भारतकोश
संग्रह पर लौटें

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

९-१४ ] उत्तररामचरितं ११३ सुमन्त्रः—एतस्मिन्कस्मादुभयसैन्ययोधः प्रशाम्यति । लवः—पश्याभ्येनमधुना प्रगल्भम् । सुमन्त्रः—( ससंभ्रमम् । ) वत्स मन्ये कुमारकेणानेन जृम्भकास्त्रमाम- न्त्रितमिति । चन्द्रकेतुः—अत्र कः सन्देहः । व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्व्रस्तमुक्तं हिनस्ति । अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यै जृम्भते जृम्भकास्त्रम् ॥ १३ ॥ आश्चर्यमाश्चर्यम् । पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः । कल्पाक्षेपकठोरभैरवमरुद्व्यस्तैरवस्तीर्यते मीलन्मेघतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥ सुमन्त्रः—कुतः पुनरस्य जृम्भकास्त्राणामागमः स्यात् । चन्द्रकेतुः—भगवतः प्राचेतसादिति मन्यामहे । सुमन्त्रः—तात नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः । सम (भ ?)रेण तुल्यबुद्धा ॥ १२ ॥ उन्मादः चित्तविभ्रमः । कालहरणं विलम्बः । तस्य प्रतिषेधः निषेधः । अकस्मात् अहेतोः । सहसा वा । एनं चन्द्रकेतुम् । परिहामोचितिमम् । तदेव स्पष्टयति—व्यतिकर इव भीम इति ॥ १३ ॥ भीमः घोरः तमसोऽयं तामसः । विद्युत अयं वैद्युतः । व्यतिकरः सवन्धः । प्रणिहितं प्रणिधानगतं विमर्शकानिष्ठमपीति यावत् । चक्षुः कर्म । ग्रस्तमुक्तं तामसो व्यतिकरः ग्रस्तं सत् खने(?)मुक्त- मत्र शेषः । वैद्युतः मुक्तं सत् हिनस्ति चेति बोध्यम् । अस्पन्दं निश्चलम् । आस्ते तस्मादिति शेषः ॥ १३ ॥ पातालोदरेति ॥ १४ ॥ पातालोदरे श्यामतातिशयद्योतकम् । जृम्भकैः जृम्भकास्त्रैः । पूजाया बहुत्वम् । 'रीतिः स्त्रियामारकूटं' इति, 'कडारः कपिशः' इति चामरः । आरकूटं 'पित्तल' इति महाराष्ट्राः । ज्योतिर्वत् ज्वलन्ती दीप्तिः येषां तानि । कल्पः प्रलयः तस्य आक्षेपे आग्रेहे । दारुणमरुता व्यस्तैः भिन्नैः । तडिद्भिः कडा- राणि कुहराणि बिलानि येषां ते । कूटैः शिखरैरिव । अवस्तीर्यते १ 'मनेन' क. २ 'अभिनस्तीर्यते' ग; 'अवास्तीर्यते' घ.

११४ उत्तररामचरितं [ ५-१६ कृशाश्वतनया होते कृशाश्वात्कौशिकं गताः । अथ तत्संप्रदायेन रामभद्रे स्थिता अपि ॥ १५ ॥ चन्द्रकेतुः—अपरेऽपि प्रैक्ष्यमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः प- श्यन्ति । सुमन्त्रः—वत्स सावधानो भव । परागतस्ते प्रतिवीरः । कुमारौ—( अन्योन्यं प्रति । ) अहो प्रियदर्शनः कुमारः । ( सस्नेहा- नुरागं निर्वर्ण्य । ) यदृच्छासंवादः किमु किमु गुणानामतिशयः पुराणो वा जन्मान्तरनिबिडवैद्धः परिचयः । निजो वा सम्बन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥ १६ ॥ सुमन्त्रः—भूयसा जीविधर्म एष यद्रसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तमप्रतिसंख्येयमनिबन्धनं प्रेमाणमाममनन्ति । आसीर्यते ॥ १४ ॥ आगमः प्राप्तिः । एते जृम्भकादयोऽप्यविशेषाः ॥ कृशाश्वतनया इति ॥ १५ ॥ कृशाश्वस्य ऋषेः । तस्मात् कौशिकात् । संप्रदायेन शिष्यक्रमेण । एकपदमेतत् ॥ १५ ॥ परं भृशम् । उपेति वर्ध- मानव्याख्यार्थे(२) 'प्रकाशोऽतिप्रसिद्धेऽपि' इत्यमरः । 'ऋषिर्योगी च मन्त्रदृक्' इति लिङ्गानुशासनम् । स्वयं सर्वे पश्यन्ति । एतेन कृशाश्वकौशिकादिवत् प्रायेणसादोनामपि अस्त्रप्रवर्तरूपप्रकृतिकरण भवतीत्यवधेयम् । ते तुभ्यम् । कुमारौ लवचन्द्रकेतू ॥ यदृच्छासंवाद इति ॥ १६ ॥ यदृच्छया स्वैरम् संवादः संलाप किमु । निजः नित्य परिचयो वेति पूर्वेण योज्यम् । अवि- दितः सबन्ध किमु । कुत एवमत आह—ममेति । अवधानं अनन्यरति- त्वम्, कर्म । हृदयं परवशीभवतीति भावः ॥ १६ ॥ 'द्वये रसः' इत्यमरः । प्रीतिरिति यत् एष धर्म इत्यन्वय । यत्र प्रीतिविषये । लौकिकानां वेदि- कमार्गानभिज्ञानाम् । उपचारः आदरमात्रमित्यर्थ ॥ अथ वैदिकमर्थ विश्रृ- णोति—तारेति । तारेव तारा । 'तारकाक्ष्ण कनीनिका' इति 'मैत्रं मैत्री च सख्यं च' इत्यमररत्नकारौ । चक्षुषोः रागः । न राग उभयत्र दर्शनं लक्ष्यते । तत् प्रसिद्धम् । अप्रतिसन्धेयं अवचनीयम् । निबन्धनं शास्त्रम् । १ 'भृशाश्व' न. २ 'परमोपचीदमान' घ-य. ३ '०गत प्रवीर 'क-घ-य. ४ 'किमु गुणगणानाम्' न ५ 'बन्ध' घ-घ. ६ 'भूयसा जीवितानामेष धर्मे एष यत्र सरसमयी' ग. ७ 'स्वाहारः' य. ८ 'तदमतिसंख्येयनिबन्धन प्रमाणम्' न

