उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 118, कुल 439 में से
संदर्भ में पढ़ेंकौसल्या—( निरूप्य ।) कहं सविणअणिसामिदगिट्ठिवअणो णिसेज्जि- दद्दसिदारओ इतोऽहिमुहं पत्थरिदो जेव्व सो वच्छो। [कथं सविनयनिशामित- गृष्टिवचनो निर्गजिताशेषद्वारक इतोभिमुखं प्रवृत्त एव स वत्सः।] जनकः—( चिरं निर्वण्र्य्य ।) भोः किमप्येतत् । महिम्नामेतस्मिन्विनय शिशुतामौग्धममृणो विदग्धैर्निर्ग्राह्यो न पुनरविद्ग्धैरतिशयः । मनो मे संमोहस्थिरमपि हरत्येष बलया- दयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥ २१ ॥ लवः—( प्रविश्य ।) अज्ञातानामस्मद्विधैर्वाग्वन्द्यानपि न. स्वतः कथमभिवादयिष्ये । ( विमृश्य ।) अयं पुनरविरुद्धः प्रकार इति वृद्धेभ्यः श्रूयते । ( सविनयमुपसृत्य ।) एष वो लवस्य शिरसा प्रणामपर्यायः । अरुन्धतीजनकौ—कल्याणिनू आयुष्माम्भूया । कौसल्या—जाद चिरं जीव । जात चिरं जीव । अरुन्धती—एहि वत्स । ( त्सवमुत्सङ्गे गृहीत्वात्मगतम् ।) दिष्ट्या न केवलमुत्सङ्गाभिराम्मनोरथोऽपि मे सम्पूर्णः । कौसल्या—जाद इदो वि दाव एहि । ( उत्सङ्गे गृहीत्वा । ) अम्महे ण केवलं दुरभिभवन्तनीलुप्पलसामलुणालेन देहबन्धेन कलविदरविन्दकेसर- कसायकण्ठकलहंसणिणाददीहरदीहरेण सरेण अ रामभद्दं अणुहरदि। [अं बडो- नि स्मृतौ ॥ २० ॥ प्रवयसः वृद्धा । किमप्यै । एवं भनित आगमि- ष्यतीति । वृत्तं चारित्रम् । कथं सविनयविशामितरुगृष्टिवचन विसर्जिताशेष- रिगरदारकः इतोमुखं प्रवृत्त एव वत्स । दारकाः पटव । प्रवृत्तः प्र- वर्त्तितः । निर्वण्र्य दृष्ट्वा । भो इति मनः प्रति सवोधनम् ॥ महिम्नामेत- स्मिन्निति ॥ २१ ॥ एतस्मिन् वटे ( यटौ ? ) शिशिरे सुराकर इति यावत् । प्रौग्ध्येन सौन्दर्येण । मसृणः स्निग्धः । विदग्धैः चतुरैः । नितरां ग्राह्यः निर्माह्यः देय । अविदग्धैः अचतुरैः, न वेद्य इत्यर्थ । महिम्नामति- शयः । किं तत ग्राह—मन इति कर्म । 'प्रेमावेशे च समोहः' इति ध- र्मि । अयोधातुं लोहधातुम् । परिलघुः सूक्ष्म । शकलः खण्डः । 'यद्वत्सदृशया तथा' इति निशण्डशेषः । 'अयस्कान्तमणिशलारिरेव लोह- धातुम्' इति शाण्डपरिवचनच्छायानुसारणमेतत् ॥ २१ ॥ अज्ञातानि नाम- १ 'निस्सज्जिदासेसदिसराओ' ग. २ 'शिशिर.' न. ३ 'संमोह स्थिर' घ-घ.