र १ 'भव' ब-घ. २ 'स्मृतोऽहम्' न. ३ 'दुर्मर्यादाना' ब-घ. ४ 'इति- लव०' क-घ-ज ५ एतदरुन्धतीवाक्यं व-घ-पुस्तके.

१०४ उत्तररामचरितं [ ४–२६

जनकः—शान्तं धा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ २५ ॥ (प्रविश्य ।) संभ्रान्ता बटवः—कुमार कुमार अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते सोऽयमधुनाऽस्माभिः प्रत्यक्षीकृतः । लवः—अश्व इति पशुसमाम्नाये साङ्ग्रामिके च पठ्यते । तद्ब्रूत कीदृशः। बटवः—श्रूयताम् । पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव । शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्नमात्रा- न्किं वाऽऽरैर्या तैर्व्रजति स पुनर्द्रूरमेहोहि यामः॥ २६॥ ( इत्यजिने हस्तयोराकर्षन्ति । ) लवः—( सकौतुकापराधविनयम् । ) आर्याः पश्यत पश्यत । एभिर्नी- तोऽस्मि । ( इति त्वरितं परिक्रामति । ) अरुन्धतीजनकौ—पैरयतु कौतुकं वत्स । कौसल्या—अरष्णगब्भरूवाणवेहिं शुद्दे तोसिदा अह्मे अ। भयवदि

इति भावः । 'कृपणः क्षुद्रः' इत्यमरः ॥ २५ ॥ शान्तं गतमिति यावत् । क्षाम्तमिति च पाठः । न दधे न दधामि । यत् यस्मात् । तत् प्रसिद्धम् । उभयं सीतारामौ । मे मम । पुत्री च पुत्रश्च पुत्रौ तावेव भाण्डे पुत्रभा- ण्डम् । 'भाण्डं मूलवनिग्धने' इति रूपितः । वणिजा मूलधनं यथा रक्ष्यते तथा मया सीतारामौ रक्षणीयौ इति भावः । ननु अपवादप्रवृत्तेषु जनेषु कोपो युक्त इत्याशङ्कय सोऽपि दयनीय इत्यत्र हेतुमाह—भूयिष्ठेति । भूयि- ष्ठानि भूयांसि द्विजबालवृद्धविकलस्त्रैणानि यस्मिन् । विकलाः अङ्गहीना- दयः । 'स्त्रैणं स्त्रीसमूहः' इति नन्दी ॥ २४ ॥ पशुसमाम्नाये पशुविधा- यकवेदे । साङ्ग्रामिके सङ्ग्रामसंबन्धिाने प्रकरणे इति शेषः । पश्चात्पुच्छं वहतीति ॥ २६ ॥ धूनोति कम्पयति । शष्पाणि बालतृणानि । आम्र- मात्रान् आम्रप्रमाणान् । शकृत्पिण्डकान् मलगोलकान् ॥ २६ ॥ अ- श्वाददर्शने कौतुकम्, सहसागमनप्रसङ्गेनापराधः तत्क्षमापने या सहजो वा विनयः । एवं सर्वतो यथोचितमूह्यम् ॥ एभिर्नीतोऽस्मीति शिद्रत्कारेण सं- चमत्कारकथनाद्भवस्य गमने महानभिनिवेश इति बोध्यम् ॥ अरण्यगंभी-

१ 'तत्पुत्र' ख-घ. २ 'प्यारुडानी.' ग. ३ 'महत्कौतुकं वत्सस्य' ग. ४ 'अरण्ण...अह्मे अ' एतन्नास्ति क-च-य-पुस्तकेषु.