५-२० ] उत्तररामचरितं ११५ अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥ कुमारौ—( अन्योन्यमुरिक्ष । ) एतस्मिन्मसृणितराजपट्टकान्ते - मोक्तव्याः कथमिव सायकाः शरीरे । यत्प्राप्तौ मम परिरम्भणामिलाषा- दुन्मीलत्पुलककदम्बमङ्कमास्ते ॥ १८ ॥ किं त्वाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः । किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥ सुमन्त्रः—( लवं निर्वर्ण्य साश्रगात्मगतम् । ) हृदय किमन्यथा परि- प्लवसे । मनोरथस्य यद्वीजं तद्देवेनाडितो हतम् । लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥ २० ॥ चन्द्रकेतुः—अवतराम्यार्य सुमन्त्र स्यन्दनात् । प्रमाणमामनन्ति । वैदिका इति शेषः । 'प्रतिसन्धानमि(म?)निबन्धनं द्वे बन्धनार्थके' इति रद्रः ॥ अहेतुः पक्षपात इति ॥ १७ ॥ पक्षपातः ममता । मैथिलीपक्षपातेनेत्यक्षरसारूपादात्तधर्मा । प्रतिक्रिया आक्षेपः स पक्षपात प्रेमस्वरूपम् । सूत्रं कर्तृ । भूतानि प्राणि कर्म । अन्तः आत्मनि सीव्यति स्प्यूतान् करोतीत्यर्थ ॥ १७ ॥ एतस्मिन्मसृणितेति ॥ १८ ॥ मसृणितं च तत् राजपट्टाय साम्राज्यीय कान्तं मनोशं तस्मिन् । यस्य शरीरम्ब । प्राप्तौ सङ्गे । उन्मीलत्पुलकानां कदम्ब्यं समूह यस्मिन् । उन्मीलन्ति पुलका एव कदम्बानि नीपपुष्पाणि यस्मिन्निति वा । 'अङ्गं वपु- र्व्यवयवे' इति रत्नाकरः ॥ १८ ॥ ननु यथेच्छमालिङ्गयता, नास्तु शस्त्रयुद्धम्, अस्तु वा बाहुयुद्धम्, इत्याशङ्क्याह किन्त्वाक्रान्तेति ॥ १९ ॥ किन्तु आक्रान्ताः अभिभूता कठोरतेजसः शूराः येन तस्मिन् लव इति यावत् । यस्य शक्षस यस्य मनेति या शेष । ईदृश इति षष्ठीप्रथमैकवचनम् । 'सुडे- तशपथाचारसिद्धान्ता समया' इति धनञ्जयः ॥ १९ ॥ परिप्लवसे चञ्चति ॥ मनोरथस्य यदिति ॥ २० ॥ बीजं सीतेत्यर्थ । प्रसवः फलादिः ॥ २० ॥ १ 'अन्तर्भूतानि' क-घ-च. २ 'परिरम्भणे' घ-घ-च. ३ 'हतम्' घ. ४ 'प्रसूनस्यागम.' ब-घ.

११६ उत्तररामचरितं [ ५-२४ ] सुमन्त्र —तत्कस्य हेतोः । चन्द्रकेतु —एकेतस्तावदय वीरपुरुष पूजितो भवति । अपि च स्व- त्वार्थं क्षात्रधर्मं समनुगतो भवति । न रथिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते । सुमन्त्र —( स्वगतम् । ) आः कष्टा दशामनुप्रपन्नोऽस्मि । कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु । कथं वाभ्यनुजानातु साहसरैकरसां क्रियाम् ॥ २१ ॥ चन्द्रकेतु —यदा तातमिश्रा अपि पितुः प्रियसखधर्मसंशयेष्वार्यमेव पृच्छन्ति तत्किमार्यो विमृशति । सुमन्त्र —आयुष्मन्, एव यथार्थमभिमन्यसे । एष साङ्ग्रामिको न्याय एष धर्मः सनातनः । इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥ चन्द्रकेतु —अप्रनिरूपं वचनमार्यस्य । इतिहास पुराणं च धर्मप्रवचनानि च । भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥ सुमन्त्र —( सस्नेहास्रं परिष्वज्य ) जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्धैत्सस्य वत्स कति नाम दिनान्यमूनि । तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥ पादाभ्यां चारः संचारो यस्य ॥ कथ हीदमनुष्ठानमिति ॥ २१ ॥ अनुष्ठानं आचरणम् । मादृशः अनभिज्ञः इति यावत् । प्रवीते समानयु- द्धस्य न्याय्यत्वादिति भावः । रणमुखे यानादवतरणमेव साहसमिति भावः । अनुष्ठान क्रियामिति च ध्वनी । अत्र द्विारावजागलस्तनी ॥ २१ ॥ मिश्रा इत्यत्र पादा इति च पाठः । रामादयः इत्यर्थः । पितुः दशरथस्य । विमृ- शति विचारयति । अनुरूध्यसे अनुवर्तसे ॥ एष साङ्ग्रामिक इति ॥ २२ ॥ सनातनः नित्यः । 'चरितमपि चारित्रम्' इति द्विरूपः ॥ २२ ॥ अप्रतिरूपं असमानम् ॥ इतिहास पुराणमिति ॥ २३ ॥ इतिहास पुरातनम् ॥ २३ ॥ जातस्य ते पितुरिति ॥ २४ ॥ तस्य लक्ष्मणस्य । १ 'एकस्तावद्' ग, 'यतस्तावद्' घ-च २ 'परिभाषित' न; 'सम्यगनुगतः' घ; 'अनुगृहीत' प ३ 'कथ हीद' न ४ 'प्रतिरूप' घ-प ५ 'विजेतुः' घ-च ६ 'कुल' प-प

५-२६ ] उत्तररामचरितं ११७ चन्द्रकेतुः—( सरथम् ) अप्रतिष्ठे रघून्ज्येष्ठे का प्रतिष्ठा कुलस्य नः । इति दुःखेन तप्यन्ते अद्यो नः पितरोऽपरे ॥ २५ ॥ सुमन्त्रः—अहह हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि । लवः—हन्त मिश्रीकृतो रसक्रमो वर्तते । यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम कलहकामः पुनरयम् । रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- र्धृतप्रेमा बाहुर्विकचविकरालोल्बणरसः ॥ २६ ॥ चन्द्रकेतुः—(अवतरणं रूपयन् ।) आर्य सौमित्रिश्चन्द्रकेतुरभिवादयते । सुमन्त्रः—अहितस्यैव पराजयाय महानादिवराहः कल्पताम् । अपि च । अपत्यं चन्द्रकेतु । प्रतिष्ठां कीर्त्तिम् । गतमिति ध्वनि ॥ २४ ॥ अप्रतिष्ठे कुलज्येष्ठे इति ॥ २५ ॥ रघवः दशरथाय ज्येष्ठा यस्य । 'ज्येष्ठोऽतिशय.' इत्यमर । रघुभ्य भरतलक्ष्मणशत्रुघ्नेभ्य इति वाऽर्थ । रघूश्रेष्ठे इति च पाठ । अप्रतिष्ठे अपवादिनि भावि । तुर्यपादे ध्वनि ॥ २५ ॥ रसयो शान्त- वीरयो । क्रमो रीति । शान्तिं वर्णयति-यथेन्दावानन्दमिति ॥ २६ ॥ समुपोढे उदिते । अस्मिन् चन्द्रकेतौ । वीररस वर्णयति-कलहकाम इति । अयमसौ । रणत्कारः शब्दानुकार । तेन क्रूरं क्वणितं शब्द यस्य तादृग्गुण मौर्वी यस्य घण्टामाघनेन गुञ्जद् गुरु बलिष्ठु यत् धनुः गुणं च तदनु । तस्मिन् धृतप्रेमा । विकचाः स्फुटा विकरालाः विशेषेण भय- ङ्करा व्रणाः व्याघातसमयी मुखे तले यस्य । 'मार्गगभ्यस्तयो सन्धिरि- शेयतलयोर्मुखम्' इति त्रिकाण्डशासनम् । बाहु स्फुरतीति शेष ॥ २६ ॥ अहितस्य शत्रो एवकारेण लवो व्यावत्र्त्यते । तस्याहितत्वाभावादिति दैव- विज्ञं बोध्यम् । पराजयं भङ्गम् । महान् पूज्य । आदिवराहः वराहा- वतारो विष्णु ॥ 'दाशमर्काविट्ठयं शकारसत्यं रामाहुरोमेतिम् । पराजयमनि- १ 'कुलज्येष्ठे' क-घ-न. २ 'मिश्रीकृतक्रमो रसो' न, 'रम.' घ. ३ 'विक- रालव्रणमुख.' न-टी. ४ 'रैश्यारु' न. ५ अस्य स्थाने 'अमिस पूज्यमूर्द्धन्वि ककुत्स्थस्येव ते महः । श्रेयसे शाश्वतो देवो वराह. परिकल्पताम्' ॥ २७ ॥ इति क-घ-च-पुस्तकेषु.

