भारतकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 167, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 167

१४८ उत्तररामचरितं [७-६ पृथिवी—आः क्खवार्यपुत्र । सीता—(सलज्जास्रम्।) जहा वा अम्बा भणादि । यथा वाऽम्बा भणति । रामः—अम्ब पृथिवि, ईदृशोऽस्मि । भागी०—भगवति वसुन्धरे शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि । घोर लोके विततमयशो या च वह्नौ विशुद्धि- र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु । इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कृत्स्नो लोकस्तदिति विषमे किं स वत्सः करोतु ॥ ६ ॥ लक्ष्मणः—अव्याहतान्त प्रकाशा हि देवताः सर्व्वेषु । भागी०—तथाप्येष तेऽञ्जलिः । राम.—अम्ब अनुवृत्तरुदया भगीरथकुले प्रसीद । पृथिवी—देवि नित्यं प्रसन्नास्मि यः किं त्वापातदु सहस्नेहसंवेगेनैवं ब्रवीमि । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य । ॥ ५ ॥ हा आर्यपुत्र स्मर्यसे । आः कोपे । यथाऽम्बा भणति । 'अम्बा माता गुरुवधू श्वश्रूज्येष्ठप्रजापती' इति रत्नमाला । शरीरमसि शरीरमिव रक्ष्यं प्रार्थनीयासीत्यर्थः । सर्वाधारत्वादिति भावः ॥ घोरं लोके विततमिति ॥ ६ ॥ विततं विस्तृतम् । श्रद्दधातु दृढप्रत्ययादिति भावः । समाराध- नीय इति यत् इदं इक्ष्वाकूणां कुलधनमित्यर्थः । तद्वदावश्यकमिति भावः । एतेन- 'लज्जा ( रुजा ? ) कुलधनं राजा लङ्का प्रायाद्विभीषण ।' इत्यत्र यत् कैरपि यथेच्छं व्याहृतम्, तत्परास्तम् । तत् तस्मात् । इति पूर्वोक्तप्रकारेण । विषमे सङ्कटे ॥ ६ ॥ सर्व्वेषु विषयेषु । अथ गङ्गा भूमिं प्रत्याह-तथापीति । ते तुभ्यम् । अञ्जलिः मया दियत इति शेष । अनुवृत्त अनुगल रुत इत्यर्थः । तत्तादृशस्य अद्भूमिति सम्प्रदायार्थः । अत एव अनावागतोऽस्मीति विक्रमचरिते डिण्डिमः । आपाते श्राकर्णनक्षण एव दुस्सहं कौलीनं यस्मात्तादृशी चासौ मुग्धा तस्या स्नेहस्य आवेगः शागमन्नावैग आवेगतस्तेनेत्यर्थ । 'दर्शनक्षण आपातमथवाकर्णनक्षण' । १ 'तदिह' न-क, 'तमपि विषमे' घ, 'तदतिगहनम्' य. २ 'भूतेषु विशेषेण गङ्गा' घ-य. ३ एतल्लक्ष्मणवाक्य घ-यं-पुस्तक्रयो . ४ 'दु मह शोकावेगोत्प- त्तस्य न पुनर्न' य; 'किं स्वभावापातु सह स्नेहसंवेग 'न.