४-२६ ] उत्तररामचरितं १०५ जाणामि एदं अत्ताणेअभन्तो वञ्चिदा विअ ता अणग्घदो भविअ पेक्खम्ह दाव पलाअन्तं दीहाउअं । अरण्यगर्भरूपालापैर्पूर्यं तोषिता वयं च । भगवति जानाम्येतमनालोकयन्ती वञ्चितेव । तदन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम् । अरुन्धती—अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते । ( प्रविश्य । ) कञ्चुकी—भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भव- द्भिरिति । जनकः—अतिगम्भीरमेतत्किमपि। भगवत्यरुन्धति सखि कौसल्ये आये गृष्टे स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः । ( इति निष्क्रान्तो वृद्धवर्गः ) ( प्रविश्य । ) वटवः—पश्यतु कुमारस्तदाश्चर्यम् । लवः—दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः । वटवः—कथं ज्ञायते । लवः—ननु मूर्खाः पठितमेव हि युष्माभिरपि १तत्काण्डम् । किं न प- श्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः, २तत्प्राये- मेव बलमिदं दृश्यते । यदिह न प्रत्ययस्तद्गत्वा पृच्छत । वटवः—भो भोः किंप्रयोजनोऽयमश्वः परिरुतः पर्यटति । लवः—( सस्नेहमात्मगतम् । ) अये अश्वमेध इति नाम विश्वविजयिनां क्षत्रियाणांमूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्ष३निकषः । ( भैरूपा ? ) लापैर्पूर्यं तोषिताः, वयं च सन्तोषिताः विस्मिताश्च । भगवति जानामि एतमन्वेक्षमाणा वञ्चितेव तस्मादन्यतो भूत्वा पश्यामस्तावत् पला- यमानं दीर्घायुषम् । अरण्यगर्भस्य वनमध्यस्य रूपं शोभा येन यस्माद्वा सोऽरण्यगर्भरूपो लवः । तस्य लापैः ऽङ्किभिरित्यर्थः । 'अमृतं चात- भाषितम्' इति स्मरणात् । 'रूपमाकृतिसौन्दर्यशोभासु' इति समाशावनेः । एतं लवम् । कञ्चुकीति—पूर्वं जनकेन वाल्मीकिं प्रति प्रेषितो यः स ए- वात्रमिति भेदम् । आह वदति । तदिति लवस्य वृत्तमिति विवेकः । अवसर एव ज्ञातव्यम्, न त्विदानीमिति भाव । किमपीति क्रमेण विशदीभविष्य- तीति यावदशेषः । शतं संख्या येषां निषङ्गिणः तूणीधरा । तत्प्राय- मिति । तेषां कवचिसुखानां प्रायः भूम्ना यस्मिन् तत् तत्प्रायम् । 'प्रायो -भूम्नि' इत्यमरः । इदं रक्षकसैन्यमिति यावत् । किं प्रयोजनं यस्य किंप्र- १ 'तत्काण्डे' क-घ-च. २ 'तत्प्रायमेवान्यदपि' च. ३ 'निकर्षः' क-घ-च.

१०६ उत्तररामचरितं [४-२८ (नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा । सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥ लवः—( सगर्वमिव । ) अहो सन्दीपनान्यक्षराणि । बटवः—किमुच्यते । प्राह खलु कुमारः । लवः—भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्घोष्यते । ( नेपथ्ये । ) रे रे महाराजं प्रति कुतः क्षत्रियाः । लवः—धिग्जाल्मान् । यदि ते सन्ति सन्त्येव केयमद्य विभीषिका । किमुत्कैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥ भो भो बटवः परिवृत्य लोष्टैरभिघ्नन्तो नयतैनमश्वम् । एष रोहितानां मध्ये वराकश्चरतु । ( प्रविश्य सक्रोधदर्प ) पुरुषः—धिक्चापलं किमुक्तवानसि । तीक्ष्णतरा ह्या- युधीयश्रेणयः शिशोरपि दृसां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दाम्तः । सोऽप्यपूर्वारण्यदर्शनविक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगह- नेनापसर्पत । बटवः—कुमार कृतमनेनाश्वेन । तर्जयन्ति विस्फुरितशस्त्राः कुमार- मायुधीयश्रेणयः । दूरे चाश्रमपदमितस्तदेहि हरिणप्लुतैः पलायामहे । योजनः । स्पृहा समरेच्छा । ऊर्जस्वलः ऊर्जोतिशयान्वितः । सर्वे ख्रसादितेरे च ते क्षत्रियाः । निकषः शाण , घर्षणसाधनशिला । 'सहाण' इति महाराष्ट्राः । योऽयमश्वः पताकेति ॥ २७ ॥ योऽश्वः अयं । इयमिति वीरघोषणाया च योज्यम् । 'वीरवादामंटी वीरघोषणा' इति हैमः । अधो विद्यमाना सप्तलोकाः ऊर्ध्वं च सप्त लोका इत्येत्य चतुर्दशभुवना- नीति भाव ॥ २७ ॥ सन्दीपनानि सन्तापकारीणि इति यावत् । 'हीन- संबोधने तु रे' इत्यमर । 'भयोत्पादनहेतुर्या प्रतिमा सा विभीषिका' इति केदार । अभिघ्नन्तः पशुसाधारणमिति भाव । रोहितानां मृगविशे- षाम् । पृष्ठत मध्ये वा । वराकः अधम । पुरुष राक्षससैन्यस्य इति बोध्यम् । आयुधीयानां शस्त्राजीवानाम् । 'श्रेणिः श्रेणी' इति द्विरूप. । १ 'अदन्वश्व' क-घ-च. २ 'सम्बन्धमिव' घ-म. ३ 'नो' न. ४ 'केयमन्त्या' घ-च. ५ 'विमुक्ते. संनिपत्येव' ग, 'विमुक्ते. शरसम्पातात्' घ. ६ 'नीरमा.' क-घ-च. ७ 'मायुष' न. ८ 'अविविमर्दन' क-घ-च. ९ 'सोन्द्यपूर्वारण्य०' घ-घ. १० 'विम्फारितशरासना' न.