११८ उत्तररामचरितं [ ५-२७ देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पिता त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि । ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥ लवः—कुमार अति हि नाम शोभसे रथस्थ एव । कृतं कृतमत्या- दरेण । चन्द्रकेतुः—तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु । लवः—आर्य प्रत्यारोपय रथोपरि राजपुत्रम् । सुमन्त्रः—त्वमप्यनुरुध्यस्व चन्द्रकेतोर्वचनम् । लवः—को विचारः स्वेषूपकरणेषु । किं त्वरण्यसदो वयमनभ्यस्तरथ- चर्याः । सुमन्त्रः—जानासि वत्स दर्पसौजन्ययोर्यथोचितमाचरितुम् । यदि पुन- स्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदा तस्य स्नेहेन हृदयमभिष्य- न्देत । लवः—आर्य सुजनः स राजर्षिः श्रूयते । ( सलज्जमिव । ) त्राणा प्रार्थ्यदादिकाळत ॥' इति स्मरणात् ॥ देवस्त्वां सवितेति ॥ २७ ॥ धिनोति प्रीणयतीति माठरः । मैत्रावरुणः वसिष्ठ । ते तव गुरूणां पित्रादीनाम् । गुरुः पुरोहित । 'अथागस्त्यवसिष्ठयोमैत्रावरुणिमैत्रावरुणः' इति वैजयन्ती । 'मङ्गलेष्वथो अथ' इति धरणि । इन्द्राविष्णोरिदं ऐन्द्रावै- ष्णवम् । अग्निमरुतोरिदं आग्निमारुतम् । सुपर्णस्येदं सौपर्णम् । ओजः तेज । ते तुभ्यम् । अस्तु । इन्द्राविष्णू इत्यादिश्रुतिसिद्धा । ज्याघोष एव मन्त्रः । जयं च देयादेव । रामलक्ष्मणेत्यनेन लवचन्द्रकेत्वोरुभयोरपि जय इत्यर्थात् सिद्धम् । अत्र त्वामिति एन(१)ते चैकं पुनरुक्तम् ॥ २७ ॥ अतिशो- भसे इति वक्तव्यमिति पृथक्कथनं प्रमाद इति कश्चित् । तन्न । 'अत्यन्तमति चैकान्तमशर्थम्' इति शब्दमालायां सात्तण्डेनाभिधानादतीति पृथक् प्रयोगो युज्यते । द्विगर उच्चारणव्रीडेर । नाम प्रसिद्धौ । रथमलमिति ध्वनिः । उपकरणेषु रथादिषु । 'साधनमुपकरणं सामग्री च परिच्छदः' इति रत्नाकर । अरण्ये सीदन्तीति अरण्यसदः । चर्या पदस्थिति । अनुपदे वयमपीत्यात्मनैवात्मा स्तूयत इति सङ्कोचवशात् सलज्जमियेत्युक्तम् ॥ यदि १ 'पतिः' न. २ 'ऐन्द्र वैष्णवम्' ग-घ. ३ 'यथाचरितम्' न.

वयमपि न खल्वेवं प्रायाः ऋतुप्रैतिघातिनः क इह न गुणैस्तं राजानं जनो बहु मन्यते । तदपि खलु मे स व्याहारस्तुरङ्गमस्रक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाकरोत् ॥ २८ ॥ चन्द्रकेतुः-( सस्मितम् ) किं नु भवतस्तातपादोत्कर्षेप्यमर्षः । लवः-अस्त्विहामर्षो मा भूद्वा । एतत्तु पृच्छामि । दान्तं हि राजानं राघवं शृणुमः । स किल नात्मना दृप्यति नास्य प्रजा वा दृप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति । ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः ॥ २९ ॥ इति ह स्म तां निन्दन्ति । अथेतररामिष्टुवन्ति । कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुष्कृतं या हिनस्ति । तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥ च वयमपीति ॥ २८ ॥ वयमपि न खल्वेवमिति काकुः । एवं सुजना एवेत्यर्थः । किं तम् इत्याह-शाम इति । प्रायः बहुधा । ऋतुद्विषतां असुर- राक्षसानाम् । अरिं हन्तारम् । तदपि तथापि । 'सप्तलोकरैकवीरस्य' इति तुरङ्गरक्षिणा व्याहारः उक्तिः । मे विकृतिं विकारम् । अकरोत् खलु ॥ २८ ॥ 'दमं क्लेशसहो दान्तः' इत्यमरः । 'दमशीलो बाह्यः इन्द्रियनिग्रहः' इति भगवान् बोधायनः । अन अस्वरक्षशेगायाम् । तस्य राज्ञस्य मनु- ष्याः ॥ ऋषयो राक्षसीमेति ॥ २९ ॥ सा वाक् योनिः कारणम् । लोकस्य बहुर्जनस्य । 'अलक्ष्मीस्तु निर्ऋतिः' इत्यमरः ॥ २९ ॥ इति ह स्म इति कथनार्थः सम्प्रदायः । 'तु हि च स्म ह वै पूर्ती' इति केशवः । अत एव 'शारमहं ददर्श ह' इति प्राचेतसः ॥ कामं दुग्धे इति ॥ ३० ॥ कामं मनोरथम् । दुग्धे दोग्धि विप्रकर्षति दूरयति । निष्कृदन्ति (१) निस्कृप इति । सूनृतां प्रिताम् वाचं धेनुं कामधेनुम् । आहुः वदन्ति ॥ ३० ॥ -१ 'यदि च वयमप्येवं' न. २ 'ऋतुद्विषतामरी' न, 'ऋतुभति मत्सराः' घ. ३ 'निष्कृति.' न. ४ 'रामागदुग्धे' क-घ-व. ५ 'दुर्हदो निष्प्रदान्ति' न. ६ 'शुद्धो शान्ता' ग.

१२० उत्तररामचरितं [ ५-३३ सुमन्त्रः—परिपूतस्वभावोऽयं यत कुमारः प्राचेतसान्तेवासी । यद्यत्- थैमभिसंपन्नमार्षेण संस्कारेण । लवः—यत्पुनश्चन्द्रकेतो वदसि किं नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष इति तत्पृच्छामि किं व्यवस्थितविषयः क्षत्रधर्म इति । सुमन्त्र.—नैव खलु जानासि देवमैक्ष्वाकं येनैवं वदसि । तद्विरमाति- प्रसङ्गात् । सैनिकानां प्रमाथेन सत्यमोजायितं त्वया । जामदग्न्यस्य दमने नै हि निर्बन्धमर्हसि ॥ ३१ ॥ लवः—( सहासम् । ) आर्य जामदग्न्यस्य दमन स राजेति कोऽयमु- च्चैर्वादः । सिद्धं ह्येतद्वाचि वीर्ये द्विजानां बाहोर्वीर्यं यत्तु तत्क्षत्रियाणाम् । शस्त्रग्राही ब्राह्मणो जामदग्न्य- स्तस्मिन्दांते का स्तुतिस्तस्य राज्ञः ॥ ३२ ॥ चन्द्रकेतुः—( सोन्मादमिव । ) आर्य सुमन्त्र कृतमुत्तरोत्तरेण । कोऽप्येष संप्रति नवः पुरुषावतारो धीरो न यस्य भगवान्भृगुनन्दनोऽपि । पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तातचरितान्यपि यो न वेद ॥ ३३ ॥ लवः—को हि रघुपतेश्चरितं महिमानं च न जानाति । यदि नाम किं- चिदस्ति वक्तव्यम् । अथवा शान्तम् । वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु किं वर्ण्यते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते । अभिसंपन्नं सुसत्कृतं यथा तथा । संस्कारेण संप्रदायेन । व्यनिथ । इति यद्वदसि ॥ सैनिकानां प्रमाथेनेति ॥ ३१ ॥ दमने निग्रहीतारे रामभद्रे तु विषये निर्बन्धं कर्तुम् ॥३१॥ सिद्धं ह्येतदिति ॥३२॥ 'वीर्ये बले प्रभावे च' इत्यमरः । ध्वनिश्च ॥ ३२ ॥ उन्मादः चित्तविभ्रमः । कोऽप्येष संप्रतीति ॥ ३३ ॥ यस्य स्वस्य भृगुनन्दनोऽपि धीरो न । पर्याप्तं यथेप्सितं सप्तभुवनेभ्य अभयदक्षिणा येभ्यः । पुण्यानि पूतानि रम्याणि च तातः राम तस्य चरितानि । यः रव. ॥ ३३ ॥ यदिः संभावनायाम् ॥ वृद्धास्ते इति ॥ ३४ ॥ ते रामपादा वन्द्या इत्यर्थ । तर्के । वर्तते चरित- १ 'परिपूतोऽय' न २ 'अभ्युपपन्नामार्षेण' न; 'अभ्युपपन्नम्' क ३ नातिनिर्वैक्त- मर्हसि'प-घ. ४ 'श्राप्य ' घ. ५ 'दु वर्तते' न. ६ 'दमनेऽप्यखण्डयशस.' घ-प.

