उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 151, कुल 439 में से
संदर्भ में पढ़ें१३२ उत्तररामचरितं [५-२० लवः—यदय देवो रघुपतिस्तिष्ठति। स च दिदृक्षावयोस्कण्ठते च युष्मत्सैनिकपंक्त्य । कुशः—(सतर्कम्।) स रामायणकथानायको ब्रह्मकोशस्य गोपायिता। लवः—अथ किम्। कुशः—आशंसनीयपुण्यदर्शनः स महात्मा। किं तु कथमस्माभिरुपग- न्तव्य इति न संप्रधारयामि। लवः—यथैव गुरुस्तथोपसदनेन। कुशः—कथं हि नामैतत्। लवः—अभ्युदात्तः सुजनश्चन्द्रकेतुरेौरिमलेयः प्रियवयस्येति सख्येन मामु- पतिष्ठते। तेन तत्सम्बन्धेन धर्मतात एवायं राजर्षिः। कुशः—संग्रह्यवचनीयो राजन्येऽपि प्रश्रयः। (उभौ परिक्रामतः।) लवः—पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसम्भाव्यमानवि- विधलोकोत्तरसुचरितातिशयम्। कुशः—(निर्वर्ण्य।) अहो प्रासादिकं रूपमनुभावश्च पावनः। स्थाने रामायणकविर्देवी वाचं व्यवीवृतत् ॥ २० ॥ (उपसृत्य) तात प्राचेतसान्तेवासी कुशोऽभिवादयते। रामः—एह्येह्यायुष्मन्! आवयोरिति सप्तमीद्विवचनम्। धातृङ्.। ब्रह्मण एव विप्रा त एव कोशाः अर्थांप.। ‘वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्र.’ इत्यमरः। ‘गुरुस्तात उपाध्याय.’ इति पठन् इति शेषः । उदात्त महान् । और्मिलेयः ऊर्मिलापुत्र. । ‘सख्यं साप्तपदीनम्’ इत्यमर । राजन्ये क्षत्रियविषये । प्रश्रयः विनदः । ...श्चास्र इति रभसः। आकारानुभावस्य स्वरूपप्रभावस्य। गाम्भीर्येण ॥ अहो प्रासादिकमिति ॥ २० ॥ प्रासादिकं प्रसादनदानम् । ‘माहात्म्ये चानुभाव.’ इति वषिल । वाल्मीकिः रामायणमुद्दिश्य । वाचं सरस्वतीम् । व्यवीवृतत् वर्तयति स्मेल्यर्थः। परिणामयति स्मेति यावत्। स्थाने युक्तम् १ 'रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता' इति सूत्रवाक्य न-पुस्तके. २ 'भवीवृनद्' क, 'मवीवृषत्' न.