भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 122, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 122

४-२५] उत्तररामचरितं १०३ जनकः—हा वत्से नूनं त्वया परिभवं च धैमं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य । क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽस्मि ॥ २३ ॥ लवः—( अरुन्धतीं प्रति ) आर्ये कावेतौ । अरुन्धती—इयं कौशल्या । अयं च जनकः । लवः—( सबहुमानखेदकौतुकं पश्यति ।) जनकः—अहो निर्दयता दुरात्मनां पौराणाम् । अहो रामस्य राज्ञः क्षिप्रकारिता । एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पद्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा । कौसल्या—( सभयकम्पम् ) भयवदि परित्ताहि परित्ताहि । पसादेहि कुविदं राएसिम् । भगवति परित्रायस्व परित्रायस्व । प्रसादय कुपितं रा- जर्षिम् । लवः—ऐतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् । अरुन्धती—राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २५ ॥ देशीयशब्दः । 'एकती' इति महाराष्ट्राः । नूनं त्वया परिभवमिति ॥ २२ ॥ परिभवं परित्यागरूपतिरस्कारम् । क्रव्याद्गणेषु मांसाशनसङ्घेषु । भयमुपस्थितम् । कालेति ध्वनिः ॥ २३ ॥ कथाप्रविष्टविति बहुमानः । कथं दीनाविति खेदः । देवात्पश्यामीति कौतुकम् । क्षिप्रमिति अविचार्य क्षिप्रकारित्वेति यावत् ॥ एतद्वैशसवज्रघोरमिति ॥ २४ ॥ वैशसमेव वज्रं तस्य । घोरपतनं दारुणपातः । 'अपिये द्रोहे त्वपवादे च वैशसम्' इति सारस्वतः । शश्वत् मुहु । उत्पद्यतः उत्प्रेक्षमाणस्य । विचार- यत इति यावत् । मम क्रोधस्य चापेन शापेन वा करणेन झटिति ज्वलितुमवसरः समयः ॥ भगवति परित्रायस्व । प्रसादय कुपितं राज- र्षिम् ॥ एतद्धि परिभूतानामिति ॥ २५ ॥ एतत् प्रदानमित्यर्थः । अपत्यं पुत्रः । यथा दशरथस्य सीता दुहिता तथा तव रामः पुत्र १ 'भव' ब-घ. २ 'स्मृतोऽहम्' न. ३ 'दुर्मर्यादाना' ब-घ. ४ 'इति- लव०' क-घ-ज ५ एतदरुन्धतीवाक्यं व-घ-पुस्तके.