५-३५ ] उत्तररामचरितं १२१ यानि त्रीण्यपराङ्मुखान्यपि पदान्यासन्खरायोघने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥ चन्द्रकेतुः—आः, तातापेवादभिन्नमर्याद, अति हि नाम प्रगल्भसे । लवः—अये मय्येव भ्रुकुटीमुखः संवृत्तः । सुमन्त्रः—स्फुरितमनयोः क्रोधेन । तथा हि । चूडामण्डलबन्धनं तरलयत्याकूतजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः । धत्ते कान्तिमखण्डताण्डवितयोर्भङ्गेन वक्रं भ्रुवो श्चन्द्रस्योत्कटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥ कुमारौ—तदितो विमर्दक्षमां भूमिमवतरावः । ( इति निष्क्रान्ताः सर्वे । ) ॥ पञ्चमोऽङ्कः ॥ निति शेषः । दूषणविनाशाय । सुन्दरीणां तादृशा । हि प्रसिद्धौ । सोऽप्यध- ष्टदिति भावः । यानि त्रीणि पदानि पदक्षेपानि । पृष्ठं विमुखं (विमुखं!) मुखं नायं येषां तानि कुतोमुखान्यपि आसन् । तत्र तेषु पदेषु । जनो- ऽभिज्ञः पद्यानिवृत्त इति भावः । अत एव 'अपासर्पद्धनुर्मानम्' इति रामा- यणे । अथवा इन्द्रसूनुनिधने वालिसंहारे, यत् कौशलं तत्र तस्मिन् कौशलेऽपि । जनोऽभिज्ञः । वञ्चनया वालि संहारेति भावः । तत्रेलस्य एकत्र सन्निवेशोऽन्यत्रानुपङ्गः । सुन्दरीति कनडेषु ध्वनिः ॥ ३४ ॥ इति एवम् । भ्रुकुटीमुखं मुखं यस्य स भ्रुकुटीमुखः ॥ क्रोधेनोद्धतौ ॥ ३५ ॥ आवेगेन आगहेन उद्धतं यथा तथा धूतः बन्धित कुन्तलभारः यस्मिन् । वक्रं भ्रुवोर्भङ्गेन कौटिल्येन । उत्कटं मत्तं लाञ्छनं हरिणो यस्य तस्य चन्द्रस्य । उद्भ्रान्तः सभ्रान्त भृङ्गः यस्मिन् । तस्य कमलस्य च कान्तिं धत्ते इत्यनेन वक्रं चन्द्रकमलद्विम्बाकृतेर्धारित्वेन कवेस्तात्पर्यम् । न तु पद्मिना रुष्टिना वा विवक्षितं । अत एव 'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखम्' इति विल्हणः ॥ ३५ ॥ विमर्दक्षमां युद्धयोग्याम् इति दिक् ॥ इति महाराजपद० घनश्यामपण्डितविरचिते उत्तररामचरित भावार्थनाट्यटि- प्पण्ये पञ्चमोऽङ्कः समाप्तः ॥ इति पञ्चमोऽङ्कः ॥ १ 'अप्रातोमयान्त्ये' प, 'अप्रातोऽन्यन्ये' न. २ 'तातापरादिन्' व. ३ 'र(' क-घ-य. ४ 'वेगेनोज्धूतकुकुन्दभारः सबाह्ली' न-टी. ५ 'कान्तिभेदं च वक्रनयनाभङ्गेन निरुद्ब्रुवोः' न.

  • मदन' इत्यीकत्तनाम्रो शशाङ्कता यद्दानमुच्य कवेश्च दर्पणपद्मसन्देहद ॥ उ०

१२२ उत्तररामचरितं [ ६–२ षष्ठोऽङ्कः । ( ततः प्रविशति विमानेनोन्मुखं विद्याधरमिथुनम् । ) विद्याधरः—अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहमच- ण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तचरितानि । तथाहि प्रिये पश्य पश्य । रणत्करणझञ्झणत्क्वशितकिङ्किणीकं धनु- र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् । वितत्य किरतोः शरानविरतं पुनः शूरयो- र्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥ जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि । स्तनयित्नोरिवामन्ददुन्दुभेर्दुन्दुमायितम् ॥ २ ॥ तत्प्रत्यवेतामनयो प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकम- नीयसंहतिरमरतरुतरणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः । अथ रामकुशलबचन्द्रकेतूनां सङ्गापं वर्णयिष्यन् कविः 'रतोपयामयुद्धादि न साक्षादीरये यदि ह (१) इति नाटकलक्षणस्यानश्यकतया विद्याधरमिथुनमुखा- नुवादेन पञ्चमाङ्कावसानोपक्षिप्त चन्द्रकेतुलववक्षस्त्राशस्त्रिसमरषट्मुद्दङ्कयति–तत इति ॥ विक्रान्ते शौर्यस्य ॥ रणत्करणझञ्झणेति ॥ १ ॥ रणत्करणेन , शब्दानुकरणेन सह झञ्झणन्त्यः दीप्यमानाः । क्वणितयुक्ता किङ्किण्यो यस्मिन् । ध्वनद्गुरुगुणया अटन्या कोव्या कृतः दारुणकलकल यस्मिन् । धनुः कर्म । वितत्य प्रसार्य कोटिद्वयकर्षणानुत्तरसन इति भाव । अविरतं अनिशं । मुहुः असकृत् । अभिवर्तते समन्ताद्वर्तते ॥ १ ॥ जृम्भितमिति ॥ २ ॥ 'विचित्र तु विरिधेऽपि च विस्मये' इति हलायुध । द्वयोः मङ्गलाय शुभाय शकुनाय च । स्तनयित्नोर्मेघस्य । अमन्दं महत् । दुन्दुमायितं शब्दानुकार कर्तृ । विजृम्भितं आविर्भूतमित्यर्थ ॥ २ ॥ अनवरतं सन्त- तम् । अविरलं सान्द्र यथा तथा । मिलिता कमलानां कमनीया संहतिः सङ्ग यस्मिन् । निकराणां समूहानाम् । मकरन्दैः रङ्ग्यथासी पुष्पनिपातः कर्तृपदेतत् । निपात इति ध्वनि । तस्मात् किमिति आकाशं १ 'क्षात्र' व-घ. २ 'रितमितानि' न, 'विचरणाति' घ. ३ 'रणत्झणितक- ङ्कण' क-घ-प. ४ 'मतिरतरुउरङ्कलो.' क-घ-प. ५ 'अभिशयेते' व-घ. ६ 'विजृम्भितं च दिव्यस्य' क-घ-व. ७ 'अमन्द्र' क-घ-प. ८ 'हरितु' क-घ-प.