४-२९] उत्तररामचरितं १०७ लवः-(विहस्य) किं नाम विस्फुरन्ति शस्त्राणि । (इति धनुराटो- पयन्।) ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्गारिघोरघनघर्घरघोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भारिडम्बि विकटोदरमस्तु चापम् ॥ २९॥ (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे।) चतुर्थोऽङ्कः । 'कुद्दण्ड(न्त?)मण्डलीकृतं' इति हेमचन्द्रः । न परापतन्ति नाभिभवन्ते । 'तरभिगहनं कलिते वने' इति ध्वनिमञ्जरी । द्रुतेः उद्दीनविशेषे शस्त्राणि आयुधानि । करुणरसातिशयेन विराद्विसंकोचं महत्कविः प्रकरणवशादेव वीररससमुद्भवमुद्भावयति—ज्याजिह्वया वलयितेति ॥ २९ ॥ ज्यैव जिह्वा तया वलयिते आवेष्टिते उत्कटे मत्ते कोटी अग्रे एव दंष्ट्रे यस्य । उ- द्घा(द्भा?)री उद्गयन् घोरः भयङ्करः घनः सान्द्रः घर्घरः घोषः यस्य । गम्भीरो घर्घर इति भावः । विकटं कुटिलं दुर्मरमिति यावत् । उदरं अ- न्तरालं यस्य । एतद् चापम् । 'धन्वकार्मुकचापनि' इति जयः । ग्रासे जगतकवलने प्रसक्तः तत्परः । हसन् अट्टहास कुर्वन् यः अन्तकः तस्य वक्त्रमेव यन्त्रं विभीषिकामुखम् तस्य जृम्भा तां विडम्बयतीति विडम्बि । 'शृम्भास्तु त्रिषु' इत्यमरः । अस्तु । तथा च एतेषामायुधीयानां शस्त्रविस्फारः मम ईदृशस्य चापस्य पुरतः कियानिति भाव इत्यलमतिविस्तरेण ॥ २९ ॥ इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे चतुर्थोऽङ्कः समाप्तः ॥ ॥ इति चतुर्थोऽङ्कः ॥ १ 'उङ्कारी' न. + प्रथमावृत्तीकारान्ततो दीर्घादृष्ट्वा दशापहृतं निर्देर्हितं तद- त्राप्यनुकल्प्यम् ।

