भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 121, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 121

१०२ उत्तररामचरितं [४-२२ लवः—महती पुनस्तस्मिन्भगवतो वाल्मीकेरास्था । यतः केषांचिदन्ते- वासिनां हस्तेन तद्युग्मं भरताचार्यं प्रति प्रेषितम् । तेषामनुयात्रिकश्चाप- पाणिः प्रमादापनोदनार्थमस्मद्ध्राता प्रेषितः । कौसल्या—जाद भादावि दे अत्थि । जात भ्रातापि तेऽस्ति । लवः—अस्त्यार्यः कुशो नाम । कौसल्या—जेट्ठोत्ति भणिदं होदि । ज्येष्ठ इति भणितं भवति । लवः—एवमेतत् । प्रसवक्रमेण स किल ज्यायान् । जनकः—किं यमजावायुष्मन्तौ । लवः—अथ किम् । जनकः—वत्स कथय कथाप्रबन्धस्य कीदृशः पर्यन्तः । लवः—अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसं- भवां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनि- वृत्त इति । कौसल्या—हा वच्छे मुद्धचन्दमुहि को दाणिं दे शरीरकुसुमस्स झत्ति देव्वदुव्विलासपरीणामो एकलिभाए णिवडिदो । हा वत्से मुग्धचन्द्रमुखि क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । टोर कमलगर्भपक्ष्मल शिशिरशौचेऽपि तादृश इति शेषः । तं एकदेशम् । आतङ्कः पीडा । तस्मिन् भरताचार्ये । आस्था अभिनिवेशः प्रीतिर्वा । अभीक्ष्णं दृश्यमानानामिति ध्वनिः । आधमं उद्दिश्येति शेषः । आधमं प्रतीति वा पाठः । अनुयात्रिकः अनुप्रस्थानदक्षः । भ्राताऽपि शेषि । आर्यपदस्वार- स्यादाह—जेट्ठ इति । ज्येष्ठ इति गणितं ( भणितं २) भवति । 'ज्येष्ठस्तु मासभे- देच पूर्वजे च' इति नग्दी । मासभेदे तु ज्येष्ठ एवेति केचित् । तन्न, त्रिण्येष्टमिलन विरोधात् । अत एव ज्येष्ठो ज्येष्टश्चेति द्विरूपेभिधानात् । मासभेदे ज्येष्ठोऽपीति नन्दार्जुनो व्याचखारेति दिक् ॥ 'परिपाटिरनुक्रम' इत्यमरः । प्रसवक्रमात्, 'अनुजः पूर्वजो ज्येष्ठस्तनुजो यमलौ यमौ' इति वस्तुनिर्णयः । कथायाः चरितस्य । प्रबन्धः गु(म्फ)नम् । 'प्रबन्धो गुम्फने ग्रन्थे' इति शब्दमाला । पर्यन्तः पूर्तिः ॥ हा वत्से मुग्धचन्द्रमुखि क इदानीं ते कुसुमभूतस्य शरी- रस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः । 'एकलिआ' इति १ 'प्रमादच्छेदनार्थम्' न; 'अप्रमादार्थम्' घ. २ 'प्रशस्त-' न. ३ 'क्रियान्' न. ४ 'पौरपवादोद्विग्नेन' य-प.