६-४ ] उत्तररामचरितं १२३ विद्याधरी—ता किं णि उज अआण्डविस्फुरिदनडिच्छडाकडारं विअ गम्बरं झत्ति संवुत्तम् । तकिमिति पुनरकाण्डविस्फुरिततडिच्छटाकडारमिवा- म्बरं झटिति सवृत्तम् । विद्याधरः—तर्कि नु खल्वद्य त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः । पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥ आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमक्षाम्याग्नेयम् । यस्यायमचिरात्सम्पातः । संप्रति हि । आश्चर्यम् । अवदग्धकर्बुरितकेतुचामरै- रपयात्येव हि विमानमण्डलैः । द॑हति ध्वजांशुकपट्टावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥ प्रवृत्त एवायमुद्दण्डवज्रखण्डावस्फोटपटुरवस्फुलिङ्गगुरुश्चलत्तुमुललेलि- हानोज्ज्वलज्वालासंभारभैरव भगवानुपर्बुध । प्रचण्डश्चास्य सर्वतः सन्तापः । तन्प्रियामङ्गेनाच्छाद्य सुदूरमपसरामि । ( तथा करोति । ) ताण्डवितोद्धतरत्नटि च्छटाकटारमिव झडिति सवृत्तम् । 'उद्दण्ड' इति बहु- रूपाचको देशीयशब्द । 'इट्ण्ड' इति महाराष्ट्रा । 'छटा परम्परा' इति जय. ॥ त्वष्टृयन्त्रभ्रमीति ॥ ३ ॥ त्वष्टुः विश्वकर्मण । यन्त्रं शाणचक्रम् । तस्य भ्रम्या भ्रमणेन । भ्रान्तस्य मार्तण्डस्य । ज्योतिषा उज्ज्वलः । 'आकाशमक्षियाम्' इति रमम । नीललोहितस्य रुद्रस्य । चक्षुषः नेत्र- रुग्रामे । पुटभेदः । 'मृत्तिशाखपरे पुट ' इति निकाटी । 'मूख' इति महा- राष्ट्रा । तथा च गालपुटे आभेदाश्रमिदं नार्तण्डवत् रुद्रेनेनाग्निवहुस्सहर्मिति भाव ॥ ३ ॥ अप्रतिरूपं जयनिन्द्वम् । अचिरात् झटिति संपातः पतनं यस्य ॥ अवदग्धकर्बुरितेति ॥ ४ ॥ अवदग्धानि कर्बुरितानि उत्ताल- चित्रवर्णानि चामराणि येषु । किंशुकद्रुम इव सविभ्रमः मविलाम । अनेनारण्यं सूचितम् । शिखी अग्नि ॥ ४ ॥ खण्डावस्फोटैः शकलस्यै पटुः । उत्तालाः उद्धता । तुमुललोलाः रणझुल्त्वरा । लेलिहा- नाः ये उज्ज्वलाः तेषा संभारैः भैरवः उपर्बुधः अग्नि । 'उत्तार- १ 'त्वाष्ट्र' क-घ-प. २ 'अप्रतिरूपम्' इति नास्ति क-घ-च-पुस्तकेषु. ३ 'अग्निरुन्द्र' ग. ४ 'र्वरित' न. ५ 'दहती ध्वजांशुकपट्टनेविभाः यद्कुङ्कुमद्युतिविभ्रम शिखा' क-घ-च. ६ 'पटुतर' घ-च, 'पटुतरम्' न. ७ 'अनुशेन' न.

१२४ उत्तररामचरितं [ ६-५ ] विद्याधरी-दिट्ठिआ एदेण विमलमुत्ताफलभसीदलसिणिद्धमसिणेण- सलेन णाहदेहप्फंसेण आणन्दमदमउलिदपुण्णंतलोभणाए अंधोदिदो जेव्व अन्तरिदो मे सदावो । दिष्ट्या एतेन विमलमुक्ताफलकशीतलस्निग्ध- मसृणमांसलेन नाथदेहस्पर्शनानन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित एवान्तरितो मे सन्तापः । विद्याधरः—अयि किमत्र मया कृतम् । अथवा । अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥ विद्याधरी-कह णविरलबिलोलधुण्णन्तविजुल्लदाविलास मडिदेहिं मत्त मोरकण्ठसामलेहिं ओत्थरीअदि णभोङ्गण जह्हरेहिं । कथमविरलविलोलघूर्ण- मानविद्युल्ताविलासमण्डितैर्मत्तमयूरकण्ठश्यामलेरवलीयते नभोङ्गण जलधरैः । विद्याधर -हन्त कुमारलवप्रयुक्तवारुणास्त्रप्रभाव खल्वेष । कथम- विरप्रवृत्तवारिधारासहस्रसम्पाते प्रशान्तमेव पावकास्त्रम् । विद्याधरी-पिअं मे पिअं मे । प्रिय मे प्रिय मे । स्तूदते इति तल्लिहानस्तु भक्षक इति । 'सामग्र्यामपि सम्भार' इति धर नीहारावलीनेदारा ॥ दिष्ट्या एतेन विमलमुक्ताफलशीतलस्निग्धमसृणमासलेन नाथदेहस्पर्शन आनन्दमन्दमुकुलितघूर्णमानलोचनाया अर्धादित एवान्तरितो मे सन्तापः । स्निग्धं चिक्कणं । 'मनोहरे च मसृणम्' इत्यमरमाला । मांसलो निबिडः । आत्मनि उदित जातः । अन्तरित अन्तर्हित एव ॥ अकिं श्विदपि कुर्वाण इति ॥ ५ ॥ किञ्चिन्न भवतीत्यकिञ्चित् । किंचिदपि न कुर्वाण इत्यर्थः । यः प्रियो जनः । सौख्यैः यस्य दुःखान्यपोहति दूरीकरोति, तस्य दुःखमुक्तस्य तत्सौख्यै दुःखहर्ता जन इति भावः । किमपि अनिर्वाच्यम् । द्रव्यं गुणाश्रयो हि । द्रव्यविधयस्त्वासन्निति नपुंस कत्वेन निर्देश ॥ ५ ॥ कथमविरलविलोलघूर्णद्विद्युल्तानिवासमण्डितै मत्त मयूरकण्ठश्यामले अवलीयते नभोऽङ्गन जलधरैः । वात्याऽर्थो 'घोण्त' शब्दो देशीयः । 'घोळन्ता' इति महाराष्ट्राः ॥ प्रियं मे प्रियं मे । अतिमात्रं धनि शय इत्यर्थः । क्षोभेण गम्भीरं यथा तथा प्रसक्तिमधे । नद्धं स्तब्धम् । प्रवासवाचको 'गञ्जगल' शब्दो देशीयः । 'गळाय' इति महाराष्ट्राः । 'सादृशि १ 'अधोदिदो' (अन्तोन्नि) क एतन्नास्ति घ पु-पुस्तकयो २ 'न किञ्चिदपि' क-न