३०८ उत्तररामचरितं [ ५-२ पञ्चमोऽङ्कः । ( नेपथ्ये । ) भो भोः सैनिका जातं जातमवलम्बनमस्माकम् । नन्वेष त्वरितसुमन्त्रनुद्यमान- प्रोद्वेल्लत्प्रजवितवाजिना रथेन । उत्खातं प्रचलितकोविदारकेतुः श्रुत्वा नः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥ ( ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसम्भ्रमश्चन्द्रकेतुः चन्द्रकेतुः —आर्य सुमन्त्र पश्य पश्य । किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना कार्मुकेन । समरशिरसि चञ्चत्पञ्चचूडश्चमूर्नः मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥ अथ कविरिह पञ्चमाङ्के लवचन्द्रकेतुसंवादं वर्णयिष्यन् शाकुन्तलादिकति- पयाङ्कस्थलबत् कथागाढान्याभावात्प्रवेशादिकमङ्गमन्तरेणैव चतुर्थाङ्कपूर्तिसन्न- ड्डलयसमारम्भसङ्गतिसमुचितेन तदनुरूप, ‘साक्षात्पात्रप्रवेशो वा नेपथ्याकाश- भाषितं’ इति रूपकादर्शोक्तन्यायानुसारेण चन्द्रकेतुप्रवेशसूचनमङ्कुरयति— नेपथ्ये इति । अस्माकमिति अस्मत्सेनाया इति च पाठौ साधीयांसौ । अस्मत्सैनिकानामिति भ्रान्तः पाठः । भो भोः सैनिका इति सम्बोधनास- ङ्गतेः ॥ कथमवलम्बनमित्याशङ्क्याह—नन्वेष त्वरितेति ॥ १ ॥ सुमन्त्रेण नुद्यमानः प्रेर्यमाणः । प्रोद्वेल्लन् कम्पमानः प्रकर्षेण जविताः सञ्जात- जवा वाजिनः यस्य । तथा च नुद्यमानस्तन् प्रोद्वेल्लद्वाजी प्रजवितवाजी च तेन रथेन उपलक्षितः । उत्खाते प्रचलितः तरलितः कोविदार एव केतुः ध्वजः यस्य । 'उत्खाते विषमे देशे' इति 'कोविद्वारे चमदक' इति शब्दमालाधन्वन्तरी । सपदि झटिति । 'पाले च युवराजे च कुमार' इति संसारवर्तः । पूर्वार्धे यमकभङ्ग एकाक्षरप्रासः ॥ १ ॥ सुमन्त्रः सारथि- र्यस्मिन् ॥ किरति कलितकिञ्चिदिति ॥ २ ॥ कलितः प्राप्तप्रायो किञ्चित्कोपः अल्पक्रोधः तेन रज्यन्ती मुखश्रीः यस्य । प्रविततः गुणः मौर्वी यस्य । घण्टाभिर्गुञ्जन्ती शब्दायमाना कोटिः यस्य । प्रवि- १ 'स्यात्सञ्जातप्रजवन' क-घ-च, 'प्रोल्लसद्' न. २ 'उद्वात' क-घ-च. ३ 'अनवरतनिगुञ्जद्' घ-च, 'प्रवितत' टी.

५-५] उत्तररामचरितं १०९ आश्चर्यमाश्चर्यम् । मुनिजनशिशुरेकः सर्वतः सैन्यकाये नव इव रघुवंशस्याप्रसिद्धः प्ररोहः । दलितकरिकपोलग्रन्थिदङ्कारघोरै- र्ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥ सुमन्त्रः—आयुष्मन् अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् । कौशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥ चन्द्रकेतुः—सैन्यमेकमुद्दिश्य भूपसामारम्भ इति हृदयमपत्रपते । अयं हि शिशुरेकको मदभरेण भूरिस्फुर- त्करालकरकन्दलीजटिलशस्त्रजालैर्बलैः । तद्गुणं च तत् गुणोत्कोटि च । चञ्चन्त्यः चञ्चला पञ्च चूडाः संयत- केशाः यस्य । 'पञ्चचूडे वटुरिति' इति मुक्तः । शरा एव तुषाराः नी- हाराः । वीरस्य पोतः अर्भकः । वीरथासो वा । सप्रचोपादित्यत्र उपसर्गो पादपूरकौ इति केचित् । वृथेत्यन्ये । हन्त क्रोपादिति वा पाठः ॥ २ ॥ मुनिजनशिशुरिति ॥ ३ ॥ प्ररोहः अङ्कुरः । दलिता भेदिताः करिकपो- लग्रन्थय ये । 'ग्रन्थिर्मर्मनि च' इति हैमः । टङ्कारा घोरा येषु । दलितक- रिकपोलग्रन्थय एव टङ्कारघोराः सन्तः । ज्वलिताश्च ते शराश्च येषाम् ॥ ३ ॥ अतिशयितसुरासुरेति ॥ ४ ॥ अतिशयितः सुरासुरेभ्यो- ऽपि प्रभावः यस्य । तथैव रामस्येति भाव । द्विषां मारीचादीनाम् । प्रमाथे हिंसने ॥ ४ ॥ अयं हि शिशुरिति ॥ ५ ॥ एककः एक । भूरि स्फुरन्त्यः वीरक्ष्म्या भूय शोभमानाः करालाः दुर्प्रेक्षाः याः कर- कन्दल्यः करचपुडानि तेषु जटिलानि निबिडानि शस्त्राणां आयुधानां जालानि समूहाः येषाम् । 'दुर्दर्शे कराल' इति, 'कदली संपुटे पुटे कन्दः' इति, 'जटिलो निबिडार्थे' इति हारावलीकपिलशब्दांणवे । किङ्किणीभिः १ 'सप्रत्नोपाद्' न-टी. २ 'प्रसिद्धप्ररोहः' म. ३ 'घोर' घ. ४ 'द्व- षेव' घ-घ. ५ 'इममेव०' घ-घ. ६ 'समरभारभूमि०' क-घ-घ. ७ 'क- न्दित' क-घ-घ.

