उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 126, कुल 439 में से
संदर्भ में पढ़ें४-२९] उत्तररामचरितं १०७ लवः-(विहस्य) किं नाम विस्फुरन्ति शस्त्राणि । (इति धनुराटो- पयन्।) ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्गारिघोरघनघर्घरघोषमेतत् । ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भारिडम्बि विकटोदरमस्तु चापम् ॥ २९॥ (इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे।) चतुर्थोऽङ्कः । 'कुद्दण्ड(न्त?)मण्डलीकृतं' इति हेमचन्द्रः । न परापतन्ति नाभिभवन्ते । 'तरभिगहनं कलिते वने' इति ध्वनिमञ्जरी । द्रुतेः उद्दीनविशेषे शस्त्राणि आयुधानि । करुणरसातिशयेन विराद्विसंकोचं महत्कविः प्रकरणवशादेव वीररससमुद्भवमुद्भावयति—ज्याजिह्वया वलयितेति ॥ २९ ॥ ज्यैव जिह्वा तया वलयिते आवेष्टिते उत्कटे मत्ते कोटी अग्रे एव दंष्ट्रे यस्य । उ- द्घा(द्भा?)री उद्गयन् घोरः भयङ्करः घनः सान्द्रः घर्घरः घोषः यस्य । गम्भीरो घर्घर इति भावः । विकटं कुटिलं दुर्मरमिति यावत् । उदरं अ- न्तरालं यस्य । एतद् चापम् । 'धन्वकार्मुकचापनि' इति जयः । ग्रासे जगतकवलने प्रसक्तः तत्परः । हसन् अट्टहास कुर्वन् यः अन्तकः तस्य वक्त्रमेव यन्त्रं विभीषिकामुखम् तस्य जृम्भा तां विडम्बयतीति विडम्बि । 'शृम्भास्तु त्रिषु' इत्यमरः । अस्तु । तथा च एतेषामायुधीयानां शस्त्रविस्फारः मम ईदृशस्य चापस्य पुरतः कियानिति भाव इत्यलमतिविस्तरेण ॥ २९ ॥ इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे चतुर्थोऽङ्कः समाप्तः ॥ ॥ इति चतुर्थोऽङ्कः ॥ १ 'उङ्कारी' न. + प्रथमावृत्तीकारान्ततो दीर्घादृष्ट्वा दशापहृतं निर्देर्हितं तद- त्राप्यनुकल्प्यम् ।