[६-७] उत्तररामचरितं १२५

विद्याधरः—हन्त हन्त भोः सर्वमनिमात्रं दोपाय । यत्प्रलयवाता- वटिक्षोभगम्भीरगुञ्जद्गुहापायमानमेघमेदुरान्धकारनीरन्ध्रनेदमिव एकवारवि- श्रसयनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्ध- सर्वद्वारनारायणोदरनिर्विष्टमिव भूतजातं प्रवेपते । साधु चन्द्रकेतो साधु । स्थाने वायव्यमश्रीमरीरितम् । यत । विद्याकल्पेन मरुता मेघाना भूयसामपि । ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृत. ॥ ६ ॥ विद्याधरी—णाह को दाणि एसो सभमुल्लिसन्तकरणमिदोत्तारिया- अलो दूरदो जेव्व महुरस्निगिद्धवअणपडिसिद्धउद्धव्वावारो एदाण कुमाराणं अन्तरे विमाणवर ओदरावेदि । [नाथ क इदानीमेष ससंभ्रोल्लिसत्करप्रमितो- त्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोः कुमारयो- रन्तरे विमानवरमवतारयति ।] विद्याधरः—( दृष्ट्वा ) एष शम्बूकवधाद्विनिवृत्तो रघुपतिः । शान्तं महापुरुषसङ्गतितं निशम्य तद्घोरवत्समुपसंहृतसं प्रहारः । ग्वद्यु नेदुर ' इत्यन्र । एकवार गङ्कद् । निरुड त्रुटिउ । कन्दरे विवर्तमानं परिणममानम् । निद्रया निरुद्धानि वार्वानि सर्वद्वाराणि शरीरखन्युद्वाराणि यस्य । निविष्टं प्रविष्टमिव यत् तद् भूतजातं प्राणि- मूह प्रवेपते इति अन्वयो योज्य ॥ विद्यारूपेनेति ॥ ६ ॥ विद्यायाः मोक्षसाधनीभूतवेदान्तस्य कल्पेन पारडीचनेन । 'कल्पो योगेष पारडीहने' इति धनञ्जय. । ब्रह्मणि विवर्तानां जाता प्रविलय. ऐक्यमिव । मरुता वायुना मेघानां क्वापि प्रकरण इति शेष । प्रविलयः प्रमार्जनम् । कृतम् ॥ ६ ॥ नाथ क इदानीमेष सप्रनोल्लिखसोत्तरायाञ्चल दुरत एव मधुरस्नि- ग्धवचनप्रतिषिद्धव्यापार कुमारयोरन्तर विमानोरसंवरो नाहरति । वत्त्रघूननं निषेधव्यञ्जक इति जयदनुभवसिद्धम् । अन्तरे मध्ये ध्वनिथ ॥ शान्तं महापुरुषेति ॥ ७ ॥ शान्तं सौम्यम् । पनिथ । महापुरुषस्य रामस्य संगतकं हृदयद्रमम् । सार्थ क इति कश्चित् । तन, 'शिरोऽम्बुवचनेषु दम्' इति केदार । रुसासङ्गतमित्यस्य हृदयङ्गमवचनमित्यर्थ इति कथनहंसोर्वि- तत्वात् । संप्रहारः युद्धम् । शान्तो रूप इति ध्वनि । तुकार पादपूरण १ 'गुञ्जगुमायमान' प, 'गुञ्जगुपायमान' ड. २ 'निवडम्' व-घ. ३ 'विसदते' व. ४ 'शन्द' व-प. ५ 'निविष्टिव' व-घ.

शान्तो लवः प्रणत एव च चन्द्रकेतुः कल्याणमस्तु सुतसङ्गमनेन राज्ञः ॥ ७ ॥ तदितस्तावदेहि । ( इति निष्क्रान्तौ । ) मिश्रविष्कम्भकः ।

( ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च । ) रामः—( पुष्पकादवतरन् । ) दिनकरकुलचन्द्र चन्द्रकेतो सरभसमेहि दृढं परिष्वजस्व । तुहिनशकलशीतलैस्तवाङ्गै- र्शममुपयातु ममापि चित्तदाहः ॥ ८ ॥ ( उत्थाप्य सस्नेहम् परिष्वज्य । ) अपि नाम कुशलं तव दिव्यास्त्रपरदेहस्य । चन्द्रकेतुः —कुशलमत्यद्भुतक्रियस्य प्रियदर्शनस्य लवस्य लाभाभ्युद- येन । तद्विज्ञापयामि मामिव विशेषेण वा मत्त प्रियेण चक्षुषा पश्यत्वमुं वीरंमनराक्षसाहस तात । रामः—( लवं निरूप्य । ) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं वयसो धरस्य । धातुं लोकानिव परिणतः कायवानक्षवेद्यः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै । सामर्थ्यानामिव समुदयः सञ्चयो वा गुणाना- माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥ ९ ॥ लवः—( स्वगतम् । ) अहो पुण्यानुभावदर्शनोऽयं महापुरुषः । इति केचित् । चन्द्रकेतुरित्यन्ये । स चन्द्रकेतुरिति वा पाठः । सुतयोः सङ्गमनेन प्राप्त्या । सङ्गमने इति सप्तमीलाभात् राज्ञ इति ध्वनिः ॥ ७ ॥ मिश्रविष्कम्भ इति उदात्तनीचपात्रोक्तौ मिश्रविष्कम्भ' इति लक्षणात् । दिनकरकुलेति ॥ ८ ॥ 'दिष्ट्यार्थे चन्द्रकछाया' इति मेदिनी । दाहः तापः ॥ ८ ॥ अन्तरालं मध्यं ॥ धातुं लोकानिवेति ॥ ९ ॥ धर्मः क्षात्रो य धर्म आचार एव कोशः प्रदीपः । समुदयः संचयश्च राद्धः । व्य- निधिः । जगतः पुण्यनिर्माणानां सुकृतविरचनानाम् । राशिः पुञ्जः ॥ ९ ॥ पुण्यस्य अनुभावः प्रभावः यस्मात् तादृशं दर्शनं आलोकनं यस्य । पुण्या- १ 'संनिकतेन' घ. २ 'महावीरप्रकाण्डम्' क-घ-प.

तृतीय अङ्क: छाया (तमसा, सीता छाया व राम मूर्छा)

॰१२] उत्तररामचरितं १२७ आश्वासस्नेहभक्तीनामेकमायतनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥ १० ॥ आश्चर्यम् । विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तद्दौर्जन्यं क्वापि व्रजति विनयः प्रह्वयति माम् । झटित्यस्मिन्दृष्टे किमित्र परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥ ११ ॥ रामः—तत्किमयमकेपद एव मे दुःखविश्रामं दद्यात्पुत्रस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्र- निषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । नि पवित्रत्वानि । अनुभाव सम्मतिनिधय । दर्शनानि शास्त्राणि च यस्मि- न् । 'अनुभाव प्रभावे च सत्ता च मतिनिधये' इत्यमर ॥ आश्वास इवेति ॥ १० ॥ आश्वासस्नेहयोः सान्त्वनप्रणययो सन्निध्योरिति भाव । भक्तीनां परन्तृचाणामिति भाव । एकं अद्वितीयम् । आयतनं स्थानम् । प्रकृष्टस्य आवरणस्य । धर्मस्य तत्रनेयादे । 'यजेतावरणैर्मृथ्यैः' इति स्मरणात् । मूर्त्या सुन्दरः मूर्ति शरीर सुन्दर दस्येति वा । सौन्दर्येण मूर्त्त इति भावः । प्रसाद अनुग्रह इव स्थित इति शेष । तथा चाश्वमेधस्यैव फलं राम इति भाव ॥ १० ॥ विरोधो विश्रान्त इति ॥ ११ ॥ स प्रसिद्धः । विश्रान्तः विरत वीरो रसः निर्वृतिघनः सुखमान्द्र सन् । प्रसरति व्यासो भवति । तत् परभण्डरम् । प्रह्वयति नक्षयति । अस्मिन् महापुरुषे । 'पराधीन परवानायत्तामपि' इत्यमर । यदि वा अथवेत्यर्थं । 'मद्गोत यदिवा- यथा' इति निकमार्क । तीर्थानां गुरुणानिव । महतां पूज्यानाम् । महार्घः उत्सवपूर्वकपूजाविधिरित्यर्थ । 'मह उत्सवे' इति, 'पूजाविधावर्घ ' इति चामर । कोऽपि अतिशयो हि ॥ ११ ॥ 'सहसा स्यादेकपदे' इति जन्दी । दुःखाय विश्रामं रिरति अभावनिति यावत् । कुतः कस्मादपि । निमित्तात् कारणात् । निमित्तेन सव्यपेक्षः सापेक्ष इत्येतात् । विप्रतिपि- द्धं विशेषेण निषिद्धमित्यर्थ ॥ तदेवोपपादयति ॥ व्यतिषजति इति ॥ १२ ॥ १ 'आश्वास इव भक्तीनामेकम्' ग, 'रुकमात्म्नन' क-घ-व. २ '० सप्रर.' ३ 'किमिति' ग; 'किमसि' क.