११० उत्तररामचरितं [ ५-६ ] क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनद्विरदडामरैरावृतः ॥ ५ ॥ सुमन्त्रः-यत्स एमि. समस्तैरपि किमस्य किं पुनर्व्यस्तैः । चन्द्रकेतुः-आर्य त्वर्यतां त्वर्यताम् । अनेन हि महानाधितजनप्रमा- रोऽस्माकमारब्धः । तथा हि । आगर्जद्विरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् । वेल्लद्वैरधरण्डमुण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवक्त्रविघसब्याकीर्यमाणामिव ॥ ६ ॥ सुमन्त्र -( स्वगतम् । ) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्र- हारमनुजानीम । ( विचिन्त्य । ) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे च का गतिः । चन्द्रकेतुः-( सविस्मयत्वरासभ्रमम् । ) हन्त धिक् । अपावृत्तान्येव सर्वतः सैन्यानि मम । क्षुद्रघण्टाभि क्वणघणायिताः स्यन्दनाः रथा येषाम् । अमन्दं महत् । मदा एव दुर्दिनं येषां ते च ते द्विरदाः गजा तै डामराणि उद्ध- तानि । दुर्दिनमिति नित्यधाराक्षरणनात्मकवार्थद्वयाभिप्रायकम् । 'मेघच्छन्नेऽह्नि दुर्दिनम्' इति, 'उद्धते डामर त्रिषु' इत्यमरविमर्शौ । बलैः सैन्यैः । 'तुल्यबुद्धौ समभर' इति नन्दी । आवृतः आक्रान्त । सादिनोऽप्येतद- न्तर्भूता इति भाव । त्रिपुरैरिति ध्वनि ॥ ५ ॥ समस्तैर्मिलितैः । व्यस्तैः भिन्नै । एमि. यंह । आधितजनाः अनुचरलोका तेषां प्रमादः प्रसर्पेण मारणम् ॥ आगर्जद्विरीति ॥ ६ ॥ आ समन्तात् । घटासु निस्तीर्णः अवतीर्ण । कर्णेभ्य. ज्वरः असम्भवत्वप सन्ताप येन । विस्तीर्ण इति पाठे विशाल इत्यर्थ । आध्मातं पूरितम् । वेल्लिदिति । 'प्रेङ्गद्धारणदण्डानां अक्यन्ध शिरोषण्डम्' इति समास । तृप्यन् य कालः यम तस्य क- रालवक्त्रस्य विघसेन । 'करालो दन्तुरे तुङ्गे' इति, 'विघसो भोजनशेषः' इत्यमरशेषात् ॥ ६ ॥ संप्रहारं युद्ध । केनि रण कर्तव्यमेवेति भावः । लवस्य पराक्रमाधिक्याद्विलयत्वरासभ्रमा । अपावृत्तानि परावृत्तानि । १ 'वारिदै.' क-घ-च. २ 'प्रमाथ' क-घ-च. ३ 'आगृञ्जन्' घ-घ. ४ 'विस्तीर्ण' ख-घ. ५ 'ज्वरग्दा०' न. ६ 'रण्डं' न. ७ 'भुव' प-य. ८ 'तृप्यत्' न-क.

