उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 119, कुल 439 में से
संदर्भ में पढ़ेंरमकणलगब्भगब्भिलो सरीरप्फंसो वि तारिसो जेव्व वच्छस्स । जाद पेक्खामि दाव दे मुहपुण्डरीअं । ( चिबुकमुन्नमय्य निध्याय सबाष्पाकृतम् । ) राएसि किं ण पेक्खसि णिउणं णिरूवव्वन्तं से मुहं वच्छाए बहुए मुहचन्देण संव- ददि जेव्व । जात इतोऽपि तावदेहि । अहो न केवलं दरविकसन्नीलोत्पलश्या- मलोज्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायकण्ठकलहंसनिनाददीर्घदीर्घेण स्वरेण च रामभद्रमनुहरति । ननु कठोरकमलगर्भपक्ष्मलः शरीरस्पर्शोऽपि तादृश एव वत्सस्य । जात प्रेक्षे तावत्ते मुखपुण्डरीकम् । राजर्षे किं न प्रेक्षसे निपुणं निरूप्यमाणमस्य मुखं वत्साया वध्वा मुखचन्द्रेण संवदतेव । जनकः—पश्यामि सखि पश्यामि । कौसल्या—अम्महे उम्मत्तीभूतं विअ मे हिअअं किंपि एदोमुहं विल- वदि । अहो उन्मत्तीभूतमिव मे हृदयं किमपीतोमुखं विलपति । जनकः— वत्सायाश्च रघूद्वहस्य च शिखावसिञ्चन्निविव्यज्यते सम्पूर्णप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । १ सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा दैवं किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२ ॥ कौसल्या—जाद अत्थि दे मादा सुमरास वा ताइं । जात अस्ति ते माता स्मरसि वा तातम् । लवः—नहि नहि । कौसल्या—तदो कस्स तुमं । ततः कस्य त्वम् । लवः—भगवतो वाल्मीकेः । कौसल्या—अयि जाद कहिदव्वं कहेहि । अयि जात कथितव्यं कथय । क्रमाभिजाल्यानि ये.येषां च परस्परामित्यर्थ । क्रमः परम्परा । 'आभिजात्यं तु वंशो य' इति लिङ्गानुशासनम् । प्रकारः विध्यन्तरम् । 'पर्यायोऽवसरे क्रम.' इत्यमर ॥ जात विरे जीव । जात इतोऽपि तावदेहि । सम्महे न केवलं दरविकसन्नीलोत्पलश्यामलोञ्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायक- ण्ठकलहंसपोषेण धर्षराजुनादनिर्भरदीर्घतरेग स्वरेण रामभद्रमनुहरति । क- १ 'संस्तुतिः प्रति' न. २ 'देवि' न.