३२८ उत्तररामचरितं [ ६-१३ विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ १२ ॥ लवः-चन्द्रकेतो क एते । चन्द्रकेतुः-प्रियवयस्य ननु तातपादाः । लवः-ममापि तर्हि धर्मतस्तथैव । यत प्रियवयस्य इति भवतोक्तम् । किं तु बहवः खलु भवतामेवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथा- पुरुषाः । तद्विशेषं ब्रूहि । चन्द्रकेतुः-ननु ज्येष्ठतातपादा इत्यवेहि । लवः-( सोल्लासम् । ) कथं रघुनाथ एव । दिष्ट्या सुप्रभातम् अद्य यदयं देवो दृष्टः । ( सविनयकौतुकं निर्वर्ण्य । ) तात प्राचेतसान्तेवासी लवोऽभि- वादयते । रामः-आयुष्मन् एह्येहि । ( इति सस्नेहमालिङ्ग्य । ) अयि वत्स कृतं कृतमतिविनयेन । अनेनवारमपरिक्लथ्य परिष्वजस्व माम् । परिणतकठोरपुष्करगर्भच्छदपीनमस्सृणसुकुमार । नन्दयति चन्द्रचन्दननिष्यन्दजडस्तर स्पर्श ॥ १३ ॥ लवः-( स्वगतम् । ) ईदृशो मा प्रत्यमीषामकारणस्नेहः । मया पुन- रेभ्य एव द्रोद्धुमनेनायुधपरिग्रहः कृतः । ( प्रकाशम् । ) मृष्यन्त्विदानीं लवस्य बालिशतां तातपादाः । आन्तरः अन्तःकरणात्मको हेतुः । पदार्थान् प्रतिरूपान् । व्यतिषजति व्यतिषक्तान् सम्बद्धान् करोतीत्यर्थः । 'व्यतिषजन्ति सम्बध्नाति' इति श्रीनाथः । 'उपाधिस्तु निमित्ते च' इति हेमचन्द्रः । तत्रोदाहरणमाह-हीति । पतङ्गस्य रवेः । पुण्डरीकं सिताम्भोजम् । हिमरश्मौ चन्द्रे । उद्गते उदिते सति । चन्द्रकान्तशिला । द्रवती स्रवतीति माठरः । तथा च अतिदूरे रवौ चन्द्रेऽप्यु- दिते यथा पुण्डरीकं विकसति चन्द्रकान्तश्च द्रवति । तथैव केनाप्यान्तरहेतुना प्रीतयो वर्धन्त । नात्र निमित्तापेक्षेति भावः । 'प्रतिशब्दः प्रेम्णा च' इति वामनः ॥ १२ ॥ क एत इति पूजायां बहुवत्वम् । तथैव तातपादा इत्यर्थः । भवता- मिति पूजायाम् । युष्मच्छब्दश्चन्द्रकेतुप्रमुखानामिति च व्यज्यते । भवत इति च पाठः । एवं व्यपदेशः तातेति व्यवहारः स एव भागः येषामस्ति ते भागिनः । तत्रभवन्तः पूज्याः । 'व्यपदेशस्तु व्यवहारः' इति संसारावर्ते । तेषु विशेषम् । अपरिक्लथं दृढम् ॥ परिणतकठोरेति ॥१३॥ परिणत- १ 'अङ्गेन मामपरिक्लथे परिष्वजस्व' न. २ 'अभिद्रुग्धमनेन यदायुधपरिग्रह- मावद्बप्पास्ततो दुर्योग' क-घ-प.

६-१४ ] उत्तररामचरितं १२९ रामः-किमपराद्धं वत्सेन । चन्द्रकेतुः-अश्वानुयात्रिकेभ्यस्तातमपराधविकरणमुरुबहुल वीरायित- मनेन । रामः-नन्वयमलंकारः क्षत्रस्य । न तेजस्तेजस्वी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ॥ १४ ॥ चन्द्रकेतुः- अमर्षोऽप्यस्यैव शोभते महाबीरस्य । पश्यन्तु हि तात- पादाः प्रियमबलनियुक्तजृम्भकास्त्रनिरुद्धरम्भितानि सर्वतः सैन्यानि । रामः-वत्स लव संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो निर्व्यापारविल- क्षितानि सान्त्वय बलानि । लवः-यथाज्ञापयति तातः । ( इति प्रणिधानं नाटयति । ) चन्द्रकेतुः-यथादिष्टम् । ( इति निष्क्रान्तः । ) लवः-तात प्रशान्तमस्त्रम् । रामः-वत्स सरहस्यप्रयोगसंहाराण्यस्त्राण्याम्नायवन्ति । ब्रह्मादयो ब्रह्महिताय तप्त्वा परं सहस्राः शरदस्तपांसि । कठोरपुष्कराणां विकसितपद्मारविन्दानाम् । आन्तरपुटवत् पीनः स्थूलः । जडः शिशिरः ॥ द्रोग्धुं द्रोहं कर्तुम् । वालिशतां मौर्व्यम् । वीरवदाचरितं वीरायितं पौरुषं कृतमित्यर्थः । ध्वनिध ॥ न तेजस्तेजस्वीति ॥ १४ ॥ प्रसूतं व्याप्तम् । तस्य तेजस्विनः । प्रकृतिनियतत्वात् जन्मसिद्धत्वात् । 'जन्मसिद्धस्वभावेषु प्रकृति.' इति कश्चित् । अकृतकः अकृत्रिमः । मयूखैः किरणैः । अश्रान्तं भनिशम् । तपति यदि तपति चेत् । आग्नेयग्रावा 'सूर्यकान्तरत्नमिभा' इति, 'विकृतः स्यादुपकृत' इति चामरः । 'तस्मिन् विप्रकृताः काले' इति ईश्वरकृष्णमिश्रः ॥१४॥ निर्व्यापाराणि व्यापाररहि- तानि । अत एव विलक्षणा(क्षिता?)नि । बलानि सैन्यानि । प्रणिधानं ध्यानम् । सरहस्या. जृम्भकाणां प्रयोगोपसंहाराः येषु तानि । पाराय- १ 'प्रसहते' घ-व. २ '० नियुक्तेन जृम्भकास्त्रेण विकन्द सम्भितानि सर्वसैन्यानि' न. ३'०णहारजृम्भकास्त्राणि दिष्ट्या इत्यक्षतारि संपदन्ते' न. ४'दरःसहस्रं' क-न.

