भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 120, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 120

४-२२ ] उत्तररामचरितं १०३

: लवः—एतावदेव जानामि। (नेपथ्ये) भो भोः सैनिकाः। एष खलु कुमारश्चन्द्रकेतुराज्ञापयति न केनचिदाश्रमपर्यन्तभूमय आक्रमितव्या इति। अरुन्धतीजनकौ—अये मेध्याश्वरक्षाप्रसङ्गादुपगतो वत्सश्चन्द्रकेतुरप्य द्रष्टव्य इत्यहो सुदिवसः। कौसल्या—वच्छलक्खणस्स पुत्तओ आणवेदित्ति अमिविन्दुसुन्दराई अक्खराई सुणीअन्ति। वत्स लक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते। लवः—आर्य क एष चन्द्रकेतुर्नाम। जनकः—जानासि रामलक्ष्मणौ दाशरथी। लवः—एतावेव रामायणकथापुरुषौ। जनकः—अथ किम्। लवः—तत्कथं न जानामि। जनकः—तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः। लवः—ऊर्मिलायाः पुनस्तर्हि मैथिलस्य राजर्षेर्दौहित्रः। अरुन्धती—(विहस्य।) आविष्कृतं कथाप्रावीण्यं वत्सेन। जनकः—(विचिन्त्य।) यदि त्वमीदृशः कथायामभिज्ञस्तर्हि तावद्ब्रूह्याचक्ष्वैषां दशरथात्मजानां कियन्ति किंनामधेयान्यपत्यानि केषु केषु दारेषु प्रसूतानीति। लवः—नायं कथाप्रविभागोऽस्माभिरन्येन वा श्रुतपूर्वः। जनकः—किं न प्रणीत एव कविना। लवः—प्रणीतो न प्रकाशितः। तस्यैव कोऽप्येकदेशः सन्दर्भान्तरेण रसवानभिनेयार्थः कृतः। तं च स्वहस्तलिखितं मुनिर्भगवान्व्यसृजद्भगवतो भरतस्य मुनेस्तौर्यत्रिकसूत्रकारस्य। जनकः—किमर्थम्। लवः—स किल भगवांस्तमप्सरोभिः प्रयोजयिष्यतीति। जनकः—सर्वमिदमाकूतेतरमस्माकम्।

१ 'प्रबन्धान्तरेण' न. २ 'आहूतकरम्' घ-घ.