उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 132, कुल 439 में से
संदर्भ में पढ़ें९-१४ ] उत्तररामचरितं ११३ सुमन्त्रः—एतस्मिन्कस्मादुभयसैन्ययोधः प्रशाम्यति । लवः—पश्याभ्येनमधुना प्रगल्भम् । सुमन्त्रः—( ससंभ्रमम् । ) वत्स मन्ये कुमारकेणानेन जृम्भकास्त्रमाम- न्त्रितमिति । चन्द्रकेतुः—अत्र कः सन्देहः । व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्व्रस्तमुक्तं हिनस्ति । अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यै जृम्भते जृम्भकास्त्रम् ॥ १३ ॥ आश्चर्यमाश्चर्यम् । पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः । कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरवस्तीर्यते मीलन्मेघतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥ सुमन्त्रः—कुतः पुनरस्य जृम्भकास्त्राणामागमः स्यात् । चन्द्रकेतुः—भगवतः प्राचेतसादिति मन्यामहे । सुमन्त्रः—तात नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः । सम (भ ?)रेण तुल्यबुद्धा ॥ १२ ॥ उन्मादः चित्तविभ्रमः । कालहरणं विलम्बः । तस्य प्रतिषेधः निषेधः । अकस्मात् अहेतोः । सहसा वा । एनं चन्द्रकेतुम् । परिहामोचितिमम् । तदेव स्पष्टयति—व्यतिकर इव भीम इति ॥ १३ ॥ भीमः घोरः तमसोऽयं तामसः । विद्युत अयं वैद्युतः । व्यतिकरः सवन्धः । प्रणिहितं प्रणिधानगतं विमर्शकानिष्ठमपीति यावत् । चक्षुः कर्म । ग्रस्तमुक्तं तामसो व्यतिकरः ग्रस्तं सत् खने(?)मुक्त- मत्र शेषः । वैद्युतः मुक्तं सत् हिनस्ति चेति बोध्यम् । अस्पन्दं निश्चलम् । आस्ते तस्मादिति शेषः ॥ १३ ॥ पातालोदरेति ॥ १४ ॥ पातालोदरे श्यामतातिशयद्योतकम् । जृम्भकैः जृम्भकास्त्रैः । पूजाया बहुत्वम् । 'रीतिः स्त्रियामारकूटं' इति, 'कडारः कपिशः' इति चामरः । आरकूटं 'पित्तल' इति महाराष्ट्राः । ज्योतिर्वत् ज्वलन्ती दीप्तिः येषां तानि । कल्पः प्रलयः तस्य आक्षेपे आग्रेहे । दारुणमरुता व्यस्तैः भिन्नैः । तडिद्भिः कडा- राणि कुहराणि बिलानि येषां ते । कूटैः शिखरैरिव । अवस्तीर्यते १ 'मनेन' क. २ 'अभिनस्तीर्यते' ग; 'अवास्तीर्यते' घ.