उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 160, कुल 439 में से
संदर्भ में पढ़ें६-४२ ] उत्तररामचरितं १४१ सम्बन्धस्पृहणीयताप्रमुदितेर्जुष्टे वसिष्ठादिभि- र्दृष्ट्वापत्यविवाहमङ्गलमहे तत्तत्तातयोः सङ्गतम्। पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाहमथवा रामेण किं दुष्करम् ॥४०॥ ( नेपथ्ये । ) भो भो, कष्ट कष्टम् । अनुभावमात्रसन्निवेशितथियं सहसैव वीक्ष्य रघुनाथमीदृशम्। प्रथमप्रमूढजनकप्रबोधनाद् विधुराः प्रमोहमुपयान्ति मातरः ॥ ४१ ॥ रामः—हा तात हा मातर हा जनक जनकानां रघूणां च यत्परं गोत्रमङ्गलम् । तत्राप्येककरणे पापे वृथा वः करुणा मयि ॥ ४२ ॥ पराश्रादिनि भाव ॥ सम्बन्धस्पृहणीयतेति ॥ ४० ॥ स्पृहणीयता इच्छा । जुष्टे सेविते । अपत्यानां सीतादीनाम् । तत्तत्तातयोः तासां सीता- दीनां तातयो जनककुशध्वजयो । सङ्गतं समागमम् दृष्ट्वा । महावैशसे परित्यागरूपे अप्रिये । वृत्ते अतीते सति । ईदृश पश्यन्नहं न दीर्ये किं न दल्यामि । 'वैशसनप्रियम्' इति, 'वृत्तमतीते' इति त्रिकाण्डशेषनामनि- धाने । 'दलति दीर्यति' इति पाठरोधः । अत्र जीर्य ( दीर्ये २ ) इति क्वै प्रमाद् । 'न विदीर्ये कठिना खलु स्त्रिय' इति कुमारसंभवे ईश्वरकृष्ण- मिश्रेण दर्शनीय ॥ सन्देह न दीर्ये कुत पुनरिद सामर्थ्यमित्यत ग्राह— अथवेति ॥ किं दुष्कर किमपि दुष्करं नेत्यर्थ सर्वं सुकरमिति भाव ॥ ४० ॥ अनुभावमात्रेति ॥ ४१ ॥ अनुभावः प्रभाव । सुधी शोभा तद्र्वीवा । 'तस्य धीरनपायिनी' इति स्मरणात् । 'सीता लक्ष्मीर्भवान्विष्णु' इति रामायणे च । ईदृशं सीताविधुरम् । विधुराः दीना । प्रमोहं मूर्च्छातिशयम् ॥ ४१ ॥ जनकानां रघूणामिति ॥ ४२ ॥ तात निमि- शाधिप इत्यर्थ । यत् भूम्यपत्यमिति शेष । सीतेत्यथ । वृत्तस्तं अशेषम् । गोत्रयोः वशयोध्र मङ्गलम् । तत्रापि सीतायाम् । अकरुणे पापे मयि । १ 'मङ्गलवेशे' न. २ 'दृष्टे' क-घ-व ३ 'समुञ्चित' घ-व. ४ 'प्रथमप्रमूढजनकप्रबोधिता.' म. ५ 'तन्निष्करुणे' क-घ-व.