१३० उत्तररामचरितं [ ६-१७ एतान्यपश्यन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ १५ ॥ अथैतन्मन्त्रपारायणोपनिषदं भगवान्कृशाश्वः परःसहस्रसंवत्सरान्तेवासिने कौशिकाय प्रोवाच । स तु भगवान्मह्यमित्येष गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदाय इति पृच्छामि । लवः—स्वतःप्रकाशान्यावयोरस्त्राणि । रामः—( विचिन्त्य । ) किं न संभाव्यते । प्रकृष्टपुण्यपरिपाकोपादान- कोऽपि महिमा स्यात् । द्विवचनं तु कथम् । लवः—भ्रातरावां यमौ । रामः—स तर्हि द्वितीयः कः । ( नेपथ्ये । ) दाण्डायन आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ सखे तथेति । अद्यास्तमेतु भुवनेष्वधिराजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥ १६ ॥ रामः—अथ कोऽयमिन्द्रमणिमेचकुरुच्छवि- र्ध्वनिनेव बद्धपुलकं करोति माम् । नवनीलनीरधरधीरगर्जित- क्षणबद्धकुड्मलकदम्बडम्बरम् ॥ १७ ॥ लवः—अयमसो मम ज्यायानार्यः कुशो नाम भरताश्रमान्प्रतिनिवृत्तः । रामः—( सकौतुकम् । ) वत्स इत एवाह्वयैतमायुष्मन्तम् । लवः—एवम् । ( इति परिक्रामति । ) पश्य पठमस्य । उपनिषदं । तमरेभ्य प्रभृति । अन्तेवासिने शिष्याय । गुरूणाम् । कुतः कस्मात् । पुण्यानां परिपाक परिणाम एव उपादानं कारणं यस्य । उपादानमिति यमायिति च ध्वनी । तथा अनिशयेनेत्यर्थ ॥ आयुष्मतः किलेति ॥ १६ ॥ क्षत्रम्य रामस्येति भावः । शस्त्राण्येव शिखिनः अग्नय ॥ १६ ॥ अथ कोऽयमिन्द्रेति ॥ १७॥ इन्द्रमणिवत् मेचका नीला छविः कान्ति यम्य । धीरगर्जितक्षणे गम्भीरस्तनितक्षणे । यद्धकुड्मलः यः कदम्बो नीर तस्य डम्बरः शारभटी यस्य तम् । १ 'अथैतास्मन्त्रान्द्रोपनिषदम्' ग-क. २ 'सहस्राधिकसंवत्सरपरिचर्यानिरा यान्ते०' न. ३ 'पूर्वानुक्रमः' घ, 'क्रमः' घ. ४ 'भुवनेषु च राज०' न.

६-१९ ] उत्तररामचरितं १३१ ( ततः प्रविशति कुशः । ) कुशः- ( साकूतहर्षनेत्रं धनुरास्फालयन् । ) दत्तेन्द्राभयदक्षिणं भगवतो वैवस्वताद्वा मनो- दृप्तानां दहनाय दीपितनिजक्षत्रप्रतापाग्निभिः । आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितस्यं धनुः ॥ १८ ॥ ( इति विकटं परिक्रामति । ) रामः-कोऽयमिन्क्षत्रियपोतके पौरुषातिरेकः । दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमभ्युत दर्प एव ॥ १९ ॥ लवः- ( उपसृत्य । ) जयन्त्वार्यः । कुशः-आयुष्मन् किमियं वार्ता युद्धं युद्धमिति । लवः-यत्किञ्चिदेतत् । आर्यस्तु दृष्टभावमुत्सृज्य विनयेन वर्तताम् । कुशः-किमर्थम् । 'आरभटी चारभटीकाऽम्बरश्च' इति रुद्रः ॥ १७ ॥ दत्तेन्द्राभयेति ॥ १८ ॥ वैवस्वतान्मनोरागतैः जातायैः । संभूतिरिति यावत् । दृप्तानां गर्वितदै- त्यानाम् । आदित्यैः वैकर्तनैः । 'ऐक्ष्वादिजनकादित्यविदेहरघवो दिशः' इत्यमरः । मानितैरिति च पाठः । ततः विस्तृतः । विग्रहो यदि युद्धं चेत् । धनुः । दीप्तास्त्राण्येव स्फुरन्तौ उग्रदीधिती अग्निमूर्ती तयोः शिखानिः ज्वालाभिः । नीराजिता कृतनीराजना । गुम्भि(म्फि?)तेति यावत् । ज्या मौर्वी यस्मिन् तादृशं शोभतामिति शेषः । धनुर्भ योजितास्त्रं भवत्विति भावः ॥१८॥ क्षत्रपोते क्षत्रियडिम्भे । पौरुषस्य सामर्थ्यस्य । अतिरेकः आधि- क्यम् ॥ दृष्टिस्तृणीकृतेति ॥१९॥ जगत्त्रये मत्ताः । 'बलाधिके च सत्त्वोऽ- स्त्री' इत्यमरशेषः । गतिः गमनम् । पादार्पणक्रम इति यावत् । 'बाल्ययौवनम- ध्यस्थं वयः कौमारकं विदुः ।' इति नन्दी । गुरुतां गुरुत्वं गुणविशेषं महत्त्वं च । गिरिवदिति कथनं गुरुतायां सार्वकालिकत्वसूचकम् । उत अथवा । 'औद्धत्यमशङ्को दर्पः ।' इति गोवर्धनः ॥ १९॥ युद्धमित्यनादरे । यत्किञ्चिदिति कथनं आत्मसदृशयुद्धाभावज्ञापकम् । दृप्तभावं दर्पम् । , १ 'सक्रोधं कृतधैर्य' न. २ 'दमनाय' भ. ३ 'दीप्तास्त्र०' न-घ-व. ४ 'उत्सृज्याधोऽस्मिन् विनयेन' व-घ.

१३२ उत्तररामचरितं [५-२० लवः—यदय देवो रघुपतिस्तिष्ठति। स च दिदृक्षावयोस्कण्ठते च युष्मत्सैनिकपंक्त्य । कुशः—(सतर्कम्।) स रामायणकथानायको ब्रह्मकोशस्य गोपायिता। लवः—अथ किम्। कुशः—आशंसनीयपुण्यदर्शनः स महात्मा। किं तु कथमस्माभिरुपग- न्तव्य इति न संप्रधारयामि। लवः—यथैव गुरुस्तथोपसदनेन। कुशः—कथं हि नामैतत्। लवः—अभ्युदात्तः सुजनश्चन्द्रकेतुरेौरिमलेयः प्रियवयस्येति सख्येन मामु- पतिष्ठते। तेन तत्सम्बन्धेन धर्मतात एवायं राजर्षिः। कुशः—संग्रह्यवचनीयो राजन्येऽपि प्रश्रयः। (उभौ परिक्रामतः।) लवः—पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानवि- विधलोकोत्तरसुचरितातिशयम्। कुशः—(निर्वर्ण्य।) अहो प्रासादिकं रूपमनुभावश्च पावनः। स्थाने रामायणकविर्देवी वाचं व्यवीवृतत् ॥ २० ॥ (उपसृत्य) तात प्राचेतसान्तेवासी कुशोऽभिवादयते। रामः—एह्येह्यायुष्मन्! आवयोरिति सप्तमीद्विवचनम्। धातृङ्.। ब्रह्मण एव विप्रा त एव कोशाः अर्थांप.। ‘वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्र.’ इत्यमरः। ‘गुरुस्तात उपाध्याय.’ इति पठन् इति शेषः । उदात्त महान् । और्मिलेयः ऊर्मिलापुत्र. । ‘सख्यं साप्तपदीनम्’ इत्यमर । राजन्ये क्षत्रियविषये । प्रश्रयः विनदः । ...श्चास्र इति रभसः। आकारानुभावस्य स्वरूपप्रभावस्य। गाम्भीर्येण ॥ अहो प्रासादिकमिति ॥ २० ॥ प्रासादिकं प्रसादनदानम् । ‘माहात्म्ये चानुभाव.’ इति वषिल । वाल्मीकिः रामायणमुद्दिश्य । वाचं सरस्वतीम् । व्यवीवृतत् वर्तयति स्मेल्यर्थः। परिणामयति स्मेति यावत्। स्थाने युक्तम् १ 'रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता' इति सूत्रवाक्य न-पुस्तके. २ 'भवीवृनद्' क, 'मवीवृषत्' न.