५-९ ] उत्तररामचरितं १११ सुमन्त्रः—( रथवेगमभिनीय । ) आयुष्मन्, एष ते बाग्विषयीभूतः स वीरः । चन्द्रकेतुः—( निस्सृष्टिमभिनीय । ) आर्य किमस्य नामधेयतारपात- मोहायकैः । सुमन्त्रः—लव इति । चन्द्रकेतुः—भो भो लव महाबाहो किमेभिस्तव सैनिकैः । एषोऽहमेहि मामेव तेजस्तेजसि शाम्यतु ॥ ७ ॥ सुमन्त्रः—कुमार पश्य पश्य । प्रिनिवर्तित एष धीरपोतः पृतनानिर्भयनादवद्योपहृतः । स्तनयित्नुरवादिभारलीना मवमर्दार्तिच दृप्तसिंहशावः ॥ ८ ॥ ( ततः प्रविशति धीरोद्धतपरिक्रमो लवः । ) लवः—साधु राजपुत्र साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवास्मि । ( नेपथ्ये महान्कलकलः । ) लवः—( सावष्टम्भं परावृत्य । ) आः कथमिदानीं भङ्गेऽपि प्रतिनि- कृत्य युद्धनिवारिणः पर्यवष्टम्भवन्ति मा चमूपतयः । धिग् जाल्मान् । अयं शैलाघातक्षुभितवडवावक्त्रहुतभु क्प्रचण्डक्रोधार्चिर्निचयरुचलत्वं भजतु मे । समन्तादुत्सर्पन्घेनतुमुलहेलोत्कलरुतः पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥ ( सवेगं परिक्रामति । ) चन्द्रकेतुः—भो भो कुमार । वागिति-सत्त्वेति सप्तापाय सन्दिष्ट इत्यर्थः । इतिकार आप्रा(प्तो?)पृक्त इति विद्वान्दौ ॥ पिनिवर्तित एष इति ॥ ८ ॥ पृतना सेना । स्तनयित्नुः मेघः । अवमर्दः मर्दनम् । शावः शिशुः ॥ ८ ॥ परागतः प्रतिनिरा- गत इति यावत् । 'अवष्टम्भो गर्वः' इति रत्नमाला । परितः स्थिरीभवन्तीति यावत् । मामुद्दिश्य । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । अयं शैलाघात इति ॥ ९॥ आघातः आपतनम् । तेन क्षुभिता या वडवा, 'अश्वा वडवा'इत्य- १ 'भारवापकैः' व-घ. २ 'न्यदवउंत' व-प. ३ 'वल' व-घ. ४ 'सेना' क-द.

११२ उत्तररामचरितं [५-१२] अत्यद्भुतादसि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि यन्मम तत्तवैव । तत्किं निजे परिजने कदनं करोषि नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥ लवः—(सहर्षसंभ्रमं परावृत्य ।) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिरेवमेव सावष्टम्भाव- यामि । (पुनर्नेपथ्ये कलकलः ।) लवः—(सक्रोधनिर्वेदम् ।) आः कदर्यितोऽहमेभिर्गौरसंवादविघ्नका- रिभिः पापैः । (तदभिमुखं परिक्रामति ।) चन्द्रकेतुः—आर्य आर्य दृश्यतां द्रष्टव्यमेतत् । दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्वलेऽनुसृतोऽयमुदीर्णधन्वा । द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥ ११ ॥ सुमन्त्रः—कुमार एवेनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो वि- स्मयेन । चन्द्रकेतुः—भो भो राजानः । संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वद्यैकस्मिन्कवचनिचितैर्मध्येचर्मोत्तरीये । कालज्येष्ठैरभिनवयवयःकाम्यकाये भवद्भि- र्योऽयं बद्धो युधि समभरेस्तेन धिग्वो धिगस्मान् ॥ १२ ॥ लवः—(सोत्प्रासम् ।) आः कथमन्वुकम्पते नाम । (विचिन्त्य ।) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति ।) मर । निचयः समूह । 'अतुलं (तुमुलं?) रणसङ्कुले' इति, 'हेला विलास', इति, 'ओघ प्रवाहजवयो' इति चामरः । आस्फालितः उद्धृतः ॥ ९ ॥ अत्यद्भुतादसीति ॥ १० ॥ कदनं व्यापादनम् ॥ १० ॥ कदर्यित व्यर्थी- कृत इति यावत् ॥ दर्पेण कौतुकवतेति ॥ ११ ॥ उदीर्णं उद्धृतम् । माधवतं ऐन्द्रम् । लक्ष्मीं शोभाम् ॥ ११ ॥ परवन्तः पराधीनाः । संख्यातीतैरिति ॥ १२ ॥ 'पदाती पदातयः' इत्यमरः । तत्र तस्मिन् छवे । निचितैः । 'बालो वत्सरडेऽपि' इति केशवः । अपरं बाल्यं । हेत्व- १ 'नद' ग. २ 'अपरवयसि ख्यातिरामैः' न. ३ 'परिकर' इति क-घ-च.

