उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 125, कुल 439 में से
संदर्भ में पढ़ें१०६ उत्तररामचरितं [४-२८ (नेपथ्ये ।) योऽयमश्वः पताकेयमथवा वीरघोषणा । सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥ २७ ॥ लवः—( सगर्वमिव । ) अहो सन्दीपनान्यक्षराणि । बटवः—किमुच्यते । प्राह खलु कुमारः । लवः—भो भोः, तत्किमक्षत्रिया पृथिवी यदेवमुद्घोष्यते । ( नेपथ्ये । ) रे रे महाराजं प्रति कुतः क्षत्रियाः । लवः—धिग्जाल्मान् । यदि ते सन्ति सन्त्येव केयमद्य विभीषिका । किमुत्कैरेभिरधुना तां पताकां हरामि वः ॥ २८ ॥ भो भो बटवः परिवृत्य लोष्टैरभिघ्नन्तो नयतैनमश्वम् । एष रोहितानां मध्ये वराकश्चरतु । ( प्रविश्य सक्रोधदर्प ) पुरुषः—धिक्चापलं किमुक्तवानसि । तीक्ष्णतरा ह्या- युधीयश्रेणयः शिशोरपि दृसां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दाम्तः । सोऽप्यपूर्वारण्यदर्शनविक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगह- नेनापसर्पत । बटवः—कुमार कृतमनेनाश्वेन । तर्जयन्ति विस्फुरितशस्त्राः कुमार- मायुधीयश्रेणयः । दूरे चाश्रमपदमितस्तदेहि हरिणप्लुतैः पलायामहे । योजनः । स्पृहा समरेच्छा । ऊर्जस्वलः ऊर्जोतिशयान्वितः । सर्वे ख्रसादितेरे च ते क्षत्रियाः । निकषः शाण , घर्षणसाधनशिला । 'सहाण' इति महाराष्ट्राः । योऽयमश्वः पताकेति ॥ २७ ॥ योऽश्वः अयं । इयमिति वीरघोषणाया च योज्यम् । 'वीरवादामंटी वीरघोषणा' इति हैमः । अधो विद्यमाना सप्तलोकाः ऊर्ध्वं च सप्त लोका इत्येत्य चतुर्दशभुवना- नीति भाव ॥ २७ ॥ सन्दीपनानि सन्तापकारीणि इति यावत् । 'हीन- संबोधने तु रे' इत्यमर । 'भयोत्पादनहेतुर्या प्रतिमा सा विभीषिका' इति केदार । अभिघ्नन्तः पशुसाधारणमिति भाव । रोहितानां मृगविशे- षाम् । पृष्ठत मध्ये वा । वराकः अधम । पुरुष राक्षससैन्यस्य इति बोध्यम् । आयुधीयानां शस्त्राजीवानाम् । 'श्रेणिः श्रेणी' इति द्विरूप. । १ 'अदन्वश्व' क-घ-च. २ 'सम्बन्धमिव' घ-म. ३ 'नो' न. ४ 'केयमन्त्या' घ-च. ५ 'विमुक्ते. संनिपत्येव' ग, 'विमुक्ते. शरसम्पातात्' घ. ६ 'नीरमा.' क-घ-च. ७ 'मायुष' न. ८ 'अविविमर्दन' क-घ-च. ९ 'सोन्द्यपूर्वारण्य०' घ-घ. १० 'विम्फारितशरासना' न.