उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 165, कुल 439 में से
संदर्भ में पढ़ें१४६ उत्तररामचरितं [ ७-३ लक्ष्मणः-( पादयोर्निपत्य ।) आर्य आर्य दिष्ट्या वर्धामहे । कल्याण- प्ररोहो रघुवंशः । (विलोक्य ।) हा हा कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति ।) पृथिवी-वत्से समाश्वसिहि । सीता-( समाश्वस्य ।) भअवदीओ का तुम्हे । मं मुञ्चह । भगवत्यौ के युवाम् । मा मुञ्चतम् । पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी । सीता-भअवदि णमो दे । भगवति नमस्ते । भागीरथी-चारित्रोचितां कल्याणसम्पदमधिगच्छ । लक्ष्मणः-अनुगृहीताः स्मः । भागीरथी-इयं तु जननी ते विश्वम्भरा । सीता-हा अम्म ईदिसी अहं तुए दिट्ठा। हा अम्ब ईदृश्यहं त्वया दृष्टा । पृथिवी-एहि वत्से एहि पुत्रि । ( उभौ आलिङ्ग्य मूर्च्छतः ।) लक्ष्मणः-( सहर्षम् ) दिष्ट्या गङ्गापृथिवीभ्यामभ्युपपन्नायां । रामः-( अवलोक्य ।) दिष्ट्या घटतेऽत्यन्तकरुणोत्तरं वर्तते । भागीरथी-अत्रभगवती विश्वम्भरापि नाम व्यधत इति जितमपत्न- ॥ ३ ॥ दिष्ट्या इदानीं प्रसूताम्भि(त्रि ?) कल्याणी शुभौ प्ररोहौ अङ्कुरौ सुतरूपौ यस्मिन् । क्षुभितानां जर्जराणां । बाष्पाणां उत्पीडः प्रादु- र्भाव निर्भरः निरतिशय यस्मिन् । प्रकर्षेण मुग्धः मूढ । भगवत्यौ के युवां मा मुञ्चतम् । भगवत्यौ इति संबोधनम् । भागीरथीत्वापादक हेतु- गर्भं नाम । भगवति नमस्ते ॥ हा अम्ब ईदृशी त्वयाऽहं दृष्टा ॥ मूर्च्छतः मुद्यतः । प्रेमावेशेनेति भाव ॥ आर्या सीता । अभ्युपपन्ना अनुगृ- हीता ॥ दिष्ट्या दैवात् । एतत् अभ्युपपादन अनुग्रह इति यावत् । करुणो रस उत्तरः अधिक यस्मिन् । इद एतदित्यस्य विशेषविशेषणं बोध्यम् ॥ अत्र सीताविषये । तथा न । एषा विश्वम्भरा । अथ्वा गीतेव १ 'भअवदि का तुम इमं अ' ( का त्वम्, इमं प) क-घ-प. २ 'चारि- त्रोचिताम्' घ-प. ३ 'करणतर एतेनेदं वर्तते' क-ग-प; 'परमात्तरम्' न.