९-१४ ] उत्तररामचरितं ११३ सुमन्त्रः—एतस्मिन्कस्मादुभयसैन्ययोधः प्रशाम्यति । लवः—पश्याभ्येनमधुना प्रगल्भम् । सुमन्त्रः—( ससंभ्रमम् । ) वत्स मन्ये कुमारकेणानेन जृम्भकास्त्रमाम- न्त्रितमिति । चन्द्रकेतुः—अत्र कः सन्देहः । व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्व्रस्तमुक्तं हिनस्ति । अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यै जृम्भते जृम्भकास्त्रम् ॥ १३ ॥ आश्चर्यमाश्चर्यम् । पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः । कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरवस्तीर्यते मीलन्मेघतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥ सुमन्त्रः—कुतः पुनरस्य जृम्भकास्त्राणामागमः स्यात् । चन्द्रकेतुः—भगवतः प्राचेतसादिति मन्यामहे । सुमन्त्रः—तात नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः । सम (भ ?)रेण तुल्यबुद्धा ॥ १२ ॥ उन्मादः चित्तविभ्रमः । कालहरणं विलम्बः । तस्य प्रतिषेधः निषेधः । अकस्मात् अहेतोः । सहसा वा । एनं चन्द्रकेतुम् । परिहामोचितिमम् । तदेव स्पष्टयति—व्यतिकर इव भीम इति ॥ १३ ॥ भीमः घोरः तमसोऽयं तामसः । विद्युत अयं वैद्युतः । व्यतिकरः सवन्धः । प्रणिहितं प्रणिधानगतं विमर्शकानिष्ठमपीति यावत् । चक्षुः कर्म । ग्रस्तमुक्तं तामसो व्यतिकरः ग्रस्तं सत् खने(?)मुक्त- मत्र शेषः । वैद्युतः मुक्तं सत् हिनस्ति चेति बोध्यम् । अस्पन्दं निश्चलम् । आस्ते तस्मादिति शेषः ॥ १३ ॥ पातालोदरेति ॥ १४ ॥ पातालोदरे श्यामतातिशयद्योतकम् । जृम्भकैः जृम्भकास्त्रैः । पूजाया बहुत्वम् । 'रीतिः स्त्रियामारकूटं' इति, 'कडारः कपिशः' इति चामरः । आरकूटं 'पित्तल' इति महाराष्ट्राः । ज्योतिर्वत् ज्वलन्ती दीप्तिः येषां तानि । कल्पः प्रलयः तस्य आक्षेपे आग्रेहे । दारुणमरुता व्यस्तैः भिन्नैः । तडिद्भिः कडा- राणि कुहराणि बिलानि येषां ते । कूटैः शिखरैरिव । अवस्तीर्यते १ 'मनेन' क. २ 'अभिनस्तीर्यते' ग; 'अवास्तीर्यते' घ.

११४ उत्तररामचरितं [ ५-१६ कृशाश्वतनया होते कृशाश्वात्कौशिकं गताः । अथ तत्संप्रदायेन रामभद्रे स्थिता अपि ॥ १५ ॥ चन्द्रकेतुः—अपरेऽपि प्रैक्ष्यमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः प- श्यन्ति । सुमन्त्रः—वत्स सावधानो भव । परागतस्ते प्रतिवीरः । कुमारौ—( अन्योन्यं प्रति । ) अहो प्रियदर्शनः कुमारः । ( सस्नेहा- नुरागं निर्वर्ण्य । ) यदृच्छासंवादः किमु किमु गुणानामतिशयः पुराणो वा जन्मान्तरनिबिडवैद्धः परिचयः । निजो वा सम्बन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥ सुमन्त्रः—भूयसा जीविधर्म एष यद्रसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तमप्रतिसंख्येयमनिबन्धनं प्रेमाणमाममनन्ति । आसीर्यते ॥ १४ ॥ आगमः प्राप्तिः । एते जृम्भकादयोऽप्यविशेषाः ॥ कृशाश्वतनया इति ॥ १५ ॥ कृशाश्वस्य ऋषेः । तस्मात् कौशिकात् । संप्रदायेन शिष्यक्रमेण । एकपदमेतत् ॥ १५ ॥ परं भृशम् । उपेति वर्ध- मानव्याख्यार्थे(२) 'प्रकाशोऽतिप्रसिद्धेऽपि' इत्यमरः । 'ऋषिर्योगी च मन्त्रदृक्' इति लिङ्गानुशासनम् । स्वयं सर्वे पश्यन्ति । एतेन कृशाश्वकौशिकादिवत् प्रायेणसादोनामपि अस्त्रप्रवर्तरूपप्रकृतिकरण भवतीत्यवधेयम् । ते तुभ्यम् । कुमारौ लवचन्द्रकेतू ॥ यदृच्छासंवाद इति ॥ १६ ॥ यदृच्छया स्वैरम् संवादः संलाप किमु । निजः नित्य परिचयो वेति पूर्वेण योज्यम् । अवि- दितः सबन्ध किमु । कुत एवमत आह—ममेति । अवधानं अनन्यरति- त्वम्, कर्म । हृदयं परवशीभवतीति भावः ॥ १६ ॥ 'द्वये रसः' इत्यमरः । प्रीतिरिति यत् एष धर्म इत्यन्वय । यत्र प्रीतिविषये । लौकिकानां वेदि- कमार्गानभिज्ञानाम् । उपचारः आदरमात्रमित्यर्थ ॥ अथ वैदिकमर्थ विश्रृ- णोति—तारेति । तारेव तारा । 'तारकाक्ष्ण कनीनिका' इति 'मैत्रं मैत्री च सख्यं च' इत्यमररत्नकारौ । चक्षुषोः रागः । न राग उभयत्र दर्शनं लक्ष्यते । तत् प्रसिद्धम् । अप्रतिसन्धेयं अवचनीयम् । निबन्धनं शास्त्रम् । १ 'भृशाश्व' न. २ 'परमोपचीदमान' घ-य. ३ '०गत प्रवीर 'क-घ-य. ४ 'किमु गुणगणानाम्' न ५ 'बन्ध' घ-घ. ६ 'भूयसा जीवितानामेष धर्मे एष यत्र सरसमयी' ग. ७ 'स्वाहारः' य. ८ 'तदमतिसंख्येयनिबन्धन प्रमाणम्' न

