उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 166, कुल 439 में से
संदर्भ में पढ़ें७-५ ] उत्तररामचरितं १४७ स्नेहेन । यद्वा सर्वसाधारणो ह्येष मानसो मोहग्रन्थिश्चेतनावतामुपप्लवः संसारतन्तुः । देवि भूतधात्रि वत्से वैदेहि समाश्वसिहि समाश्वसिहि । पृथिवी-देवि सीतां प्रसूय कथमश्वसिमि । सोढश्चिरं राक्षसमध्यवास- स्त्यागो द्वितीयो हि सुदुःसहोस्याः । भागी०-को नाम पाकाभिमुखस्य जन्तो- द्वाराणि दैवस्य विधातुमीष्टे ॥ ४ ॥ पृथिवी-भगवति भागीरथि युक्तमेतत्सर्वं न वो रामभद्रस्य । न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । नाहं न जनको नाग्निर्नारानुवृत्तिर्न सन्ततिः ॥ ५ ॥ सीता-हा अज्जउत्त सुमराविदोम्हि । हा आर्यपुत्रं स्मारितास्मि । कल्पशतानि वा तदपि व्यथते । अत एव (अफल ?) स्नेहेन जितमिति भावः ॥ मानसः मनस्सम्बन्धी । मोहग्रन्थिः ममतापाशः । 'ममता- गृह्योर्मोहः' इति, 'ग्रन्थिर्नो पर्वपाशयो' इति वामनयादवौ । चेतना- वतां प्राणिनाम् । 'उपप्लव उपद्रवे' इति ध्वनिमञ्जरी । गूढैतान्तर इति च दिशरी प्रसिद्धा । भूतधात्रि इति भूवाचक सद्योपनम् ॥ सोढश्चि- रमिति ॥ ४ ॥ सोढः क्षान्तः । लङ्कायामिति भावः । हि प्रसिद्वौ । अहिस्तर्पं इव सुदुस्सह इति एकपद च । पाको सुरादु सपरिणामंः तामुद्दिश्य अभिमुखस्य । 'पोते च परिणामे च पाक' इति नानार्थमञ्जरी । जन्तोर्विषये । 'तस्य वा तस्य विषये' इति समवयदिति । दैवस्य सुरा- दुरात्रापरविधेः । द्वाराणि प्रवेशमार्गान् । विधातुं आच्छादयितुम् । ईष्टे समर्थो भवति । तथा च-'अवश्यमनुगोक्तव्यं कृतं कर्म शुभाशुभम् ॥' इति भावः । 'प्रवेशमार्गे च द्वारि छिद्रे च' इति धनञ्जयः ॥ ४ ॥ न वो रामभद्रस्येति भिन्नं वाक्यम् । यः युष्माकम् । रामभद्रस्य नेति युक्तमित्यनुषङ्गः । 'सीताऽर्धमभवान्बिष्णु' इति स्मारितयादिति भावः । तदेवाह-न प्रमाणीकृत इति ॥ ५ ॥ अनुवृत्तिः अनुवर्तनम् । सन्ततिः रघुणां वंशः । प्रमाणीकृत इति पदं सर्वत्र यथोचितमूह्यम् १ 'मनसो मूढग्रन्थिरानन्द.' न, 'जननो मोहग्रन्थिरनश्वर.' क-च, 'गृह्य- स्थिरनश्वर.' घ. २ 'अनुभूत.' क-घ-च. ३ 'स्वरचिरम्' घ. ४ 'द्वितीयस्तु' न; 'द्वितीयश्च' क-घ-च. ५ 'जन्तुः' न-व. ६ 'सदृशमुक्तम् । युक्तमेतन्न रामभद्रस्य' क-घ-च; 'सर्वं वो रामभद्रस्य' न. ७ 'न तु वृत्ति' न.