उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
पृष्ठ 23, कुल 439 में से
संदर्भ में पढ़ेंनायते । सूत्रधार — अलमतिविस्तरेण । अद्य खलु भगवत काल प्रियानाथस्य यात्रायामार्थमिश्रान्विज्ञापयामि—एवमत्रभवन्तो विदांकुर्वन्तु । अस्ति खलु तत्रभवान्काश्यप श्रीकण्ठपदलाञ्छन पदवाक्यप्रमाणज्ञो भव भूतिर्नाम जातूकर्णीपुत्रै ।- यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते । उत्तर रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ २ ॥ र्त्मानं वर्णयन् नाटकीयेतिवृत्तसंक्षेपादिकं संग्रहेणोपक्रमते —नान्द्यन्त इत्यादि । भगवत षाड्गुण्यपरिपूर्र्णस्य । कालप्रियेति तत्रत्यदेव्या नाम । पुराणगम्यैषा कथा । यात्रा महोत्सवप्रयुक्तेति भाव । आर्य्येषु ज्ञानवृद्धेषु । मिश्रान् पूज्यान् । एवं वक्ष्यमाणप्रकारेण । अत्र रूपके । विदांकुर्व्वन्तु जानन्तु । भगवान् कीर्त्तिमान् । काश्यप कश्यपवंशाभव काश्यप । मङ्गिनाथप्रयोगात् श्रीकण्ठ इति पदं नाम लाञ्छनं व्यवहार यस्य श्रीकण्ठाख्य इत्यर्थ । श्रीकण्ठस्य शिवस्य पदे पादावेव लाञ्छनं चिह्न यस्येति वाथ । शिवपा दाब्जनिरत इति यावत् । ‘पदं स्थानाङ्घ्रिनामादौ’ इति, ‘लाञ्छन व्यवहारोऽभिध देषु’ इति रुद्रकेशवौ ॥ ‘शम्भो कालप्रियानाथ श्रीकण्ठ’ इति शशि शेखरे पुष्पद्दन्तस्तवे । प्रमाणानि कोशादय । ‘कोशवानाचार्य’ इति स्मरणात् । भवात् शिवात् भूति भस्म सम्पद यस्य ईश्वरेणैव जातु दिनद्वयेण विभू तिर्दत्ता, तदाप्रभृति भवभूतिरिति प्रसिद्धो जात इति च परावरविदो विदन्ति ॥ यं ब्रह्माणमियं देवीति ॥२॥ ब्राह्मण पद्मकमनिरतम् । अनेनान्तर्मुखेऽप्युच्चदु ल्लसद्रतौ कालिदासस्वभावसूवादाय भृतकविना अनुसन्धेयम् । अन्य वर्तत इति प्रचुरं पाठमङ्गीकृत्य केचित् व्याचक्षु । तन्न, अस्ति खल्विति वाक्य विरोधात् अनुवर्तत इत्येव पाठ । तत्प्रणीतमित्यविचारितरमणीय पाठ । कविरस्ति यमिति तत्प्रणीतमिति च पूर्वोत्तरवाक्याना परस्परमसङ्गतत्वात् । यत्प्र णीतमिति युक्त पाठ । पूर्ववाक्ये कविरस्तीति कथनेन उत्तरवाक्ययो यमिति यत्प्रणीतमिति कथनस्य सामीच्याद्यात् । अत एव, ‘अम्भोजनभूराविरासीत् । आभाति यत्कृति’ इत्यस्मद्व्याख्यातभोजचम्पौ । शिष्यविज्ञापने विशेषज्ञा प्रमा- णम् । प्रयोक्ष्यते मयेति शेष ॥ अत्र पुन —‘उत्तरे रामचरिते भवभूतिर्विशिष्यते’ इति विन्मद्वचनविश्राशिन केचिदलङ्कारियायिन वदन्ति । तन्न विशेषत- १ 'कालप्रियनाथस्य' इति व-घ-क २ 'खलु इति नास्ति व-पुस्तके ३ '०प्रमाणतत्वज्ञ' इति व ४ 'नतूकर्णीपुत्र' इति न ५ 'अन्ववर्त्तत इति न ६ 'प्रयुज्यते' इति व-घ