५-२० ] उत्तररामचरितं ११५ अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥ कुमारौ—( अन्योन्यमुरिक्ष । ) एतस्मिन्मसृणितराजपट्टकान्ते - मोक्तव्याः कथमिव सायकाः शरीरे । यत्प्राप्तौ मम परिरम्भणामिलाषा- दुन्मीलत्पुलककदम्बमङ्कमास्ते ॥ १८ ॥ किं त्वाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः । किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥ सुमन्त्रः—( लवं निर्वर्ण्य साश्रगात्मगतम् । ) हृदय किमन्यथा परि- प्लवसे । मनोरथस्य यद्वीजं तद्देवेनाडितो हतम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥ चन्द्रकेतुः—अवतराम्यार्य सुमन्त्र स्यन्दनात् । प्रमाणमामनन्ति । वैदिका इति शेषः । 'प्रतिसन्धानमि(म?)निबन्धनं द्वे बन्धनार्थके' इति रद्रः ॥ अहेतुः पक्षपात इति ॥ १७ ॥ पक्षपातः ममता । मैथिलीपक्षपातेनेत्यक्षरसारूपादात्तधर्मा । प्रतिक्रिया आक्षेपः स पक्षपात प्रेमस्वरूपम् । सूत्रं कर्तृ । भूतानि प्राणि कर्म । अन्तः आत्मनि सीव्यति स्प्यूतान् करोतीत्यर्थ ॥ १७ ॥ एतस्मिन्मसृणितेति ॥ १८ ॥ मसृणितं च तत् राजपट्टाय साम्राज्यीय कान्तं मनोशं तस्मिन् । यस्य शरीरम्ब । प्राप्तौ सङ्गे । उन्मीलत्पुलकानां कदम्ब्यं समूह यस्मिन् । उन्मीलन्ति पुलका एव कदम्बानि नीपपुष्पाणि यस्मिन्निति वा । 'अङ्गं वपु- र्व्यवयवे' इति रत्नाकरः ॥ १८ ॥ ननु यथेच्छमालिङ्गयता, नास्तु शस्त्रयुद्धम्, अस्तु वा बाहुयुद्धम्, इत्याशङ्क्याह किन्त्वाक्रान्तेति ॥ १९ ॥ किन्तु आक्रान्ताः अभिभूता कठोरतेजसः शूराः येन तस्मिन् लव इति यावत् । यस्य शक्षस यस्य मनेति या शेष । ईदृश इति षष्ठीप्रथमैकवचनम् । 'सुडे- तशपथाचारसिद्धान्ता समया' इति धनञ्जयः ॥ १९ ॥ परिप्लवसे चञ्चति ॥ मनोरथस्य यदिति ॥ २० ॥ बीजं सीतेत्यर्थ । प्रसवः फलादिः ॥ २० ॥ १ 'अन्तर्भूतानि' क-घ-च. २ 'परिरम्भणे' घ-घ-च. ३ 'हतम्' घ. ४ 'प्रसूनस्यागम.' ब-घ.